६. सगाथासुत्तवण्णना
१००. ‘‘धातुसो संसन्दन्ती’’ति इदं अज्झासयतो सरिक्खतादस्सनं, न कायेन मिस्सीभावदस्सनन्ति आह ‘‘समुद्दन्तरे’’तिआदि. निरन्तरोति निब्बिसेसो. संसग्गाति पञ्चविधसंसग्गहेतु. संसग्गगहणेन चेत्थ संसग्गवत्थुका तण्हा गहिता. तेनाह ‘‘दस्सन…पे… स्नेहेना’’ति.
वनति भजति सज्जति तेनाति वनं, वनथोति च किलेसो वुच्चतीति आह ‘‘वनथो जातोति किलेसवनं जात’’न्ति. इतरे संसग्गमूलकाति तमेव पटिक्खिपन्तो आह ‘‘अदस्सनेना’’ति. साधुजीवीति साधु सुट्ठु जीवी, तंजीवनसीलो. तेनाह ‘‘परिसुद्धजीवितं जीवमानो’’ति.
सगाथासुत्तवण्णना निट्ठिता.