५. चङ्कमसुत्तवण्णना
९९. महापञ्ञेसूति विपुलपञ्ञेसु. नन्ति सारिपुत्तत्थेरं. खन्धन्तरन्ति खन्धविभागं, खन्धानं वा अन्तरं विसेसो अत्थीति खन्धन्तरो. एस नयो सेसेसुपि. परिकम्मन्ति इद्धिविधाधिगमस्स पुब्बभागपरिकम्मञ्चेव उत्तरपरिकम्मञ्च. आनिसंसन्ति इद्धानिसंसञ्चेव आनिसंसञ्च. अधिट्ठानं विकुब्बनन्ति अधिट्ठानविधानञ्चेव विकुब्बनविधानञ्च. वुत्तनयेनेवाति ‘‘पथविं पत्थरन्तो विया’’तिआदिना.
धुतङ्गपरिहारन्ति धुतङ्गानं परिहरणविधिं. परिहरणग्गहणेनेव समादानं सिद्धं होतीति तं न गहितं. आनिसंसन्ति तंतंधुतङ्गपरिहरणे दट्ठब्बं आनिसंसमेव. समोधानन्ति ‘‘एत्तका पिण्डपातपटिसंयुत्ता, एत्तका सेनासनपटिसंयुत्ता’’ति पच्चयवसेन अञ्ञमञ्ञञ्च अन्तोगधत्ता. अधिट्ठानन्ति अधिट्ठानविधिं. भेदन्ति उक्कट्ठादिभेदञ्चेव भिन्नाकारञ्च.
परिकम्मन्ति ‘‘दिब्बचक्खु एवं उप्पादेतब्बं, एवं विसोधेतब्ब’’न्तिआदिना परिकम्मविधानं. आनिसंसन्ति परेसं अज्झासयानुरूपायतनादिआनिसंसपभेदं. उपक्किलेसन्ति साधारणं असाधारणं दुविधं उपक्किलेसं. विपस्सनाभावनुपक्किलेसा हि दिब्बचक्खुस्स उपक्किलेसाति वेदितब्बा.
सङ्खेपवित्थारगम्भीरुत्तानविचित्रकथादीसूति सङ्खेपो वित्थारो गम्भीरता उत्तानता विचित्रभावो नेय्यत्थता नीतत्थताति एवमादीसु धम्मस्स कथेतब्बप्पकारेसु तं तं कथेतब्बाकारं.
इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन –
‘‘आदिम्हि सीलं देसेय्य, (दी. नि. अट्ठ. १.१९०; म. नि. अट्ठ. १.२९१)
मज्झे चित्तं विनिद्दिसे;
अन्ते पञ्ञा कथेतब्बा,
एसो धम्मकथाविधो’’ति. –
एवं कथेतब्बाकारं सङ्गण्हाति.
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. १.१९०; म. नि. अट्ठ. १.२९१; परि. ४८५) –
एवं वुत्तं दसविधं ब्यञ्जनबुद्धिं. अट्ठुप्पत्तिन्ति तस्स तस्स सुत्तस्स जातकस्स च अट्ठुप्पत्तिं. अनुसन्धिन्ति पच्छानुसन्धिआदिअनुसन्धिं. पुब्बापरन्ति सम्बन्धं. इदं पदं एवं वत्तब्बं, इदं पुब्बापरं एवं गहेतब्बन्ति.
कुलसङ्गण्हनपरिहारन्ति लाभुप्पादनत्थं कुलानं सङ्गण्हनविधिनो परिहरणं तन्नियमितं एकन्तिकं कुलसङ्गहणविधिं.
चङ्कमसुत्तवण्णना निट्ठिता.