४. पठमदारुक्खन्धोपमसुत्तवण्णना

२४१. विलासमानो विय सागरं पत्वा. अन्तोसाखोति गङ्गाय तीरस्स अन्तो ओनतसाखो. तेमेतीति तिन्तो होति. तिरियं पतितो दण्डसेतु विय ठितत्ता महाजनस्स पच्चयो जातो, तथा महन्तभावेन गङ्गासोतं ओतरणादि नत्थि.

अयं हीति अनन्तरं वुत्तपुग्गलो. अरियमग्गं ओरुय्हाति चतुब्बिधं अरियमग्गवीथिं ओतरित्वा. ‘‘चित्तं नामेत’’न्तिआदिना चिन्तेत्वा गिहिबन्धनं न विस्सज्जेतीति सम्बन्धो. अत्तनो भजमानकेति अत्तनो भजन्ते. जीविकत्थाय पयुज्जितब्बतो पयोगो, खेत्तवत्थादि. ततो पयोगतो उट्ठितं आयं. किञ्चापि भिक्खूनं कायसामग्गिं देति भिक्खत्थाय.

मुण्डघटन्ति भिन्नोट्ठं घटं. खन्धेति अंसे. सङ्घभोगन्ति सङ्घसन्तकं भोगगामं गन्त्वा. अत्थतो एवं वदन्तीति तथा अत्थस्स सम्भवतो एवं वदन्ता विय होन्ति. यागुमत्तके यागुन्ति यागुं पिवित्वा ताय अपरिपक्काय एव अञ्ञं यागुं अज्झोहरित्वाति सम्बन्धो.

किलेसानुरञ्जितोवाति योनिसोमनसिकारस्स अभावेन किलेसानुगतचित्तो एव. अक्खीनि नीहरित्वाति कोधवसेन अक्खिके करोन्तो अक्खीनि नीहरित्वा विचरिस्सति. उद्धतो होति अवूपसन्तो.

दिट्ठिगतिकोति सासनिको एवं अयोनिसो उम्मुज्जित्वा सासनं उद्धम्मं उब्बिनयं कत्वा दीपेन्तो अरिट्ठसदिसो. तेनाह ‘‘सो ही’’तिआदि. अरूपभवे रूपं अत्थि, अञ्ञथा ततो चुतस्स कुतो रूपक्खन्धस्स सम्भवो. असञ्ञीभवे चित्तं अत्थीति एत्थापि एसेव नयो. बहुचित्तक्खणिको लोकुत्तरमग्गो ‘‘यो इमे चत्तारो सतिपट्ठाने भावेय्य सत्तवस्सानी’’तिआदिवचनतो (दी. नि. २.४०४; म. नि. १.१३७). अनुसयो चित्तविप्पयुत्तो, अञ्ञथा सावज्जानवज्जधम्मानं एकज्झं उप्पत्ति सिया. ते च सत्ता सन्धावन्ति संसरन्ति, अञ्ञथा कम्मफलानं सम्बन्धो न सियाति. इति वदन्तो एवं मिच्छावादं पग्गय्ह वदन्तो.

तेमनरुक्खो विय…पे… दुल्लभधम्मस्सवनो च पुग्गलो सद्धासिनेहेन अतेमनतो. कतविनयो सिक्खितविनयो यथा ‘‘कतविज्जो’’ति. धम्मकथिकानं विचारेथाति इदं देय्यधम्मं धम्मकथिकानं अय्यानं तस्स तस्स युत्तवसेन विचारेथाति निय्यातनवसेन वत्वा. दिवाकथिको सरभाणको सायन्हे कथेति, पुरिमयामं कथेन्तो रत्तिकथिको भाणकपुग्गलो.

नन्दनवनाभिरामेति नन्दनवनं विय मनोरमे. अस्स भारहारभिक्खूति अस्स किच्चवाहकभिक्खू उपज्झायादयो. सुखनिसिन्नकथन्ति पटिसन्थारकथापुब्बकं उपनिसिन्नकथं सुत्वा.

ठितसण्ठानेनेव ठिताकारेनेव ठितं, नप्पयुत्तन्ति अत्थो. चित्तकम्ममूलादीनि ठितसण्ठानेनेव ठिताति योजना. मुदुतायाति मुदुहदयताय सापेक्खताय.

पटिपदन्ति समथविपस्सनापटिपत्तिं. दीपेत्वा पकासेत्वा पाकटं कत्वा. तत्रुप्पादोति तत्र उप्पज्जनकआयुप्पादो. खेत्तं सन्धाय वदति. तेल…पे… हत्थाति तेलघट-मधुघटफाणितघटादिहत्था. अपक्कमिंसु दुब्बिचारितत्ता. पूरेसीति हेट्ठा च तत्थ तत्थ अतीतानि कालवचनानि पोराणट्ठकथाय आगतत्ता किर वुत्तानि.

उपगमनानुपगमनादीनि ओरिमस्स पारिमस्स च उपगमनानुपगमनानि चेव मज्झे संसीदनानि च. पटिविज्झितुन्ति जानितुं. एतन्ति यथावुत्तं चक्खुसभावं. दोमनस्सन्ति तस्सेव मन्दभावपच्चयं दोमनस्सं. आपज्जन्तोपि उपगच्छति नाम तन्निमित्तसंकिलेसस्स उप्पादितत्ता. तिण्णं लक्खणानन्ति हुत्वा अभावतो आदिअन्तवन्ततो तावकालिकतो निच्चपटिक्खेपतोतिआदीनं तिण्णं लक्खणानं सल्लक्खणवसेन.

वामतोति मिच्छा. दक्खिणतोति सम्मा. यथा तस्स तस्स सत्तस्स ओरभावत्ता अज्झत्तिकानि आयतनानि ओरिमं तीरं कत्वा वुत्तानि, एवं नेसं परभावत्ता बाहिरानि आयतनानि पारिमं वुत्तानि. अपायमज्झे संसरणहेतुताय नन्दीरागोव ‘‘मज्झे संसादो’’ति वुत्तो.

उन्नतोति ‘‘सेय्योहमस्मी’’तिआदिना उन्नतिं उपगतो. अत्तुक्कंसने पंसुकूलिकभावेन अत्तानं दहनतो अञ्ञाकारतागहेतब्बो. पासाणो नु खो एस खाणुकोति गहेतब्बदारुक्खन्धसदिसो वुत्तो.

चुण्णविचुण्णं होति आवट्टवेगस्स बलवभावतो. चतूसु अपायेसूति पञ्चकामगुणावट्टे पतितपुग्गलो मनुस्सलोकेपि गुणसरीरभेदनेन दीघरत्तं चुण्णविचुण्णं आपज्जतियेव, तस्स तथा आपन्नत्ता. एवञ्हि सो अपायेसु तादिसेसु जायति.

सीलस्स दुट्ठं नाम नत्थि, तस्मा अभावत्थो इध दु-सद्दोति आह ‘‘निस्सीलो’’ति. ‘‘पापं पापेन सुकर’’न्तिआदीसु (उदा. ४८) विय पाप-सद्दो निहीनपरियायोति आह ‘‘लामकधम्मो’’ति. न सुचीति कायवाचाचित्तेहि न सुचि. सङ्काय वाति अत्तनो वा सङ्काय परेसं समाचारकिरियं सरति आसङ्कति. तेनाह ‘‘तस्स ही’’तिआदि. तानि कम्मानि पविसतीति तानि कम्मानि करोन्तानं अन्तरे पविसति. गुणानं पूतिभावेनाति गुणभावेन गहितानं सीलधम्मानं संकिलिट्ठभावप्पत्तिया. कचवरजातोति अब्भन्तरं सञ्जातकचवरो, कचवरभूतो वा.

अणणा पब्बज्जाति अणणस्सेव पब्बज्जा. ओरिमतीरादीनं उपगमनानुपगमनादीनं जोतितत्ता वट्टविवट्टं कथितं.

पठमदारुक्खन्धोपमसुत्तवण्णना निट्ठिता.