१. रहोगतसुत्तवण्णना

२५९. यंकिञ्चि वेदयितन्ति ‘‘सुखं दुक्खं अदुक्खमसुख’’न्ति वुत्तं वेदयितं दुक्खस्मिं अन्तोगधं, दुक्खन्ति वत्तब्बतं लभति परियायेनाति अत्थो. तेनाह ‘‘तं सब्बं दुक्खन्ति अत्थो’’ति. या एसातिआदीसु यो सङ्खारानं अनिच्चतासङ्खातो हुत्वा अभावाकारो, या खयसभावता विनस्सनसभावता जराय मरणेन चाति द्विधा विपरिणामनसभावता, एतं सन्धाय उद्दिस्स सब्बं वेदयितं दुक्खन्ति मया वुत्तन्ति अयं सङ्खेपत्थो. साति सङ्खारानं अनिच्चता. वेदनानम्पि अनिच्चता एव सङ्खारसभावत्ता. तासं अनिच्चता च नाम मरणं भङ्गोति कत्वा ततो उत्तरि दुक्खं नाम नत्थीति सब्बा वेदना ‘‘दुक्खा’’ति वुत्ता, यथा ‘‘यदनिच्चं तं दुक्ख’’न्ति च, ‘‘पञ्चुपादानक्खन्धा दुक्खा’’ति च वुत्तं. इदं सुत्तपदं. चत्तारो आरुप्पाति चतस्सो अरूपसमापत्तियो. एत्थाति च एतस्मिं पटिप्पस्सद्धिवारे.

रहोगतसुत्तवण्णना निट्ठिता.