१. कम्मनिरोधसुत्तवण्णना
१४६. सम्पति विज्जमानस्स चक्खुस्स तंनिब्बत्तस्स कम्मस्स च अधिप्पेतत्ता ‘‘न चक्खु पुराणं, कम्ममेव पुराण’’न्ति वत्वा यथा तस्स चक्खुस्स पुराणपरियायो वुत्तो, तं दस्सेन्तो आह – ‘‘कम्मतो पना’’तिआदि. पच्चयनामेनाति पुरिमजातिसंसिद्धत्ता ‘‘पुराण’’न्ति वत्तब्बस्स पच्चयभूतस्स कम्मस्स नामेन. एवं वुत्तन्ति ‘‘पुराणकम्म’’न्ति एवं वुत्तं. पच्चयेहि अभिसमागन्त्वा कतन्ति तण्हाविज्जादिपच्चयेहि अभिमुखभावेन समागन्त्वा समेच्च निब्बत्तितं. चेतनायाति कम्मचेतनाय. पकप्पितन्ति अभिसमीहितं. वेदनायाति अत्तानं निस्साय आरम्मणं कत्वा पवत्ताय वेदनाय. वत्थूति निब्बत्तिकारणं पवत्तट्ठानन्ति विपस्सनापञ्ञाय पस्सितब्बं. कम्मस्स निरोधेनाति किलेसानं अनुप्पादनिरोधसिद्धेन कम्मस्स निरोधेन. विमुत्तिं फुसतीति अरहत्तफलविमुत्तिं पापुणाति. आरम्मणभूतो निरोधो निब्बानं ‘‘कम्मनिरोधो’’ति वुच्चति, ‘‘कम्मं निरुज्झति एत्था’’ति कत्वा. ‘‘झायथ, भिक्खवे, मा पमादत्था’’ति वुत्तत्ता ‘‘पुब्बभागविपस्सना कथिता’’ति वुत्तं.
कम्मनिरोधसुत्तवण्णना निट्ठिता.