५. नगरसुत्तवण्णना

६५. पञ्चमसुत्ते ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा’’तिआदि हेट्ठा संवण्णितमेवाति अवुत्तमेव संवण्णेतुं ‘‘नामरूपे खो सती’’ति आरद्धो. तत्थ द्वादसपदिके पटिच्चसमुप्पादे इमस्मिं सुत्ते यानि द्वे पदानि अग्गहितानि, नेसं अग्गहणे कारणं पुच्छित्वा विस्सज्जेतुकामो तेसं गहेतब्बकारणं ताव दस्सेन्तो ‘‘एत्था’’तिआदिमाह. पच्चक्खभूतं पच्चुप्पन्नं भवं पठमं गहेत्वा तदनन्तरं अनागतस्स ‘‘दुतिय’’न्ति गहणे अतीतो ततियो होतीति आह ‘‘अविज्जासङ्खारा हि ततियो भवो’’ति. ननु चेत्थ अनागतस्स भवस्स गहणं न सम्भवति पच्चुप्पन्नभववसेन अभिनिवेसस्स जोतितत्ताति? सच्चमेतं, कारणे पन गहिते फलं गहितमेव होतीति तथा वुत्तन्ति दट्ठब्बं. अपिचेत्थ अनागतो अद्धा अत्थतो सङ्गहितो एव यतो ‘‘नामरूपपच्चया सळायतन’’न्तिआदिना अनागतद्धसंगाहिता देसना पवत्ता, चतुवोकारवसेन विञ्ञाणपच्चया नामन्ति विसेसो अत्थि. तस्मा ‘‘पञ्चवोकारवसेना’’ति वुत्तं. तेहीति अविज्जासङ्खारेहि आरम्मणभूतेहि. अयं विपस्सनाति अद्धापच्चुप्पन्नवसेन उदयब्बयं पस्सन्तस्स पवत्तविपस्सना. न घटीयतीति न समिज्झति. महा…पे… अभिनिविट्ठोति न घटने कारणमाह, हेट्ठा गहितत्ता पाटियेक्कं सम्मसनीयं न होतीति अधिप्पायो.

अदिट्ठेसूति अनवबुद्धेसु. चतुसच्चस्स अनुबोधेन न भवितब्बन्ति आह ‘‘न सक्का बुद्धेन भवितु’’न्ति. इमिनाति महासत्तेन. तेति अविज्जासङ्खारा. भवउपादानतण्हावसेनाति भवउपादानतण्हादस्सनवसेन. दिट्ठाव ‘‘तंसहगता’’ति समानयोगक्खमत्ता. न परभागं खनेय्य अत्तना इच्छितस्स गहितत्ता परभागे अञ्ञस्स अभावतो च. तेनाह ‘‘कस्सचि नत्थिताया’’ति. पटिनिवत्तेसीति पटिसंहरि. पटिनिवत्तने पन कारणं दस्सेतुं ‘‘तदेत’’न्तिआदि वुत्तं. अभिन्नट्ठानन्ति अखणितट्ठानं.

पच्चयतोति हेतुतो, सङ्खारतोति अत्थो. ‘‘किम्हि नु खो सति जरामरणं होती’’तिआदिना हेतुपरम्परवसेन फलपरम्पराय कित्तमानाय, किम्हि नु खो सति विञ्ञाणं होतीति च विचारणाय सङ्खारे खो सति विञ्ञाणस्स विसेसतो कारणभूतो सङ्खारो अग्गहितो, ततो विञ्ञाणं पटिनिवत्तति नाम, न सब्बपच्चयतो. तेनेवाह ‘‘नामरूपे खो सति विञ्ञाणं होती’’ति. किं नाम हेत्थ सहजातादिवसेनेव पच्चयभूतं अधिप्पेतं, न कम्मूपनिस्सयवसेन पच्चुप्पन्नवसेन अभिनिवेसस्स जोतितत्ता. आरम्मणतोति अविज्जासङ्खारसङ्खातआरम्मणतो, अतीतभवसङ्खातआरम्मणतो. अतीतद्धपरियापन्ना हि अविज्जासङ्खारा. ततो पटिनिवत्तमानं विञ्ञाणं अतीतभवोपि पटिनिवत्तति नाम. उभयम्पीति पटिसन्धिविञ्ञाणं विपस्सनाविञ्ञाणम्पि. नामरूपं न अतिक्कमतीति पच्चयभूतं आरम्मणभूतञ्च नामरूपं न अतिक्कमति तेन विना अवत्तनतो. तेनाह ‘‘नामरूपतो परं न गच्छती’’ति. विञ्ञाणे नामरूपस्स पच्चये होन्तेति पटिसन्धिविञ्ञाणे नामरूपस्स पच्चये होन्ते. नामरूपे विञ्ञाणस्स पच्चये होन्तेति नामरूपे पटिसन्धिविञ्ञाणस्स पच्चये होन्ते. चतुवोकारपञ्चवोकारभववसेन यथारहं योजना वेदितब्बा. द्वीसुपि अञ्ञमञ्ञं पच्चयेसु होन्तेसूति पन पञ्चवोकारभववसेन. एत्तकेनाति एवं विञ्ञाणनामरूपानं अञ्ञमञ्ञं उपत्थम्भवसेन पवत्तिया. जायेथ वा उपपज्जेथ वाति ‘‘सत्तो जायति उपपज्जती’’ति समञ्ञा होति विञ्ञाणनामरूपविनिमुत्तस्स सत्तपञ्ञत्तिया उपादानभूतस्स धम्मस्स अभावतो. तेनाह ‘‘इतो ही’’तिआदि. एतदेवाति ‘‘विञ्ञाणं नामरूप’’न्ति एतं द्वयमेव.

अपरापरचुतिपटिसन्धीहीति अपरापरचुतिपटिसन्धिदीपकेहि ‘‘चवति, उपपज्जती’’ति द्वीहि पदेहि. पञ्च पदानीति ‘‘जायेथ वा’’तिआदीनि पञ्च पदानि. ननु तत्थ पठमततियेहि चतुत्थपञ्चमानि अत्थतो अभिन्नानीति? सच्चं, विञ्ञाणनामरूपानं अपरापरुप्पत्तिदस्सनत्थं एवं वुत्तं. तेनाह ‘‘अपरापरचुतिपटिसन्धीही’’ति. एत्तावताति वुत्तमेवत्थन्ति यो ‘‘एत्तावता’’ति पदेन पुब्बे वुत्तो, तमेव यथावुत्तमत्थं ‘‘यदिद’’न्तिआदिना निय्यातेन्तो पुन वत्वा. अनुलोमपच्चयाकारवसेनाति पच्चयधम्मदस्सनपुब्बकपच्चयुप्पन्नधम्मदस्सनवसेन. पच्चयधम्मानञ्हि अत्तनो पच्चयुप्पन्नस्स पच्चयभावो इदप्पच्चयता पच्चयाकारो, सो च ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना वुत्तो सङ्खारुप्पत्तिया अनुलोमनतो अनुलोमपच्चयाकारो, तस्स वसेन.

आपतोति परिखागतउदकतो. द्वारसम्पत्तिया तत्थ वसन्तानं पवेसननिग्गमनफासुताय उपभोगपरिभोगवत्थुसम्पत्तिया सरीरचित्तसुखताय नगरस्स मनुञ्ञताति वुत्तं ‘‘समन्ता …पे… रमणीय’’न्ति. पुब्बे सुञ्ञभावेन अरञ्ञसदिसं हुत्वा ठितं जनवासं करोन्ते नगरस्स लक्खणप्पत्तं होतीति वुत्तं ‘‘तं अपरेन समयेन इद्धञ्चेव अस्स फीतञ्चा’’ति.

‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो च सुपरिसुद्धो’’ति वचनतो तीहि विरतीहि सद्धिं पुब्बभागमग्गोपि अट्ठङ्गिकवोहारं लद्धुं अरहतीति वुत्तं ‘‘अट्ठङ्गिकस्स विपस्सनामग्गस्सा’’ति. विपस्सनाय चिण्णन्तेति विपस्सनाय सञ्चरितताय तत्थ तत्थ ताय विपस्सनाय तीरिते परियेसिते. लोकुत्तरमग्गदस्सनन्ति अनुमानादिवसेन लोकुत्तरमग्गस्स दस्सनं. तथा हि निब्बाननगरस्स दस्सनं दट्ठब्बं. दिट्ठकालोति अधिगमवसेन दिट्ठकालो. मग्गफलवसेन उप्पन्ना परोपण्णास अनवज्जधम्मा, पच्चवेक्खणञाणं पन तेसं ववत्थापकं. यापेत्वाति चरापेत्वा.

अवत्तमानकट्ठेनाति बुद्धसुञ्ञे लोके कस्सचि सन्ताने अप्पवत्तनतोव उप्पादादिवसेन वत्तमानवसेन. तथा हि भगवा ‘‘अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स सञ्जनेता’’तिआदिकेहि थोमितो. पुब्बकेहि महेसीहि पटिपन्नो हि अरियमग्गो इतरेहि अन्तरा केहिचि अवळञ्जितोति वुत्तं ‘‘अवळञ्जनट्ठेन पुराणमग्गो’’ति. झानस्सादेनाति झानसुखेन झानपीतिया. सुभिक्खं पणीतधम्मामतताय तित्तिआवहं. पुप्फितं उपसोभितं. याव दससहस्सचक्कवाळेति वुत्तं ‘‘एकिस्सा लोकधातुया’’ति परिच्छिन्नबुद्धखेत्तत्ता. तस्स अत्थिताय हि परिच्छेदो अत्थि. एतस्मिं अन्तरेति एतस्मिं ओकासे.

नगरसुत्तवण्णना निट्ठिता.