४-६. खीररुक्खोपमसुत्तादिवण्णना

२३१-२३३. अप्पहीनट्ठेनाति मग्गेन असमुग्घाटितभावेन. अत्थीति विज्जति. सति पच्चये विज्जमानकिच्चकरणतो परियुट्ठानं अप्पकं मूसिकाविसं विय परित्तं नाम होति अप्पानुभावत्ता. एवरूपापीति अप्पकापि. अस्साति अप्पहीनकिलेसस्स. अधिमत्तानन्ति इट्ठानं रजनीयानं, वत्थुवसेन परित्तकम्पि इट्ठारम्मणं अधिमत्तमेव. तेनाह ‘‘नखपिट्ठिप्पमाणम्पी’’तिआदि. दहरोतिआदीनि तीणिपि पदानि. आभिन्देय्याति भिन्देय्य. तं उभयन्ति तं चक्खुरूपन्ति उभयम्पि आयतनं.

खीररुक्खोपमसुत्तादिवण्णना निट्ठिता.