१. मारसुत्तवण्णना

१६०. मारसद्दोयं भावसाधनोति दस्सेन्तो ‘‘मारो वा अस्साति मरणं वा भवेय्या’’ति आह. मारेताति मरितब्बो मारं मरणं एतब्बोति आह ‘‘मारेतब्बो’’ति. अनुपादानिब्बानत्थाति फलविमुत्तिसङ्खाता अरहतो अरहन्तता नाम यावदेव अनुपादानिब्बानत्था. निब्बानब्भन्तरेति अनुपादानिब्बानाधिगमस्स अब्भन्तरे ततो ओरमेव इदं मग्गं ब्रह्मचरियं वुस्सति, न ततो परं. अस्साति ब्रह्मचरियस्स.

मारसुत्तवण्णना निट्ठिता.