८. आदित्तपरियायसुत्तवण्णना

२३५. किलेसानं अनु अनु ब्यञ्जनतो परिब्यत्तिया उप्पत्तिपच्चयभावतो अनुब्यञ्जनं, हत्थपादादिअवयवाति आह – ‘‘हत्था सोभना’’तिआदि. निमित्तग्गाहोति किलेसुप्पत्तिया निमित्तभूतो गाहो. संसन्देत्वा गहणन्ति अवयवे समोधानेत्वा ‘‘इत्थिपुरिसो’’तिआदिना एकज्झं गहणं. विभत्तिगहणन्ति विभागेन अनवसेसग्गहणं. कुम्भीलसदिसोति कुम्भीलगाहसदिसो. तेनाह – ‘‘सब्बमेव गण्हाती’’ति हत्थपादादीसु तं तं कोट्ठासं विभजित्वा गहणं रत्तपासदिसो जलूकगाहसदिसो. एकजवनवारेपि लब्भन्तीति इदं चक्खुद्वारानुसारेन उप्पन्नमनोद्वारिकजवनं सन्धाय वुत्तं.

निमित्तस्सादेन गन्थितन्ति यथावुत्ते निमित्ते अस्सादगाहेन गन्थितं सम्बद्धं. भवङ्गेनेवाति मूलभवङ्गेनेव. किलेसभयं दस्सेन्तोति तथा किलेसुप्पत्तिया सति अकुसलचित्तेन अन्तरितं चे मरणचित्तं भवेय्य, एकन्ततो निरये वा तिरच्छानयोनिया वा उप्पत्ति सियाति किलेसानं भायितब्बं दस्सेन्तो. ‘‘समयवसेन वा एवं वुत्त’’न्ति वत्वा तमत्थं विवरन्तो ‘‘चक्खुद्वारस्मिञ्ही’’तिआदिमाह. रत्तचित्तं वाति रागवसेन रत्तचित्तं वा. दुट्ठचित्तेन कथं आरम्मणरसानुभवनन्ति? दोमनस्सवेदनुप्पत्ति एव तस्स आरम्मणरसानुभवनं दट्ठब्बं. इमस्स समयस्साति मरणसमयस्स.

उभिन्नं नासच्छिद्दानं मज्झे ठित-अट्ठितुदनं सह खुरट्ठेन छिन्दनं. दण्डकवासीति दीघदण्डका महावासि. निपज्जित्वा निद्दोक्कमनन्ति इमिना पचलायिकनिद्दं पटिक्खिपति. तत्थ हि कदाचि अन्तरा मिच्छावितक्कानं सल्लकानं अवसरो सिया, नत्थेव निपज्जित्वा महानिद्दं ओक्कन्तकाले. वितक्कानन्ति मिच्छावितक्कानं.

आदित्तपरियायसुत्तवण्णना निट्ठिता.