३. सब्बवग्गो
१. सब्बसुत्तवण्णना
२३. सब्ब-सद्दो पकरणवसेन कत्थचि सप्पदेसेपि पवत्ततीति ततो निवत्तनत्थं अनवसेसविसयेन सब्ब-सद्देन विसेसेत्वा वुत्तं ‘‘सब्बसब्ब’’न्ति, सब्बमेव हुत्वा सब्बन्ति अत्थो. आयतनभावं सब्बं आयतनसब्बं, सेसद्वयेपि एसेव नयो.
तस्स अविसयाभावतो न अद्दिट्ठमिधत्थि किञ्चीति. इधाति निपातमत्तं, इध वा सदेवके लोके, दस्सनभूतेन ञाणेन अदिट्ठं नाम किञ्चि नत्थीति अत्थो. यदि एवं अनुमानविसयं नु खो कथन्ति आह ‘‘अथो अविञ्ञात’’न्ति. अञ्ञेसं अपच्चक्खम्पि अविञ्ञातं तस्स किञ्चि नत्थीति अदिट्ठं अविञ्ञातं नत्थि. पच्चुप्पन्नं अतीतमेव ञेय्यं गहितं, अनागतं नु खो कथन्ति आह – ‘‘अजानितब्ब’’न्ति, तस्स किञ्चि नत्थीति आनेत्वा सम्बन्धो. जानितुं ञातुं असक्कुणेय्यं नाम तस्स किञ्चि नत्थीति दस्सेन्तो आह ‘‘सब्बं अभिञ्ञासी’’तिआदि.
सकलस्स सक्कायधम्मस्स परिग्गहितत्ता सक्कायसब्बं. सब्बधम्मेसूति पञ्चन्नं द्वारानं आरम्मणभूतेसु सब्बेसु धम्मेसु. यस्मा छसुपि आरम्मणेसु गहितेसु पदेससब्बं नाम न होति, तस्मा ‘‘पञ्चारम्मणमत्त’’न्ति वुत्तं. पदेससब्बं सक्कायसब्बं न पापुणाति तस्स तेभूमकधम्मेसु एकदेसस्स असङ्गण्हनतो. सक्कायसब्बं आयतनसब्बं न पापुणाति लोकुत्तरधम्मानं असङ्गण्हनतो. आयतनसब्बं सब्बसब्बं न पापुणाति. यस्मा आयतनसब्बेन चतुभूमकधम्माव परिग्गहिता, न लक्खणपञ्ञत्तियो, यस्मा सब्बसब्बं दस्सेन्तेन बुद्धञाणविसयो दस्सितो, तस्मा ‘‘सब्बसब्बं न पापुणाती’’ति एत्थापि ‘‘कस्मा…पे… नत्थिताया’’ति सब्बं ञातारम्मणेनेव पुच्छाविस्सज्जनं कतं. ‘‘आयतनसब्बेपि इध विपस्सनुपगधम्माव गहेतब्बा अभिञ्ञेय्यनिद्देसवसेनपि सम्मसनचारस्सेव इच्छितत्ता’’ति वदन्ति.
पटिक्खिपित्वाति ‘‘इदं सब्बं नाम न होती’’ति एवं पटिक्खिपित्वा. तस्साति ‘‘अञ्ञं सब्बं पञ्ञापेस्सामी’’ति वदन्तस्स. वाचाय वत्तब्बवत्थुमत्तकमेवाति वञ्झापुत्तगगनकुसुमादिवाचा विय एतस्स वाचाय केवलं वत्तब्बवत्थुकमेव भवेय्य, न अत्थो, वचनमत्तकमेवाति अत्थो. अतिक्कमित्वाति अनामसित्वा अग्गहेत्वा. तं किस्स हेतूति विघातापज्जनं केन हेतुना. यथा तं अविसयस्मिन्ति यथा अञ्ञोपि कोचि अविसये वायमन्तो, एवन्ति अत्थो. अट्ठकथायं पन यस्मा पाळियं ‘‘तं किस्स हेतू’’ति वुत्तकारणमेव उपनयनवसेन दस्सेतुं ‘‘यथा त’’न्तिआदि वुत्तं. कारणोपनयनञ्च कारणमेवाति ‘‘यथाति कारणवचन’’न्ति वुत्तन्ति दट्ठब्बं. तेनेवाह ‘‘एवं इमस्मिम्पि अविसये’’तिआदि.
सब्बसुत्तवण्णना निट्ठिता.
२. पहानसुत्तवण्णना
२४. सब्बस्साति द्वारारम्मणेहि सद्धिं द्वारप्पवत्तस्स. पहानायाति तप्पटिबद्धछन्दरागपहानवसेन पजहनाय. चक्खुसम्फस्सन्ति चक्खुसन्निस्सितफस्सं. मूलपच्चयन्ति मूलभूतं पच्चयं कत्वा, सहजातवेदनाय चक्खुसम्फस्सपच्चयभावे वत्तब्बमेव नत्थि. एसेव नयोति अपदेसेन ‘‘सोतसम्फस्सं मूलपच्चयं कत्वा’’तिआदिना वत्तब्बन्ति दस्सेति. मनोति भवङ्गचित्तं मनोद्वारस्स अधिप्पेतत्ता. आरम्मणन्ति धम्मारम्मणं. सहावज्जनकजवनन्ति सहमनोद्वारावज्जनकं जवनं. तंपुब्बकत्ता मनोविञ्ञाणफस्सवेदनानं मूलपच्चयभूता सब्बेस्वेव चक्खुद्वारादीसु वुत्तित्ता तदनुरूपतो ‘‘भवङ्गसहजातो सम्फस्सो’’ति वुत्तं. सहावज्जनवेदनाय जवनवेदना ‘‘वेदयित’’न्ति अधिप्पेता, भवङ्गसम्पयुत्ताय पन वेदनाय गहणे वत्तब्बमेव नत्थि. भवङ्गतो अमोचेत्वा भवङ्गचित्तेन सद्धिंयेव आवज्जनं गहेत्वा मनोद्वारावज्जनं भवङ्गं दट्ठब्बं. या पनेत्थ देसनाति या एत्थ ‘‘पहानाया’’तिआदिना पवत्तदेसना सत्थु अनसिट्ठि आणा. अयं पण्णत्ति नाम तस्स तस्स अत्थस्स पकारतो ञापनतो. एत्थ सब्बग्गहणेन सब्बे सभावधम्मा गहिता, पञ्ञत्ति पन कतमाति विचारणाय तं दस्सेतुं ‘‘या पनेत्था’’तिआदि वुत्तन्ति दट्ठब्बं.
पहानसुत्तवण्णना निट्ठिता.
३. अभिञ्ञापरिञ्ञापहानसुत्तवण्णना
२५. अभिञ्ञाति अभिञ्ञाय. य-कारलोपवसेनायं निद्देसो ‘‘सयं अभिञ्ञा’’तिआदीसु (दी. नि. १.२८, ४०५; म. नि. १.१५४) विय, तथा ‘‘परिञ्ञा’’ति एत्थापि. सब्बन्ति आयतनसब्बं. तञ्हि अभिञ्ञेय्यं. अभिजानित्वाति अभिञ्ञाय जानित्वा. परिजानित्वाति तीरणपरिञ्ञाय अनिच्चादितो परिजानित्वा. पजहनत्थायाति पहानपरिञ्ञाय अनवसेसतो पजहनाय.
अभिञ्ञापरिञ्ञापहानसुत्तवण्णना निट्ठिता.
४. पठमअपरिजाननसुत्तवण्णना
२६. ‘‘अभिजान’’न्तिआदिना एत्थ भगवा पठमं कण्हपक्खं दस्सेत्वा सुक्कपक्खं दस्सेति वेनेय्यज्झासयवसेन. तेनेत्थ वट्टविवट्टं कथितं.
पठमअपरिजाननसुत्तवण्णना निट्ठिता.
५. दुतियअपरिजाननसुत्तवण्णना
२७. चक्खुविञ्ञाणविञ्ञातब्बधम्मो नाम रूपायतनमेवाति आह ‘‘हेट्ठा गहितरूपमेवा’’ति. इध अनापाथगतं ‘‘चक्खुविञ्ञाणविञ्ञातब्बा धम्मा’’ति वुत्तत्ता. हेट्ठा आपाथगतम्पि अनापाथगतम्पि गहितमेव ‘‘ये च रूपा’’ति अनवसेसतो वुत्तत्ता. ते हि वेदनासञ्ञासङ्खारक्खन्धा सह चक्खुविञ्ञाणेन विञ्ञातब्बत्ता. तथा हि चक्खुविञ्ञाणं तेहि एकुप्पादं एकवत्थुकं एकनिरोधं एकारम्मणमेव. सेसपदेसूति सेसेसु ‘‘यञ्च सोतं ये च सद्दा’’तिआदिना आगतेसु कण्हपक्खे पञ्चसु, सुक्कपक्खे छसुपि पदेसु. एसेव नयोति य्वायं ‘‘हेट्ठा गहितरूपमेव गण्हित्वा’’ति अत्थो वुत्तो. एसो एव तत्थपि अत्थवण्णनानयो.
दुतियअपरिजाननसुत्तवण्णना निट्ठिता.
६. आदित्तसुत्तवण्णना
२८. गयानामिकाय नदिया अविदूरे पवत्तो गामो गया नाम, तस्सं गयायं विहरतीति समीपत्थे चेतं भुम्मवचनं. गयागामस्स हि आसन्ने गयासीसनामके पिट्ठिपासाणे भगवा तदा विहासि. तेनाह ‘‘भगवा तत्थ विहरती’’ति.
तत्राति ‘‘भिक्खू आमन्तेसी’’ति ये भिक्खू आमन्तेसि, यथा चायं देसना तेसं सप्पाया जाता, तत्र तस्मिं अत्थद्वये विभावेतब्बे अयं अनुपुब्बिकथा समुदागमतो पट्ठाय अनुपटिपाटिकथा. इतोति इमस्मा कप्पतो. किराति अनुस्सवनत्थे निपातो. पारमितापरिभावनाय परिपाकगते. ञाणेति बोधिञाणे. कनिट्ठपुत्तो वेमातिकभाता भगवतो. वेळुभित्तिकुटिकाहि परिक्खिपित्वा बहिद्धा, अन्तो पन पटसाणीहि.
सब्बेसं सत्तानं. पुञ्ञचेतनं अन्तो अब्भन्तरे पवेसेति. भगवापि तस्स पुत्तोति कत्वा ‘‘अञ्ञे तयो पुत्ता’’ति वुत्तं. अविप्पकिरित्वाति पराजयेन अविप्पकिरिय अपलायित्वा. पिदहीति दातुं न सक्कोमीति तथा अकासि. सच्चवादिताय गण्हिंसूति राजकुलस्स सच्चवादिताय अत्तनो वरं गण्हिंसु.
विनिवत्तितुन्ति पटिञ्ञाय निवत्तितुं. अन्तराति तुम्हेहि परिच्छिन्नकालस्स अन्तरा एव मता. अट्ठवीसतिहत्थट्ठानं उसभं नाम. उसभे अट्ठवीसतिहत्थप्पमाणे ठाने. दानग्गे ब्यावटोति पसुतो.
सोति भगवा. तथारूपञ्हि बुद्धानं देसनापाटिहारियं, यथा देसनाय गहितो अत्थो पच्चक्खतो विभूतो हुत्वा उपट्ठाति. तेनाह ‘‘इमेसं…पे… देसेस्सामी’’ति. सन्निट्ठानन्ति चिरकालपरिचितादित्तअग्गिकानं आदित्तपरियायदेसनाव सप्पायाति निच्छयमकासि. पदित्तन्ति पदीपितं एकादसहि अग्गीहि एकजालीभूतं. तेनाह ‘‘सम्पज्जलित’’न्ति. दुक्खलक्खणं कथितं चक्खादीनं एकादसहि अग्गीहि आदित्तभावेन दुक्खमताय दुक्खस्स कथितत्ता.
आदित्तसुत्तवण्णना निट्ठिता.
७. अद्धभूतसुत्तवण्णना
२९. अधिसद्देन समानत्थो अद्धसद्दोति आह ‘‘अद्धभूतन्ति अधिभूत’’न्तिआदि. सेसं वुत्तनयमेव.
अद्धभूतसुत्तवण्णना निट्ठिता.
८. समुग्घातसारुप्पसुत्तवण्णना
३०. मञ्ञितं नाम तण्हामानदिट्ठीहि गहेतब्बं मञ्ञितं. सब्बस्मिं मञ्ञितन्ति सब्बमञ्ञितं, तस्स समुग्घातो सेतुघातो, तदावहं सब्बमञ्ञितसमुग्घातसारुप्पं. अट्ठकथायं पन ‘‘मञ्ञितं नाम चक्खादीसु एव उप्पज्जति, नाञ्ञस्मि’’न्ति दुतियनयो वुत्तो. अनुच्छविकन्ति अनुरूपं अविलोमं. इधाति इधेव सासने अञ्ञत्थ तदभावतो. ‘‘तण्हा-मानदिट्ठिमञ्ञितान’’न्ति वुत्तं मञ्ञितत्तयं सपरसन्तानेसु पटिपक्खवसेन योजेत्वा दस्सेतुं ‘‘चक्खुं अहन्ति वा’’तिआदि वुत्तं. तत्थ ‘‘चक्खुं अह’’न्ति इमिना अज्झत्तविसयं दिट्ठिमञ्ञितञ्च दस्सेति अत्ताभिनिवेसाहंकारदीपनतो. ‘‘मम’’न्ति इमिना तण्हामञ्ञितं मानमञ्ञितम्पि वा, परिग्गहमुखेनपि सेय्यादितो मानुप्पज्जनतो. सेसपदद्वयेपि इमिना नयेन मञ्ञितविभागो वेदितब्बो. अहन्ति अत्ताव, सो च चक्खुस्मिं तदधीनवुत्तित्ता ‘‘परो’’ति न मञ्ञति. मम किञ्चनपलिबोधो चक्खुस्मिं सति लब्भनतो, असति न मञ्ञति तथामञ्ञितस्स पच्चयघाततो. सेसपदद्वयेपि एसेव नयो.
अहं चक्खुतो निग्गतोति ‘‘अह’’न्ति वत्तब्बो अयं सत्तो चक्खुतो निग्गतो तत्थ सुखुमाकारेन उपलब्भनतो. मम किञ्चनपलिबोधो चक्खुतो निग्गतो तस्मिं सति एव उपलब्भनतो. सेसद्वयेपि एसेव नयो. तत्थ परोति परो सत्तो. मम चक्खूति न मञ्ञति यस्स तं चक्खु, तस्स ‘‘अह’’न्ति वत्तब्बस्सेव अभावतो. ममत्तभूतन्ति मम कारणं. सेसं उत्तानमेव. एवमेतस्मिं सुत्ते चक्खुरूप-चक्खुविञ्ञाण-चक्खुसम्फस्स-सुखदुक्खादुक्खमसुखवसेन सत्त वारा चक्खुद्वारे, तथा सोतद्वारादीसूति छ सत्तका द्वेचत्तालीस. पुन सक्कायवसेन ‘‘सब्बं न मञ्ञती’’तिआदिना वुत्तं, तेन तेचत्तालीस. पुन तेभूमकवट्टं ‘‘लोको’’ति गहेत्वा ‘‘न किञ्चि लोके उपादियती’’ति वुत्तं, तेन चतुचत्तालीस होन्ति. एवं सब्बथापि चतुचत्तालीसाय ठानेसु अरहत्तं पापेत्वा विपस्सना कथिताति वेदितब्बा. ‘‘चतुचत्तालीसाधिकसतेसू’’ति केसुचि पोत्थकेसु लिखन्ति, सा च पमादलेखा.
समुग्घातसारुप्पसुत्तवण्णना निट्ठिता.
९. पठमसमुग्घातसप्पायसुत्तवण्णना
३१. उपकारभूता तदावहत्ता. ततोति मञ्ञिताकारतो. तन्ति मञ्ञनावत्थुं. अञ्ञेनाकारेनाति यथा मञ्ञति अनिच्चादिआकारतो, अञ्ञेन अनिच्चादिना आकारेन होति. अञ्ञथाभावं विपरिणामन्ति उप्पादवयताय अञ्ञथाभावं जराय मरणेन च द्वेधा विपरिणामेतब्बं. तं उपगमनेन अञ्ञथाभावी, एवंभूतो हुत्वापि जीरणभिज्जनसभावेसु. भवेसु सत्तो लोको उपरिपि भवंयेव अभिनन्दति. हेट्ठा गहितमेव सङ्कड्ढित्वाति ‘‘चक्खुं न मञ्ञती’’तिआदिना हेट्ठा गहितमेव खन्धधातुआयतनाति खन्धादिपरियायेन एकतो गहेत्वा पुनपि मञ्ञनावत्थुं दस्सेति. अवसाने ‘‘ततो तं होती’’ति वुत्तपदेन सद्धिं सब्बवारेसु अट्ठ अट्ठ होन्तीति ‘‘अट्ठचत्तालीसाय ठानेसू’’ति वुत्तं.
पठमसमुग्घातसप्पायसुत्तवण्णना निट्ठिता.
१०. दुतियसमुग्घातसप्पायसुत्तवण्णना
३२. दस्सेत्वाति एत्थ लक्खणे अयं त्वा-सद्दो, हेतुम्हि वा. अनादिसत्तसन्तानगतगाहत्तयलक्खिता हि सत्थु, तिपरिवट्टदेसना तंनिमित्तं यावदेव तप्पहानाय पवत्तितभावतो. अरहत्तं पापेत्वा विपस्सना कथिताति अट्ठकथायं वुत्तं ‘‘सह विपस्सनाय चत्तारोपि मग्गा कथिता’’ति.
दुतियसमुग्घातसप्पायसुत्तवण्णना निट्ठिता.
सब्बवग्गवण्णना निट्ठिता.