१. आसीविसोपमसुत्तवण्णना

२३८. ये भिक्खू तदा भगवन्तं परिवारेत्वा निसिन्ना, तेसु केचि एकविहारिनो, केचि अत्तदुतिया, केचि अत्तततिया, केचि अत्तचतुत्था, केचि अत्तपञ्चमा हुत्वा अरञ्ञायतनेसु विहरन्तीति वुत्तं – ‘‘एकचारिक…पे… पञ्चचारिके’’ति. समानज्झासयता सभागवुत्तिनो. कम्मट्ठानानुयुञ्जनस्स कारके. ततो एव तत्थ युत्तपयुत्ते. पुग्गलज्झासयेन कारणभूतेन. पच्चयभूतन्ति अपस्सयभूतं. ‘‘सेय्यथापि, भिक्खवे’’ति आरभित्वा याव ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति अयं मातिकानिक्खेपो. तेसं मातिकाय वित्थारभाजनं. वासना भविस्सतीति वासनावहं भविस्सति. सिनेरुं उक्खिपन्तो वियातिआदि इमिस्सा देसनाय अनञ्ञसाधारणताय सुदुक्करभावदस्सनं.

मञ्चट्ठेसु मञ्चसमञ्ञा विय मुखट्ठं विसं ‘‘मुख’’न्ति अधिप्पेतं. सुक्खकट्ठसदिसभावापादनतो ‘‘कट्ठ’’न्ति वुच्चतीति कट्ठं मुखं एतस्साति कट्ठमुखो, दंसनादिना कट्ठसदिसभावकरो सप्पो. अथ वा कट्ठसदिसभावापादनतो कट्ठं विसं वा मुखे एतस्साति कट्ठमुखो. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. इमे चत्तारोति इमे विसकिच्चभेदेन चत्तारो. इदानि तं नेसं विसकिच्चभेदं दस्सेतुं ‘‘तेसू’’तिआदि वुत्तं. अयसूलसमप्पितं वियाति अब्भन्तरे अयसूलं अनुप्पवेसितं विय. पक्कपूतिपनसं वियाति पच्चित्वा कालातिक्कमे कुथितपनसफलं विय. चङ्गवारेति रजकानं खारपरिस्सावने सुरापरिस्सावने वा. अनवसेसं छिज्जनेन असनिपातट्ठानं विय. महानिखादनेनाति महन्तेन निखादनेन.

विसवेगविकारेनाति विसवेगगतेन विकारेन. वातेनाति तस्स सप्पस्स सरीरं फुसित्वा उग्गतवातेन. नासवाते पन वत्तब्बमेव नत्थि. पुग्गलपण्णत्तिवसेनाति तेसंयेव सोळसन्नं सप्पानं आगतविसोतिआदिपुग्गलनामस्स वसेन चतुसट्ठि होन्ति पच्चेकं चतुब्बिधभावतो. आगतविसोति आगच्छविसो, सीघतरं अभिरुहनविसोति अत्थो. घोरविसोति कक्खळविसो, दुत्तिकिच्छविसो. अयं सीतउदकं विय होति गाळ्हदुब्बिनिम्मोचयभावेन. उदकसप्पो हि घोरविसो होति येवाति वुत्तं – ‘‘उदकसप्पादीनं विसं विया’’ति. पञ्ञायतीति गण्डपिळकादिवसेन पञ्ञायति. अनेळकसप्पो नाम महाआसीविसो. नीलसप्पो नाम साखवण्णो रुक्खग्गादीसु विचरणकसप्पो. इमिना उपायेनाति योयं कट्ठमुखेसु दट्ठविसानंयेव ‘‘आगतविसो नो घोरविसो’’तिआदिना चतुब्बिधभावो वुत्तो, इमिना उपायेन. कट्ठमुखे दट्ठविसादयोति कट्ठमुखेसु दट्ठविसो, फुट्ठविसो, वातविभोति तयो, पूतिमुखादीसु च दट्ठविसादयो चत्तारो चत्तारो वेदितब्बो.

एकेकन्ति चतुसट्ठियो एकेकं. चतुधाति अण्डजादिविभागेन चतुधा विभजित्वा. छपण्णासानीति छपण्णासाधिकानि. गतमग्गस्साति यथावुत्तसङ्ख्यागतमग्गस्स पटिलोमतो संखिप्पमाना अनुक्कमेन चत्तारोव होन्ति. कुलवसेनाति कट्ठमुखादिजातिवसेन.

सकलकाये आसिञ्चित्वा विय ठपितविसाति हि तेसं फुट्ठविसता, वातविसता वुच्चति. एवन्ति ‘‘आसित्तविसा’’तिआदिना. एत्थाति आसीविससद्दे वचनत्थो निरुत्तिनयेन वेदितब्बो. उग्गततेजाति उदग्गतेजा, अत्तनो विसतेजेन नेसं कुरूरदब्बता वा. दुन्निम्मद्दनविसाति मन्तागदेहि अनिम्मद्दनीयविसा. चत्तारो आसीविसाति एत्थ इति-सद्दो आदिअत्थो. तेनेत्थ अवसेसपाळिं सङ्गण्हाति.

आसीविसेसूति इमे आसीविसा दट्ठविसा एवाति वेदितब्बा. सरीरट्ठकेसुयेवाति तेन पुरिसेन तेसं कस्सचि अनिट्ठस्स अकतत्ता आयुसेसस्स च विज्जमानत्ता नं न दंसिंसूति दट्ठब्बं. पुच्छि यथाभूतं पवेदेतुकामो. दुरुपट्ठाहाति दुरुपट्ठाना. सोत्थिमग्गोति सोत्थिभावस्स उपायो.

अन्तरचरोति अन्तरं चरो सुखसत्तु विस्सासघाती. तेनाह ‘‘वधको’’ति. इदानि तासं पेसने कारणं दस्सेतुं ‘‘पठम’’न्तिआदि वुत्तं. अभिमुखगतं विय अभिमुखगतं. ईदिसीपि हि वचोयुत्ति लोके निरूपीयति सन्तियं पुरिसं ठपेतीति विय. तस्मा अभिमुखगतन्ति अभिमुखं तेन सम्पत्तन्ति अत्थो. वङ्कसण्ठानं फलकं रुक्खमूले आगतागतानं निसीदनत्थाय अत्थतं.

अरित्तहत्थो पुरिसो सन्तारेति एतायाति सन्तारणी. ओरिमतीरतो उत्तरणाय सेतु उत्तरसेतु. एकेन द्वीहि वा गन्तब्बो रुक्खमयो सेतु रुक्खसेतु. जङ्घसत्थेन गमनयोग्गो सेतु जङ्घसेतु. सकटेन गन्तुं सक्कुणेय्यो सकटसेतु. न खो एस ब्राह्मणो परमत्थतो. तदत्थो पन एकदेसेन सम्भवतीति तथा वुत्तन्ति दस्सेन्तो ‘‘एत्तकानं पच्चत्थिकानं बाहितत्ता’’ति आह. देसनन्ति उद्देसदेसनं. विनिवत्तेन्तोति पटिसंहरन्तो. न लद्धो वतासीति न लद्धो वत आसि.

राजा विय कम्मं सत्तेसु इस्सरियस्स वत्तापनतो. राजा…पे… पुथुज्जनो वट्टदुक्खसङ्खातापराधताय. ञाणपलायनेनाति महाभूतेहि निब्बिन्दित्वा विरज्जित्वा विमुच्चितुकामतावसेन उप्पन्नञाणपलायने मग्गाधिगमसिद्धेनेव ञाणपलायनेन. एवञ्हेत्थ उपमासंसन्दनं मत्थकं पापितमेव होति.

यथेव हीतिआदिना एकदेसनासमुदायस्स निदस्सनं आरद्धं. यथावुत्तवचनं अट्ठकथाचरियानं वचनेन समत्थेति ‘‘पत्थद्धो भवती’’तिआदिना. तत्थ कट्ठमुखेन वाति वा-सद्दो उपमत्थो. यथा कट्ठमुखेन सप्पेन दट्ठो पत्थद्धो होति, एवं पथवीधातुप्पकोपेन सो कायो कट्ठमुखेव होति, कट्ठमुखगतो विय पत्थद्धो होतीति अत्थो. अथ वा वा-सद्दो अवधारणत्थो. सो ‘‘पथवीधातुपकोपेन वा’’ति एवं आनेत्वा सम्बन्धितब्बो. अयञ्हेत्थ अत्थो – कट्ठमुखेन दट्ठोपि कायो पथवीधातुप्पकोपेनेव पत्थद्धो होति, तस्मा पथवीधातुया अवियुत्तो सो कायो सब्बदा कट्ठमुखगतो विय होतीति. वा-सद्दो वा अनियमत्थो. तत्रायमत्थो – कट्ठमुखेन दट्ठो कायो पत्थद्धो होति वा, न वा मन्तागदवसेन. पथवीधातुप्पकोपेन पन मन्तागदरहितो सो कायो कट्ठमुखगतो विय होति एकन्तपत्थद्धोति. तत्थ कायोति पकतिकायो. पूतिकोति कुथितो. सन्तत्तोति सब्बसो तत्तो महादाहप्पत्तो. सञ्छिन्नोति सब्बसो छिन्नो चुण्णविचुण्णभूतो. यदा कायो पत्थद्धादिभावप्पत्तो होति, तदा पुरिसो कट्ठमुखादिसप्पस्स मुखे वत्तमानो विय होतीति अत्थो.

विसेसतोति कट्ठमुखादिविसेसतो च पथवीआदिविसेसतो च. अनत्थग्गहणतोतिआदि अचेतनेसुपि भूतेसु सचेतनेसु विय अनत्थादीनं पच्चक्खताय निब्बेदजननत्थं आरद्धं. तत्थ आसयतोति पवत्तिट्ठानतो. एतेसन्ति महाभूतानं. सदिसताति वम्मिकासयसुसिरगहनसङ्कारट्ठानासयताय च सदिसता.

पच्चत्तलक्खणवसेनाति विसुं विसुं लक्खणवसेन. पथवीआदीनं कक्खळभावादि, तंसमङ्गिनो पुग्गलस्स कक्खळभावापादनादिना विकारुप्पादनतो विसवेगविकारतो सदिसता वेदितब्बा.

अनत्थाति ब्यसना. ब्याधिन्ति कुट्ठादिब्याधिं. भवे जाताभिनन्दिनोति भवेसु जातिया अभिनन्दनसीला. पञ्चवोकारे हि जातिया अभिनन्दना नाम महाभूताभिनन्दना एव.

दुरुपट्ठानतरानीति दुप्पटिकारतरानि. दुरासदाति दुरुपसङ्कमना. ‘‘उपट्ठामी’’ति उपसङ्कमितुं न सक्कोन्ति. परिजानाम कम्मनामानि, उपकारा नाम नत्थि. अनन्तदोसूपद्दवतोति अपरिमाणदोसूपद्दवहेतुतो. एकपक्खलन्ति एकदुक्खं.

रूपक्खन्धो भिज्जमानो चत्तारो अरूपक्खन्धे गहेत्वाव भिज्जति अरूपक्खन्धानं एकनिरोधत्ता. वत्थुरूपम्पि गहेत्वाव भिज्जन्ति पञ्चवोकारे अरूपक्खन्धेसु भिन्नेसु रूपक्खन्धस्स अवट्ठानाभावतो. एत्तावताति लोभुप्पादनमत्तेन. पञ्ञा नाम अत्तभावे उत्तमङ्गं पञ्ञुत्तरत्ता कुसलधम्मानं, सति च किलेसुप्पत्तियं पञ्ञाय अनुप्पज्जनतो वुत्तं – ‘‘एत्तावता पञ्ञासीसं पतितं नाम होती’’ति. योनियो उपनेति तदुपगस्स कम्मपच्चयस्स भावे. ‘‘जातिभयं, जराभयं, मरणभयं, चोरभय’’न्तिआदिना आगतानि पञ्चवीसति महाभयानि, ‘‘हत्थम्पि छिन्दती’’तिआदिना आगतानि द्वत्तिंस कम्मकारणानि आगतानेव होन्ति कारणस्स समवट्ठितत्ता. नन्दीरागो सङ्खारक्खन्धोति सङ्खारक्खन्धपरियापन्नत्ता वुत्तं.

पाळियंयेव आगता ‘‘चक्खुतो चेपि नं, भिक्खवे’’तिआदिना. किञ्चि अलभित्वाति तस्मिं सुञ्ञगामे चोरानं गय्हूपगस्स अलाभवचनेनेव तस्स पुरिसस्स अत्तनो पटिसरणस्स अलाभो वुत्तो एव होतीति न उद्धटो, पुरिसट्ठानियो भिक्खु, चोरा पन बाहिरायतनट्ठानिया. अभिनिविसित्वाति विपस्सनाभिनिवेसं कत्वा. अज्झत्तिकायतनवसेन देसनाय आगतत्ता वुत्तं ‘‘उपादारूपकम्मट्ठानवसेना’’ति.

बाहिरानन्ति बाहिरायतनानं. पञ्च किच्चानीति चोरेहि तदा कातब्बानि पञ्च किच्चानि. हत्थसारन्ति अत्तनो सन्तके हत्थेहि गहेतब्बसारभण्डं. पातनादिवसेन हत्थपरामासं करोन्ति. पहारठानेति पहटट्ठाने. ठानसो तस्मिं एव खणेति वदन्ति. अत्तनो सुखावहं कुसलधम्मं पहाय दुक्खावहेन अकुसलेन समङ्गिता सुखावहं भण्डं पहाय बहि निक्खमनं वियाति वुत्तं सुखनिस्सयत्ता तस्स. हत्थपरा…पे… आपज्जनकालो गुणसरीरस्स तदा पमादेन बाधितत्ता. पहार…पे… कालो ततो दळ्हतरं गुणसरीरस्स बाधितत्ता. पहारं…पे… अस्समणकालो गुणसरीरस्स मरणप्पत्तिसदिसत्ता. अवसेसजनस्स दासपरिभोगेन परिभुञ्जितब्बता अञ्ञथत्तप्पत्तिगिहिभावापत्तिया निदस्सनभावेन वुत्ता. यं ‘‘छसु द्वारेसु आरम्मणे आपाथगते’’ति वुत्तं, तमेव आरम्मणं निस्साय सम्परायिको दुक्खक्खन्धो वेदितब्बोति योजना.

रूपादीनीति रूपसद्दगन्धरसानि. तेसन्ति यथावुत्तभूतुपादारूपानं. लहुतादिवसेनाति तेसं लहुतादिवसेन. दुरुत्तरणट्ठोति उत्तरितुं असक्कुणेय्यभावो ओघट्ठो. वुत्तनयेनाति ‘‘सम्पयुत्ता वेदना वेदनाक्खन्धो’’तिआदिना वुत्तनयेन. चतुमहाभूतादीहीति आदिसद्देन उपादानक्खन्धादीनं गहणं. चित्तकिरियदस्सनत्थन्ति चित्तपयोगदस्सनत्थं. वुत्तवायाममेवाति ‘‘सम्मावायामो’’ति यो अरियमग्गे वुत्तो. भद्देकरत्तादीनीति ‘‘अज्जेव किच्चं आतप्प’’न्तिआदिना (म. नि. ३.२७२, २७५, २७६) वुत्तानि भद्देकरत्तसुत्तादीनि.

कुण्ठपादोति छिन्नपादोव हुत्वा गतिविकलो. मानसं बन्धतीति तस्मिं चित्ते किच्चं निबन्धति. ‘‘अयं अरियमग्गो मय्हं ओघुत्तरनुपायो’’ति तत्थ चित्तस्स सन्निट्ठानं पुन तत्थ पवत्तनं वीरियारम्भो चित्तबन्धनं.

तस्स नामरूपस्स इमे नन्दीरागादयो तण्हाविज्जादयोति कत्वा पच्चयो धम्मायतनेकदेसो. अरियमग्गनिब्बानतण्हावज्जो इध धम्मायतनेकदेसोति च. सोळसहाकारेहीति पीळनादीहि सोळसहि आकारेहि. सतिपट्ठानविभङ्गे आगतनयेन सट्ठिनयसहस्सेहि. देसनापरियोसाने…पे… पतिट्ठहिंसूति विपञ्चितञ्ञू एवेत्थ गहणवसेन अधिगतविसेसा परिच्छिन्दिता. ते हि तदा धम्मपटिग्गाहकभावेन सत्थु सन्तिके सन्निसिन्ना. उग्घटितञ्ञूनं पन नेय्यानञ्च विसेसाधिगमो अट्ठकथायं न रुळ्होति इध न गहितोति.

आसीविसोपमसुत्तवण्णना निट्ठिता.