२. मालुक्यपुत्तसुत्तवण्णना

९५. अपसादेतीति तज्जेति. उस्सादेतीति उक्कंसेति. अयं किर थेरो मालुक्यपुत्तो. पमज्जित्वाति योनिसोमनसिकारस्स अननुयुज्जनेन पमज्जित्वा.

यत्राति पच्चत्तं वचनालङ्कारे. नामाति असम्भावने अपसादनपक्खे, उस्सादनपक्खे पन सम्भावने. किं जातन्ति किं तेन महल्लकभावेन जातन्ति महल्लकभावं तिणायपि अमञ्ञमानो वदति. तेनाह ‘‘यदि…पे… अनुग्गण्हन्तो’’ति. अनुग्गण्हन्तोति अचिन्तेन्तो. मादिसानं भगवतो ओवादो उपकारावहोति एतरहि ओवादञ्च पसंसन्तो.

‘‘अदिट्ठा अदिट्ठपुब्बा’’तिआदिना परिकप्पवसेन वुत्तनिदस्सनं ‘‘यथा एतेसु छन्दादयो न होन्ति, एवमितरेसुपि परिञ्ञातेसू’’ति नयपटिपज्जनत्थं, तेसम्पि इमेहि समानेतब्बत्ता. तेन वुत्तं ‘‘सुपिनकूपमा कामा’’ति (म. नि. १.२३४; २.४६; पाचि. ४१७; चूळव. ६५).

चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तन्ति चक्खुविञ्ञाणस्स रूपायतनं यत्तको गहणाकारो, तत्तकं. कित्तकं पमाणन्ति अत्तसंवेदियं परस्स न दिसितब्बं, कप्पनामत्तं रूपं. तेनाह ‘‘चक्खुविञ्ञाणं ही’’तिआदि. रूपेति रूपायतने. रूपमत्तमेवाति नीलादिभेदं रूपायतनमत्तं, न नीलादि. विसेसनिवत्तनत्थो हि अयं मत्त-सद्दो. यदि एवं, एव-कारो किमत्थियो? चक्खुविञ्ञाणञ्हि रूपायतने लब्भमानम्पि नीलादिविसेसं ‘‘इदं नीलं नाम, इदं पीतं नामा’’ति न गण्हाति. कुतो निच्चानिच्चादिसभावत्थन्ति संहितस्सपि निवत्तनत्थं एवकारग्गहणं. तेनाह ‘‘न निच्चादिसभाव’’न्ति. सेसविञ्ञाणेहिपीति जवनविञ्ञाणेहिपि.

दिट्ठं नाम चक्खुविञ्ञाणं रूपायतनस्स दस्सनन्ति कत्वा. तेनाह ‘‘रूपे रूपविजानन’’न्ति. चक्खुविञ्ञाणमत्तमेवाति यत्तकं चक्खुविञ्ञाणं रूपायतने गहणमत्तं, तंमत्तमेव मे सब्बं चित्तं भविस्सतीति अत्थो. ‘‘रागादिरहेना’’ति वा पाठो. दिट्ठं नाम पदत्थतो चक्खुविञ्ञाणेन दिट्ठं रूपं. तत्थेवाति चक्खुविञ्ञाणेन दिट्ठमत्ते रूपे. चित्तत्तयं दिट्ठमत्तं नाम चक्खुविञ्ञाणं विय रागादिविरहेन पवत्तनतो. तेनाह ‘‘यथा त’’न्ति आदि.

मनोद्वारावज्जनेन विञ्ञातारम्मणं विञ्ञातन्ति अधिप्पेतं रागादिविरहेन विञ्ञेय्यतो. तेनाह ‘‘यथा आवज्जनेना’’तिआदि.

तदाति तस्मिं काले, न ततो पट्ठायाति अयमेत्थ अत्थोति दस्सेति. ‘‘दिट्ठमत्त’’न्तिआदिना येसं रागादीनं निवत्तनं अधिप्पेतं, ते ‘‘तेना’’ति एत्थ त-सद्देन पच्चामसीयन्तीति ‘‘तेन रागेन वा रत्तो’’तिआदि वुत्तं. तत्थाति विसये भुम्मं, विसयभावो च विसयिना सम्बन्धवसेन इच्छितब्बोति वुत्तं ‘‘पटिबद्धो’’तिआदि.

सतीति रूपस्स यथासभावसल्लक्खणा सति मुट्ठा पियनिमित्तमनसिकारेन अनुप्पज्जनतो न दिस्सति नप्पवत्तति. अज्झोसाति अज्झोसाय. गिलित्वा परिनिट्ठपेत्वा अत्तनियकरणेन.

अभिज्झा च विहेसा चाति करणत्थे पच्चत्तवचनन्ति आह – ‘‘अभिज्झाय च विहेसाय चा’’ति. अत्थवसेन विभत्तिपरिणामोति आह – ‘‘अभिज्झाविहेसाही’’ति. आचिनन्तस्साति वड्ढेन्तस्स. पटिस्सतोति पतिस्सतो सब्बत्थ सतिया युत्तो. सेवतो चापीति एत्थ च-सद्दो अपि-सद्दो च निपातमत्तन्ति ‘‘सेवन्तस्स’’इच्चेव अत्थो वुत्तो.

मालुक्यपुत्तसुत्तवण्णना निट्ठिता.