९. बाहिरफस्सनानत्तसुत्तादिवण्णना
९३. वुत्तप्पकारे आरम्मणेति ‘‘आपाथे पतित’’न्तिआदिना हेट्ठा वुत्तप्पकारे रूपारम्मणे. सञ्ञाति रूपसञ्ञाव. अरूपधम्मोपि समानो यस्मिं आरम्मणे पवत्तति, तं फुसन्तो विय होतीति वुत्तं ‘‘आरम्मणं फुसमानो’’ति. तण्हाय वत्थुभूतंयेव रूपारम्मणं लब्भतीति कत्वा ‘‘रूपलाभो’’ति अधिप्पेतन्ति आह ‘‘सह तण्हाय आरम्मणं रूपलाभो’’ति. सब्बसङ्गाहिकनयोति एकस्मिंयेव आरम्मणे सब्बेसं सञ्ञादीनं धम्मानं उप्पत्तिया सब्बसङ्गण्हनवसेन दस्सितनयो. तेनाह ‘‘एकस्मिंयेवा’’तिआदि. सब्बसङ्गाहिकनयोति वा धुवपरिभोगवसेन निबद्धारम्मणन्ति वा आगन्तुकारम्मणन्ति वा विभागं अकत्वा सब्बसङ्गाहिकनयो. अपरो नयो. मिस्सकोति आगन्तुकारम्मणे निबद्धारम्मणे च विसयतो निबद्धारम्मणेन मिस्सको. निबद्धारम्मणे सत्तानं किलेसो मन्दो होति. तथा हि सञ्ञासङ्कप्पफस्सवेदनाव दस्सिता. यं किञ्चि वियाति यं किञ्चि अञ्ञमञ्ञं विय. खोभेत्वाति कुतूहलुप्पादनवसेन चित्तं खोभेत्वा.
उपासिकाति तस्स अमच्चपुत्तस्स भरियं सन्धायाह. तस्मिन्ति आगन्तुकारम्मणे. लाभो नाम ‘‘लब्भती’’ति कत्वा.
उरुवल्लियवासीति उरुवल्लियलेणवासी, उरुवल्लियविहारवासीति वदन्ति. पाळियाति ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जती’’तिआदिनयपवत्ताय इमिस्सा सुत्तपाळिया. परिवट्टेत्वाति मज्झे गहितफस्सवेदनापरियोसाने ठपनवसेन पाळिं परिवट्टेत्वा. वुत्तप्पकारेतिआदि परिवत्तेतब्बाकारदस्सनं. तत्थ वुत्तप्पकारेति आपाथगतरूपारम्मणे. अविभूतवारन्ति अविभूतारम्मणवारं. अयमेव वा पाठो. गण्हन्ति कथेन्ति. एकजवनवारेपि लब्भन्ति चिरतरनिवेसाभावा. नानाजवनवारेयेव दळ्हतरनिवेसताय.
९४. दसमं उत्तानमेव नवमे वुत्तनयत्ता. पटिसेधमत्तमेव हेत्थ नानत्तन्ति.
बाहिरफस्सनानत्तसुत्तादिवण्णना निट्ठिता.
नानत्तवग्गवण्णना निट्ठिता.