३. कम्मपथवग्गो

१-२. असमाहितसुत्तादिवण्णना

१०७-१०८. इतो परेसूति इतो दुतियवग्गतो परेसु सुत्तेसु. पठमन्ति पठमवग्गे पठमं. कस्मा पनेत्थ एवं देसना पवत्ताति आह ‘‘एवं वुच्चमाने’’तिआदि.

असमाहितसुत्तादिवण्णना निट्ठिता.

३-५. पञ्चसिक्खापदसुत्तादिवण्णना

१०९-१११. सुरामेरयसङ्खातन्ति पिट्ठसुरादिसुरासङ्खातं पुप्फासवादिमेरयसङ्खातञ्च. मज्जनट्ठेन मज्जं. सुरामेरयमज्जप्पमादोति वुच्चति ‘‘मज्जति तेना’’ति कत्वा. तस्मिं तिट्ठन्तीति तस्मिं पमादे पमज्जनवसेन तिट्ठन्तीति अत्थो. सेसं ततियचतुत्थेसु सुविञ्ञेय्यमेवाति.

पञ्चमे तानि पदानि संवण्णेतुं ‘‘पञ्चमे’’तिआदि आरद्धं. तत्थ पाणो नाम वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं, तं पाणं अतिपातेन्ति अतिच्च अन्तरेयेव, अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातेन्ति सणिकं पतितुं अदत्वा सीघं पातेन्तीति अत्थो. कायेन वाचाय वा अदिन्नं परसन्तकं. आदियन्तीति गण्हन्ति. मिच्छाति न सम्मा, गारय्हवसेन. मुसाति अतथं वत्थु. वदन्तीति विसंवादनवसेन वदन्ति. पियसुञ्ञकरणतो पिसुणा, पिसति वा परे सत्ते, हिंसतीति अत्थो. मम्मच्छेदिकाति एतेन परस्स मम्मच्छेदवसेन एकन्तफरुससञ्चेतना फरुसवाचा नामाति दस्सेति. अभिज्झासद्दो लुब्भने निरुळ्होति आह ‘‘परभण्डे लुब्भनसीलाति अत्थो’’ति. ब्यापन्नन्ति दोसवसेन विपन्नं. पकतिविजहनेन पूतिभूतं. साधूहि गरहितब्बतं पत्ता ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता नत्थिकाहेतुकअकिरियदिट्ठि कम्मपथपरियापन्ना नाम. मिच्छत्तपरियापन्ना सब्बापि लोकुत्तरमग्गपटिपक्खा विपरीतदिट्ठि.

तेसन्ति कम्मपथानं. वोहारतोति इन्द्रियबद्धं उपादाय पञ्ञत्तिमत्ततो. तिरच्छानगतादीसूति आदि-सद्देन पेतानं सङ्गहो. पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो. यथावुत्तपच्चयविपरियायेपि तंतंपच्चयेहि चेतनाय बलवभाववसेन अप्पसावज्जमहासावज्जता वा वेदितब्बा. इद्धिमयोति कम्मविपाकिद्धिमयो दाठाकोटनादीनं विय.

मेथुनसमाचारेसूति सदारपरदारगमनवसेन दुविधेसु मेथुनसमाचारेसु. तेपि हीनाधिमुत्तिकेहि कत्तब्बतो कामा नाम. मिच्छाचारोति गारय्हाचारो. गारय्हता चस्स एकन्तनिहीनतायाति आह ‘‘एकन्तनिन्दितो लामकाचारो’’ति असद्धम्माधिप्पायेनाति असद्धम्मसेवनाधिप्पायेन. गोत्तरक्खिताति सगोत्तेहि रक्खिता. धम्मरक्खिताति सहधम्मेहि रक्खिता. सस्सामिका नाम सारक्खा. यस्सा गमने दण्डो ठपितो, सा सपरिदण्डा. भरियभावाय धनेन कीता धनक्कीता. छन्देन वसतीति छन्दवासिनी. भोगत्थं वसतीति भोगवासिनी. पटत्थं वसतीति पटवासिनी. उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी. चुम्बटं अपनेत्वा गहिता ओभटचुम्बटा. करमरानीता धजाहटा. तङ्खणिकं गहिता मुहुत्तिका. अभिभवित्वा वीतिक्कमो मिच्छाचारो महासावज्जो, न तथा द्विन्नं समानच्छन्दताय. अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्साति वदन्ति. सेवनाचित्ते सति पयोगाभावो अप्पमाणं येभुय्येन इत्थिया सेवनापयोगस्स अभावतो. तथा सति पुरेतरं सेवनाचित्तस्स उपट्ठानेपि तस्सा मिच्छाचारो न सिया, तथा पुरिसस्सपि सेवनापयोगाभावे. तस्मा अत्तनो रुचिया पवत्तितस्स वसेन तयो, बलक्कारेन पवत्तितस्स वसेन तयोति सब्बेपि अग्गहितग्गहणेन ‘‘चत्तारो सम्भारा’’ति वुत्तं.

आसेवनमन्दतायाति याय अकुसलचेतनाय सम्फं पलपति, तस्सा इत्तरकालताय पवत्तिया अनासेवनाति परिदुब्बला होति चेतना.

उपसग्गवसेन अत्थविसेसवाचिनो धातुसद्दाति अभिज्झायतीति पदस्स परभण्डाभिमुखीतिआदिअत्थो वुत्तो. तन्निन्नतायाति तस्मिं परभण्डे लुब्भनवसेन निन्नताय. अभिपुब्बो झे-सद्दो लुब्भने निरुळ्होति दट्ठब्बो. यस्स भण्डं अभिज्झायति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जातिआदिना नयेन तत्थ अप्पसावज्जमहासावज्जविभागो वेदितब्बो. तेनाह ‘‘अदिन्नादानं विया’’तिआदि. अत्तनो परिणामनं चित्तेनेवाति दट्ठब्बं.

हितसुखं ब्यापादयतीति यो नं उप्पादेति, यस्स उप्पादेति, तस्स सति समवाये हितसुखं विनासेति. अहो वताति इमिना यथा अभिज्झाने वत्थुनो एकन्ततो अत्तनो परिणामनं दस्सितं, एवमिधापि वत्थुनो ‘‘अहो वता’’ति इमिना परस्स विनासचिन्ताय एकन्ततो नियमितभावं दस्सेति. एवञ्हि नेसं दारुणप्पवत्तिया कम्मपथप्पवत्ति.

यथाभुच्चगहणाभावेनाति यथातच्छगहणस्स अभावेन अनिच्चादिसभावस्स निच्चादितो गहणेन. मिच्छा पस्सतीति वितथं पस्सति. सम्फप्पलापो वियाति इमिना आसेवनस्स अप्पमहन्तताहि मिच्छादिट्ठिया अप्पसावज्जमहासावज्जता. वत्थुनोति गहितवत्थुनो. गहिताकारविपरीतताति मिच्छादिट्ठिया गहिताकारस्स विपरीतता. तथाभावेनाति अत्तनो गहिताकारेनेव तस्सा दिट्ठिया, गहितस्स वा वत्थुनो उपट्ठानं ‘‘एवमेतं, न इतो अञ्ञथा’’ति.

धम्मतोति सभावतो. कोट्ठासतोति चित्तङ्गकोट्ठासतो, यंकोट्ठासा होन्ति, ततोति अत्थो. चेतनाधम्मावाति चेतनासभावा एव. पटिपाटिया सत्ताति एत्थ ननु चेतना अभिधम्मे कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुकत्ता. न हि तत्थ चेतनाय अकम्मपथत्ता कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनं. यदा, पनस्स कम्मपथभावो होति, तदा कम्मपथरासिसङ्गहो न निवारितो. एत्थाह – यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनम्पि कम्मपथभावं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासिम्हि अवचनं आपज्जतीति? नापज्जति, कम्मपथतातंसभागताहि तेसं तत्थ वुत्तत्ता. यदि एवं चेतनापि तत्थ वत्तब्बा सिया? सच्चमेतं. सा पन पाणातिपातादिकाति पाकटो तस्सा कम्मपथभावोति न वुत्ता सिया. चेतनाय हि ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि (अ. नि. ६.६३; कथा. ५३९) तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिवचनतो (कथा. ५३९) कम्मभावो पाकटो. कम्मंयेव च सुगतिदुग्गतीनं तत्थुप्पज्जनकसुखदुक्खानञ्च पथभावेन पवत्तं कम्मपथोति वुच्चतीति पाकटो, तस्सा कम्मपथभावो. अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो, चेतनाजनितपिट्ठिवट्टकभावेन सुगतिदुग्गतितदुप्पज्जनकसुखदुक्खानं पथभावो चाति, न तथा पाकटो कम्मपथभावोति, ते एव तेन सभावेन दस्सेतुं अभिधम्मे कम्मपथरासिभावेन वुत्ता. अतथाजातियकत्ता वा चेतना तेहि सद्धिं न वुत्ताति दट्ठब्बं. मूलं पत्वाति मूलदेसनं पत्वा, मूलसभावेसु धम्मेसु देसियमानेसूति अत्थो.

अदिन्नादानं सत्तारम्मणन्ति इदं ‘‘पञ्च सिक्खापदा परित्तारम्मणा एवा’’ति इमाय पाळिया विरुज्झति. यञ्हि पाणातिपातादिदुस्सील्यस्स आरम्मणं, तदेव तं वेरमणिया आरम्मणं. वीतिक्कमितब्बवत्थुतो एव हि विरतीति. ‘‘सत्तारम्मण’’न्ति वा सत्तसङ्खातं सङ्खारारम्मणमेव उपादाय वुत्तत्ता न कोचि विरोधो. तथा हि वुत्तं सम्मोहविनोदनियं (विभ. अट्ठ. ७१४) ‘‘यानि सिक्खापदानि एत्थ ‘सत्तारम्मणानी’ति वुत्तानि, तानि यस्मा ‘सत्तोति’ति सङ्खं गते सङ्खारेयेव आरम्मणं करोन्ती’’ति. इतो परेसुपि एसेव नयो. विसभागवत्थुनो ‘‘इत्थिपुरिसा’’ति गहेतब्बतो सत्तारम्मणोतिपि एके. ‘‘एको दिट्ठो, द्वे सुता’’तिआदिना सम्फप्पलपने दिट्ठसुतमुतविञ्ञातवसेन. तथा अभिज्झाति एत्थ तथा-सद्दो ‘‘दिट्ठसुतमुतविञ्ञातवसेना’’ति इदम्पि उपसंहरति, न सत्तसङ्खारारम्मणतं एव दस्सनादिवसेन अभिज्झायनतो. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमानापि मिच्छादिट्ठि तेभूमकधम्मारम्मणा एवाति अधिप्पायेन तस्सा सङ्खारारम्मणता वुत्ता. कथं पन मिच्छादिट्ठिया महग्गतप्पत्ता धम्मा आरम्मणं होन्तीति? साधारणतो. नत्थि सुकटदुक्कटानं कम्मानं फलं विपाकोति हि पवत्तमानाय अत्थतो रूपारूपावचरधम्मापि गहिताव होन्तीति.

सुखबहुलताय राजानो हसमानापि ‘‘चोरं घातेथा’’ति वदन्ति, हासो पन तेसं अञ्ञविसयोति आह ‘‘सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होती’’ति. मज्झत्तवेदनो न होति, सुखवेदनोव. तत्थ ‘‘कामानं समुदया’’तिआदिना वेदनाभेदो वेदितब्बो. लोभसमुट्ठानो मुसावादो सुखवेदनो वा सिया मज्झत्तवेदनो वा, दोससमुट्ठानो दुक्खवेदनो वाति मुसावादो तिवेदनो सिया. इमिना नयेन सेसेसुपि यथारहं वेदनानं ‘‘लोभो निदानं कम्मानं समुदयाया’’तिआदिना भेदो वेदितब्बो.

पाणातिपातो दोसमोहवसेन द्विमूलकोति सम्पयुत्तमूलमेव सन्धाय वुत्तं. तस्स हि मूलट्ठेन उपकारभावो दोसविसेसो, निदानमूले पन गय्हमाने लोभमोहवसेनपि वट्टति. सम्मूळ्हो आमिसकिञ्जक्खकामोपि हि पाणं हनति. तेनेवाह ‘‘लोभो निदानं कम्मानं समुदयाया’’तिआदि (अ. नि. ३.३४). सेसेसुपि एसेव नयो.

असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति. समादानेन उप्पन्ना विरति समादानविरति. किलेसानं समुच्छिन्दनवसेन पवत्ता मग्गसम्पयुत्ता विरति समुच्छेदविरति. कामञ्चेत्थ पाळियं विरतियोव आगता, सिक्खापदविभङ्गे पन चेतनापि आहरित्वा दस्सिताति तदुभयम्पि गण्हन्तो ‘‘चेतनापि वट्टन्ति विरतियोपी’’ति आह.

अदुस्सील्यारम्मणा जीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यानि पजहन्तीति दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. पाणातिपातादीहि विरमणवसेन पवत्तनतो तदारम्मणभावेनेव तानि पजहन्ति. न हि तदेव आरब्भ तं पजहितुं सक्का ततो अनिस्सटभावतो.

अनभिज्झा…पे… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो. न हि मनोदुच्चरिततो विरति अत्थि अनभिज्झादीहेव तप्पहानसिद्धितो.

पञ्चसिक्खापदसुत्तादिवण्णना निट्ठिता.

७. दसङ्गसुत्तवण्णना

११३. मिच्छत्तसम्मत्तवसेनाति एत्थ मिच्छाभावो मिच्छत्तं, तथा सम्माभावो सम्मत्तं. तथा तथा पवत्ता अकुसलक्खन्धाव मिच्छासति, एवं मिच्छाञाणम्पि दट्ठब्बं. न हि ञाणस्स मिच्छाभावो नाम अत्थि. तस्मा मिच्छाञाणिनोति मिच्छासञ्ञाणाति अत्थो, अयोनिसो पवत्तचित्तुप्पादाति अधिप्पायो. मिच्छापच्चवेक्खणेनाति मिच्छादिट्ठिआदीनं मिच्छा अयोनिसो पच्चवेक्खणेन. कुसलविमुत्तीति पकतिपुरिससन्तरजाननं, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानन्ति एवमादिं अकुसलपवत्तिं ‘‘कुसलविमुत्ती’’ति गहेत्वा ठिता मिच्छाविमुत्तिका. सम्मापच्चवेक्खणाति झानविमोक्खादीसु सम्मा अविपरीतं पवत्ता पच्चवेक्खणा.

दसङ्गसुत्तवण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.