४. पातालसुत्तवण्णना

२५२. यत्थ पतिट्ठा नत्थि एकन्तिकाति एकन्तिकस्स महतो पातस्स अलन्ति अयमेत्थ अत्थो अधिप्पेतोति आह ‘‘नत्थि एत्थ पतिट्ठा’’ति. असम्भूतत्थन्ति न सम्भूतत्थं, मुसाति अत्थो. सोति अस्सुतवा पुथुज्जनो. यं तं उदकं पततीति योजना. यस्मा समुद्दपिट्ठे अन्तरन्तरा वेरम्भवातसदिसो महावातो उट्ठहित्वा महासमुद्दे उदकं उग्गच्छापेति, तं कदाचि चक्कवाळाभिमुखं, कदाचि सिनेरुपादाभिमुखं गन्त्वा तं पतिहनति, तस्मा वुत्तं ‘‘बलवामुखं महासमुद्दस्सा’’तिआदि. वेगेन पक्खन्दित्वाति महता वातवेगेन समुद्धतं तेनेव वेगेन पक्खन्दन्तञ्च हुत्वा. महानरकपपातो वियाति योजनायामवित्थारगम्भीरसोब्भपपातो विय होति. तथारूपानन्ति तत्थ वसितुं समत्थानं. असन्तन्ति अभूतं. अत्थवसेन हि वाचा अभूतं नाम.

न पतिट्ठासीति पतिट्ठं न लभि. अनिबद्धन्ति अनिबन्धनत्थं यंकिञ्चि. दुब्बलञाणोति ञाणबलरहितो. ‘‘अस्सुतवा पुथुज्जनो’’ति वत्वा ‘‘सुतवा अरियसावको’’ति वुत्तत्ता ‘‘सोतापन्नो धुर’’न्ति वुत्तं. इतरेसु अरियसावकेसु वत्तब्बमेव नत्थि. तेसञ्हि वेदना सुपरिञ्ञाता. बलवविपस्सको…पे… योगावचरोपि वट्टति मत्तसो वेदनानं परिञ्ञातत्ता.

पातालसुत्तवण्णना निट्ठिता.