१. समाधिमूलकसमापत्तिसुत्तवण्णना

६६२. समाधिकुसलोति समाधिस्मिं कुसलो. तयिदं समाधिकोसल्लत्तं सह झानङ्गयोगेन चतुब्बिधो झानसमाधि, तस्मा तं तं विभागं जानन्तस्स सिद्धं होतीति आह – ‘‘पठमं झान’’न्तिआदि. तत्थ वितक्कविचारपीतिसुखेकग्गतावसेन पठमं पञ्चङ्गिकं, पीतिसुखेकग्गतावसेन दुतियं तिवङ्गिकं, सुखेकग्गतावसेन ततियं दुवङ्गिकं, उपेक्खेकग्गतावसेन चतुत्थं दुवङ्गिकमेवाति एवं तस्मिं तस्मिं झाने तंतंअङ्गानं ववत्थाने कुसलो. समापत्तिकुसलोति समापज्जने कुसलो. हासेत्वाति तोसेत्वा. कल्लं कत्वाति समाधानस्स पटिपक्खधम्मानं दूरीकरणेन सहकारीकारणञ्च समाधानेन समापज्जने चित्तं समत्थं कत्वा. सेसपदानीति सेसा तयो कोट्ठासा. ततियादीसु नयेसु अकुसलोपि झानत्थाय पटिपन्नत्ता ‘‘झायीतेवा’’ति वुत्तो.

समाधिमूलकसमापत्तिसुत्तवण्णना निट्ठिता.