६. अविज्जावग्गवण्णना
५३-६२. चतूसु सच्चेसु अञ्ञाणं तप्पटिच्छादकसम्मोहो. अविन्दियं विन्दति, विन्दियं न विन्दतीति कत्वा विज्जाय पटिपक्खोव अविज्जा. विज्जाय उप्पन्नाय अनवसेसतो अविज्जा पहीयति, तं दस्सेन्तो ‘‘विज्जाति अरहत्तमग्गविज्जा’’ति आह. न केवलं अनिच्चानुपस्सनावसेनेव मग्गवुट्ठानं, अथ खो इतरानुपस्सनावसेनपीति दस्सेन्तो ‘‘दुक्खा…पे… पहीयतियेवा’’ति आह. सब्बत्थाति उपरिसुत्तन्ते सन्धायाह. ततो अपरेपि तंअत्थलक्खणवसेन कथितसुत्तन्तेपि. तानिपि हि तथा बुज्झनकपुग्गलानमज्झासयेन वुत्तानीति.
अविज्जावग्गवण्णना निट्ठिता.