२. दुतियवग्गो
१. सत्तधातुसुत्तवण्णना
९५. आभातीति आभा, आलोकभावेन निप्फज्जति, उपट्ठातीति वा अत्थो. सो एव निज्जीवट्ठेन धातूति आभाधातु. आलोकस्साति आलोककसिणस्स. सुट्ठु, सोभनं वा भातीति सुभं. कसिणसहचरणतो झानं सुभं. सेसं वुत्तनयमेव. सुपरिसुद्धवण्णं कसिणं. आकासानञ्चादयोपि सुभारम्मणं एवाति केचि. देसनं निट्ठापेसीति देसनं उद्देसमत्ते एव ठपेसि. पाळियं ‘‘अन्धकारं पटिच्च पञ्ञायती’’ति एत्थापि आरम्मणमेव गहितं, तथा ‘‘अयं धातु असुभं पटिच्च पञ्ञायती’’ति एत्थापि. यथा हि इध सुवण्णं कसिणं सुभन्ति अधिप्पेतं, एवं दुब्बण्णं असुभन्ति.
अन्धकारं पटिच्चाति अन्धकारं पटिच्छादकपच्चयं पटिच्च. पञ्ञायतीति पाकटो होति. तेनाह ‘‘अन्धकारो ही’’तिआदि. आलोकोपि, अन्धकारेन परिच्छिन्नो होतीति योजना. अन्धकारो ताव आलोकेन परिच्छिन्नो होतु ‘‘यत्थ आलोको नत्थि, तत्थ अन्धकारो’’ति आलोको कथं अन्धकारेन परिच्छिन्नो होतीति आह ‘‘अन्धकारेन हि सो पाकटो होती’’ति. परिच्छेदलेखाय विय चित्तरूपं अन्धकारेन हि परितो परिच्छिन्नो हुत्वा पञ्ञायति, यथा तं छायाय आतपो. एसेव नयोति असुभसुभानं अञ्ञमञ्ञपरिच्छिन्नतं अतिदिसित्वा तत्थ अधिप्पेतमेव दस्सेन्तो ‘‘असुभे सति सुभं पञ्ञायती’’ति आह. एवमाहाति ‘‘असुभं पटिच्च सुभं पञ्ञायती’’ति अवोच. ‘‘रूपी रूपानि पस्सती’’तिआदीसु विय उत्तरपदलोपेनायं निद्देसोति आह ‘‘रूपं पटिच्चाति रूपावचरसमापत्तिं पटिच्चा’’ति. ताय हि सति अधिगताय. रूपसमतिक्कमा वा होतीति सभावारम्मणानं रूपज्झानानं समतिक्कमा आकासानञ्चायतनसमापत्ति नाम होतीति अत्थो. एसेव नयोति इमिना ‘‘आकासानञ्चायतनसमतिक्कमा विञ्ञाणञ्चायतनसमापत्ति नाम होती’’तिआदिना द्वेपि पकारे अतिदिसति. पटिसङ्खाति पटिसङ्खाञाणेन. अप्पवत्तिन्ति यथापरिच्छिन्नकालं अप्पवत्तनं. एतेन खणनिरोधादिं पटिक्खिपति.
कथं समापत्ति पत्तब्बाति इमासु सत्तसु धातूसु का पकारा सञ्ञासमापत्ति नाना हुत्वा समापज्जितब्बा. तेनाह ‘‘कीदिसा समापत्तियो’’तिआदि. सञ्ञाय अत्थिभावेनाति पटुकिच्चाय सञ्ञाय अत्थिभावेन. सुखुमसङ्खारानं तत्थ समापत्तियं अवसिस्सताय. निरोधोवाति सङ्खारानं निरोधो एव.
सत्तधातुसुत्तवण्णना निट्ठिता.
२. सनिदानसुत्तवण्णना
९६. भावनपुंसकमेतं ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. सनिदानन्ति अत्तनो फलं निददातीति निदानं, कारणन्ति आह ‘‘सनिदानो सप्पच्चयो’’ति. कामपटिसंयुत्तोति कामरागसङ्खातेन कामेन पटिसंयुत्तो वा कामपटिबद्धो वा. तक्केतीति तक्को. अभूतकारं समारोपेत्वा कप्पेतीति सङ्कप्पो. आरम्मणे चित्तं अप्पेतीति अप्पना. विसेसेन अप्पेतीति ब्यप्पना. आरम्मणे चित्तं अभिनिरोपेन्तं विय पवत्ततीति चेतसो अभिनिरोपना. मिच्छा विपरीतो पापको सङ्कप्पोति मिच्छासङ्कप्पो. अञ्ञेसु च कामपटिसंयुत्तेसु विज्जमानेसु वितक्को एव कामधातुसद्देन निरुळ्हो दट्ठब्बो वितक्कस्स कामपसङ्गप्पत्तिसातिसयत्ता. एस नयो ब्यापादधातुआदीसुपि. सब्बेपि अकुसला धम्मा कामधातु हीनज्झासयेहि कामेतब्बधातुभावतो.
किलेसकामस्स आरम्मणभावत्ता सब्बाकुसलसंगाहिकाय कामधातुया इतरा द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिका. तिस्सन्नं धातूनं अञ्ञमञ्ञं असङ्करतो कथा असम्भिन्ना. इमं कामावचरसञ्ञितं कामवितक्कसञ्ञितञ्च कामधातुं. पटिच्चाति पच्चयभूतं लभित्वा. तीहि कारणेहीति तीहि सारभूतेहि कारणेहि.
ब्यापादवितक्को ब्यापादो उत्तरपदलोपेन, सो एव निज्जीवट्ठेन सभावधारणट्ठेन धातूति ब्यापादधातु. ब्यापज्जति चित्तं एतेनाति ब्यापादो, दोसो. ब्यापादोपि धातूति योजना. सहजातपच्चयादिवसेनाति सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयवसेन. विसेसेन हि परस्स अत्तनो च दुक्खापनं विहिंसा, सा एव धातु, अत्थतो रोसना परूपघातो, तथा पवत्तो वा दोससहगतचित्तुप्पादो.
तिणगहने अरञ्ञेति तिणेहि गहनभूते अरञ्ञे. अनयब्यसनन्ति अपायब्यसनं, परिहरणूपायरहितं विपत्तिन्ति वा अत्थो. अवड्ढिं विनासन्ति अवड्ढिञ्चेव विनासञ्चाति वदन्ति सब्बसो वड्ढिरहितं. सुक्खतिणदायो विय आरम्मणं किलेसग्गिसंवद्धनट्ठेन. तिणुक्का विय अकुसलसञ्ञा अनुदहनट्ठेन. तिणकट्ठ…पे… सत्ता अनयब्यसनापत्तितो. ‘‘इमे सत्ता’’ति हि अयोनिसो पटिपज्जमाना अधिप्पेता. तेनाह ‘‘यथा सुक्खतिणदाये’’तिआदि.
समताभावतो समताविरोधतो विसमताहेतुतो च विसमा रागादयोति आह ‘‘रागविसमादीनि अनुगत’’न्ति. इच्छितब्बा अवस्संभाविनिभावेन.
संकिलेसतो निक्खमनट्ठेन नेक्खम्मो, सो एव निज्जीवट्ठेन धातूति नेक्खम्मधातु. स्वायं नेक्खम्मसद्दो पब्बज्जादीसु कुसलवितक्के च निरुळ्होति आह ‘‘नेक्खम्मवितक्कोपि नेक्खम्मधातू’’ति. इतरापि द्वे धातुयोति अब्यापादअविहिंसाधातुयो वदति. विसुं दीपेतब्बा सरूपेन आगतत्ता. वितक्कादयोति नेक्खम्मसङ्कप्पच्छन्दपरिळाहपरियेसना. यथानुरूपं अत्तनो अत्तनो पच्चयानुरूपं. कथं पनेत्थ कुसलधम्मेसु परिळाहो वुत्तोति? सङ्खारपरिळाहमत्तं सन्धायेतं वुत्तं, सोळससु आकारेसु दुक्खसच्चे सन्तापट्ठो विय वुत्तो, यस्स विगमेन अरहतो सीतिभावप्पत्ति वुच्चति.
सयं न ब्यापज्जति, तेन वा तंसमङ्गीपुग्गलो न किञ्चि ब्यापादेतीति अब्यापादो, विहिंसाय वुत्तविपरियायेहि सा वेदितब्बा. हितेसिभावेन मिज्जति सिनिय्हतीति मित्तो, मित्तस्स एसाति मेत्ति, अब्यापादो. मेत्तायनाति मेत्ताकारणं, मेत्ताय वा अयना पवत्तना. मेत्तायितत्तन्ति मेत्तायितस्स मेत्ताय पवत्तस्स भावो. मेत्ताचेतोविमुत्तीति मेत्तायनवसेन पवत्तो चित्तसमाधि. सेसं वुत्तनयमेव.
सनिदानसुत्तवण्णना निट्ठिता.
३. गिञ्जकावसथसुत्तवण्णना
९७. इतो पट्ठायाति ‘‘धातुं, भिक्खवे’’ति इमस्मा ततियसुत्ततो पट्ठाय. याव कम्मवग्गो, ताव नेत्वा उपगन्त्वा सेति एत्थाति आसयो, हीनादिभावेन अधीनो आसयो अज्झासयो, तं अज्झासयं, अधिमुत्तन्ति अत्थो. सञ्ञा उप्पज्जतीतिआदीसु हीनादिभेदं अज्झासयं पटिच्च हीनादिभेदा सञ्ञा, तन्निस्सयदिट्ठिविकप्पना, वितक्को च उप्पज्जति सहजातकोटिया उपनिस्सयकोटिया च. सत्थारेसूति तेसं सत्थुपटिञ्ञताय वुत्तं, न सत्थुलक्खणसब्भावतो. असम्मासम्बुद्धेसूति आधारे विसये च भुम्मं एकतो कत्वा वुत्तन्ति पठमं ताव दस्सेन्तो ‘‘मयं सम्मासम्बुद्धा’’तिआदिं वत्वा इतरं दस्सेन्तो ‘‘तेसु सम्मासम्बुद्धा एते’’तिआदिमाह. तेसं ‘‘मयं सम्मासम्बुद्धा’’ति उप्पन्नदिट्ठि इध मूलभावेन पुच्छिता, इतरा अनुसङ्किताति पुच्छतियेवाति सासङ्कं वदति.
‘‘महती’’ति एत्थ महासद्दो ‘‘महाजनो’’तिआदीसु विय बहुअत्थवाचकोति दट्ठब्बो. अविज्जापि हीनहीनतरहीनतमादिभेदेन बहुपकारा. तस्साति दिट्ठिया. कस्मा पनेत्थ ‘‘यदिदं अविज्जा धातू’’ति अविज्जं उद्धरित्वा ‘‘हीनं धातुं पटिच्चा’’ति अज्झासयधातु निद्दिट्ठाति? न खो पनेतं एवं दट्ठब्बं, ‘‘अञ्ञं उद्धरित्वा अञ्ञं निद्दिट्ठा’’ति, यतो अविज्जासीसेन अज्झासयधातु एव गहिता. अविज्जागहितो हि पुरिसपुग्गलो दिट्ठज्झासयो हीनादिभेदं अविज्जाधातुं निस्साय ततो सञ्ञादिट्ठिआदिके सङ्कप्पेति. पणिधि पत्थना, सा पन तथा तथा चित्तस्स ठपनवसेन होतीति आह ‘‘चित्तट्ठपन’’न्ति. तेनाह ‘‘सा पनेसा’’तिआदि. एतेति हीनपच्चया सञ्ञादिट्ठिवितक्कचेतना पत्थना पणिधिसङ्खाता हीना धम्मा. हीनो नाम हीनधम्मसमायोगतो. सब्बपदानीति ‘‘पञ्ञपेती’’तिआदीनि पदानि योजेतब्बानि हीनसद्देन मज्झिमुत्तमट्ठानन्तरस्स असम्भवतो. उपपज्जनं ‘‘उपपत्ती’’ति आह ‘‘द्वे उपपत्तियो पटिलाभो च निब्बत्ति चा’’ति. तत्थ हीनकुलादीति आदि-सद्देन हीनरूपभोगपरिसादीनं सङ्गहो. हीनत्तिकवसेनाति हीनत्तिके वुत्तत्तिकपदवसेनाति अधिप्पायो. चित्तुप्पादक्खणेति इदं हीनत्तिकपरियापन्नानं चित्तुप्पादानं वसेन तत्थ तत्थ लद्धत्ता वुत्तं. पञ्चसु नीचकुलेसूति चण्डालवेननेसादरथकारपुक्कुसकुलेसु. द्वादसअकुसलचित्तुप्पादानं पन यो कोचि पटिलाभो हीनोति योजना. सेसद्वयेपि एसेव नयो. इमस्मिं ठानेति ‘‘यायं, भन्ते, दिट्ठी’’तिआदिना आगते इमस्मिं ठाने. ‘‘धातुं, भिक्खवे, पटिच्च उप्पज्जती’’तिआदिना आगतत्ता निब्बत्तियेव अधिप्पेता, न पटिलाभो.
गिञ्जकावसथसुत्तवण्णना निट्ठिता.
४. हीनाधिमुत्तिकसुत्तवण्णना
९८. एकतो होन्तीति समानच्छन्दताय अज्झासयतो एकतो होन्ति. निरन्तरा होन्तीति ताय एव समानच्छन्दताय चित्तेन निब्बिसेसा होन्ति. इध अधिमुत्ति नाम अज्झासयधातूति आह ‘‘हीनाधिमुत्तिकाति हीनज्झासया’’ति.
हीनाधिमुत्तिकसुत्तवण्णना निट्ठिता.
५. चङ्कमसुत्तवण्णना
९९. महापञ्ञेसूति विपुलपञ्ञेसु. नन्ति सारिपुत्तत्थेरं. खन्धन्तरन्ति खन्धविभागं, खन्धानं वा अन्तरं विसेसो अत्थीति खन्धन्तरो. एस नयो सेसेसुपि. परिकम्मन्ति इद्धिविधाधिगमस्स पुब्बभागपरिकम्मञ्चेव उत्तरपरिकम्मञ्च. आनिसंसन्ति इद्धानिसंसञ्चेव आनिसंसञ्च. अधिट्ठानं विकुब्बनन्ति अधिट्ठानविधानञ्चेव विकुब्बनविधानञ्च. वुत्तनयेनेवाति ‘‘पथविं पत्थरन्तो विया’’तिआदिना.
धुतङ्गपरिहारन्ति धुतङ्गानं परिहरणविधिं. परिहरणग्गहणेनेव समादानं सिद्धं होतीति तं न गहितं. आनिसंसन्ति तंतंधुतङ्गपरिहरणे दट्ठब्बं आनिसंसमेव. समोधानन्ति ‘‘एत्तका पिण्डपातपटिसंयुत्ता, एत्तका सेनासनपटिसंयुत्ता’’ति पच्चयवसेन अञ्ञमञ्ञञ्च अन्तोगधत्ता. अधिट्ठानन्ति अधिट्ठानविधिं. भेदन्ति उक्कट्ठादिभेदञ्चेव भिन्नाकारञ्च.
परिकम्मन्ति ‘‘दिब्बचक्खु एवं उप्पादेतब्बं, एवं विसोधेतब्ब’’न्तिआदिना परिकम्मविधानं. आनिसंसन्ति परेसं अज्झासयानुरूपायतनादिआनिसंसपभेदं. उपक्किलेसन्ति साधारणं असाधारणं दुविधं उपक्किलेसं. विपस्सनाभावनुपक्किलेसा हि दिब्बचक्खुस्स उपक्किलेसाति वेदितब्बा.
सङ्खेपवित्थारगम्भीरुत्तानविचित्रकथादीसूति सङ्खेपो वित्थारो गम्भीरता उत्तानता विचित्रभावो नेय्यत्थता नीतत्थताति एवमादीसु धम्मस्स कथेतब्बप्पकारेसु तं तं कथेतब्बाकारं.
इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन –
‘‘आदिम्हि सीलं देसेय्य, (दी. नि. अट्ठ. १.१९०; म. नि. अट्ठ. १.२९१)
मज्झे चित्तं विनिद्दिसे;
अन्ते पञ्ञा कथेतब्बा,
एसो धम्मकथाविधो’’ति. –
एवं कथेतब्बाकारं सङ्गण्हाति.
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. १.१९०; म. नि. अट्ठ. १.२९१; परि. ४८५) –
एवं वुत्तं दसविधं ब्यञ्जनबुद्धिं. अट्ठुप्पत्तिन्ति तस्स तस्स सुत्तस्स जातकस्स च अट्ठुप्पत्तिं. अनुसन्धिन्ति पच्छानुसन्धिआदिअनुसन्धिं. पुब्बापरन्ति सम्बन्धं. इदं पदं एवं वत्तब्बं, इदं पुब्बापरं एवं गहेतब्बन्ति.
कुलसङ्गण्हनपरिहारन्ति लाभुप्पादनत्थं कुलानं सङ्गण्हनविधिनो परिहरणं तन्नियमितं एकन्तिकं कुलसङ्गहणविधिं.
चङ्कमसुत्तवण्णना निट्ठिता.
६. सगाथासुत्तवण्णना
१००. ‘‘धातुसो संसन्दन्ती’’ति इदं अज्झासयतो सरिक्खतादस्सनं, न कायेन मिस्सीभावदस्सनन्ति आह ‘‘समुद्दन्तरे’’तिआदि. निरन्तरोति निब्बिसेसो. संसग्गाति पञ्चविधसंसग्गहेतु. संसग्गगहणेन चेत्थ संसग्गवत्थुका तण्हा गहिता. तेनाह ‘‘दस्सन…पे… स्नेहेना’’ति.
वनति भजति सज्जति तेनाति वनं, वनथोति च किलेसो वुच्चतीति आह ‘‘वनथो जातोति किलेसवनं जात’’न्ति. इतरे संसग्गमूलकाति तमेव पटिक्खिपन्तो आह ‘‘अदस्सनेना’’ति. साधुजीवीति साधु सुट्ठु जीवी, तंजीवनसीलो. तेनाह ‘‘परिसुद्धजीवितं जीवमानो’’ति.
सगाथासुत्तवण्णना निट्ठिता.
७. अस्सद्धसंसन्दनसुत्तवण्णना
१०१. निरोजाति सद्धास्नेहाभावेन निस्नेहा. ततो एव अरसभावेन निरसा. एकसदिसाति समसमा निब्बिसेसा. तेनाह ‘‘निरन्तरा’’ति. अलज्जिताय एकसीमकता भिन्नमरियादा. सद्धा तेसं अत्थीति सद्धा. तन्तिपालकाति सद्धम्मतन्तिया पालका. वंसानुरक्खकाति अरियवंसस्स अनुरक्खका. आरद्धवीरियाति पग्गहितवीरिया. यस्मा तादिसानं वीरियं परिपुण्णं नाम होति किच्चसिद्धिया, तस्मा वुत्तं ‘‘परिपुण्णपरक्कमा’’ति. सब्बकिच्चपरिग्गाहिकायाति चतुन्नं सतिपट्ठानानं भावनाकिच्चपरिग्गाहिकाय.
अस्सद्धसंसन्दनसुत्तवण्णना निट्ठिता.
८-१२. अस्सद्धमूलकसुत्तादिवण्णना
१०२-१०६. अट्ठमादीनीति अट्ठमं नवमं दसमं एकादसमं द्वादसमन्ति इमानि पञ्च सुत्तानीति एके. अपरे पन नव सुत्तानीति इच्छन्ति. स्वायमत्थो अट्ठकथायं वुत्तोयेव. पाळियञ्च केसुचि पोत्थकेसु लिखीयति.
अस्सद्धमूलकसुत्तादिवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.