१. सब्बसुत्तवण्णना
२३. सब्ब-सद्दो पकरणवसेन कत्थचि सप्पदेसेपि पवत्ततीति ततो निवत्तनत्थं अनवसेसविसयेन सब्ब-सद्देन विसेसेत्वा वुत्तं ‘‘सब्बसब्ब’’न्ति, सब्बमेव हुत्वा सब्बन्ति अत्थो. आयतनभावं सब्बं आयतनसब्बं, सेसद्वयेपि एसेव नयो.
तस्स अविसयाभावतो न अद्दिट्ठमिधत्थि किञ्चीति. इधाति निपातमत्तं, इध वा सदेवके लोके, दस्सनभूतेन ञाणेन अदिट्ठं नाम किञ्चि नत्थीति अत्थो. यदि एवं अनुमानविसयं नु खो कथन्ति आह ‘‘अथो अविञ्ञात’’न्ति. अञ्ञेसं अपच्चक्खम्पि अविञ्ञातं तस्स किञ्चि नत्थीति अदिट्ठं अविञ्ञातं नत्थि. पच्चुप्पन्नं अतीतमेव ञेय्यं गहितं, अनागतं नु खो कथन्ति आह – ‘‘अजानितब्ब’’न्ति, तस्स किञ्चि नत्थीति आनेत्वा सम्बन्धो. जानितुं ञातुं असक्कुणेय्यं नाम तस्स किञ्चि नत्थीति दस्सेन्तो आह ‘‘सब्बं अभिञ्ञासी’’तिआदि.
सकलस्स सक्कायधम्मस्स परिग्गहितत्ता सक्कायसब्बं. सब्बधम्मेसूति पञ्चन्नं द्वारानं आरम्मणभूतेसु सब्बेसु धम्मेसु. यस्मा छसुपि आरम्मणेसु गहितेसु पदेससब्बं नाम न होति, तस्मा ‘‘पञ्चारम्मणमत्त’’न्ति वुत्तं. पदेससब्बं सक्कायसब्बं न पापुणाति तस्स तेभूमकधम्मेसु एकदेसस्स असङ्गण्हनतो. सक्कायसब्बं आयतनसब्बं न पापुणाति लोकुत्तरधम्मानं असङ्गण्हनतो. आयतनसब्बं सब्बसब्बं न पापुणाति. यस्मा आयतनसब्बेन चतुभूमकधम्माव परिग्गहिता, न लक्खणपञ्ञत्तियो, यस्मा सब्बसब्बं दस्सेन्तेन बुद्धञाणविसयो दस्सितो, तस्मा ‘‘सब्बसब्बं न पापुणाती’’ति एत्थापि ‘‘कस्मा…पे… नत्थिताया’’ति सब्बं ञातारम्मणेनेव पुच्छाविस्सज्जनं कतं. ‘‘आयतनसब्बेपि इध विपस्सनुपगधम्माव गहेतब्बा अभिञ्ञेय्यनिद्देसवसेनपि सम्मसनचारस्सेव इच्छितत्ता’’ति वदन्ति.
पटिक्खिपित्वाति ‘‘इदं सब्बं नाम न होती’’ति एवं पटिक्खिपित्वा. तस्साति ‘‘अञ्ञं सब्बं पञ्ञापेस्सामी’’ति वदन्तस्स. वाचाय वत्तब्बवत्थुमत्तकमेवाति वञ्झापुत्तगगनकुसुमादिवाचा विय एतस्स वाचाय केवलं वत्तब्बवत्थुकमेव भवेय्य, न अत्थो, वचनमत्तकमेवाति अत्थो. अतिक्कमित्वाति अनामसित्वा अग्गहेत्वा. तं किस्स हेतूति विघातापज्जनं केन हेतुना. यथा तं अविसयस्मिन्ति यथा अञ्ञोपि कोचि अविसये वायमन्तो, एवन्ति अत्थो. अट्ठकथायं पन यस्मा पाळियं ‘‘तं किस्स हेतू’’ति वुत्तकारणमेव उपनयनवसेन दस्सेतुं ‘‘यथा त’’न्तिआदि वुत्तं. कारणोपनयनञ्च कारणमेवाति ‘‘यथाति कारणवचन’’न्ति वुत्तन्ति दट्ठब्बं. तेनेवाह ‘‘एवं इमस्मिम्पि अविसये’’तिआदि.
सब्बसुत्तवण्णना निट्ठिता.