५. ञातिकसुत्तवण्णना
४५. अञ्ञमञ्ञं द्विन्नं ञातीनं गामो ञातिकोति वुत्तोति आह ‘‘द्विन्नं ञातकानं गामे’’ति. गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथो गिञ्जकावसथो. सो किर आवासो यथा सुधापरिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा कतो. तादिसञ्हि छदनं सन्धाय भगवता इट्ठकाछदनं अनुञ्ञातं. तेन वुत्तं ‘‘इट्ठकाहि कते महापासादे’’ति. तत्थ द्वारबन्धकवाटफलकादीनि पन दारुमयानियेव. परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, कारणन्ति आह ‘‘धम्मपरियायन्ति धम्मकारण’’न्ति, परियत्तिधम्मभूतं विसेसाधिगमस्स हेतुन्ति अत्थो. उपेच्च सुय्यति एत्थाति उपस्सुतीति वुत्तं ‘‘उपस्सुतीति उपस्सुतिट्ठान’’न्ति. अत्तनो कम्मन्ति यदत्थं तत्थ गतो, तं परिवेणसमज्जनकिरियं. पहायाति अकत्वा. एवं महत्थञ्हि विमुत्तायतनसीसे ठत्वा सुणन्तस्स महतो अत्थाय संवत्तति. एकङ्गणं अहोसीति सब्बं विवटं अहोसि. तीसु हि भवेसु सङ्खारगतं पच्चयुप्पन्नवसेन मनसिकरोतो भगवतो किञ्चि असेसेत्वा सब्बम्पि तं ञाणमुखे आपाथं उपगच्छि. तेन वुत्तं ‘‘यावभवग्गा एकङ्गणं अहोसी’’ति. तन्तिवसेन तमत्थं वाचाय निच्छारेन्तो ‘‘वचसा सज्झायं करोन्तो’’ति वुत्तो. पच्चयपच्चयुप्पन्नवसेन च अत्थं आहरित्वा तेसं निरोधेन विवट्टस्स आहतत्ता ‘‘यथानुसन्धिना’’ति वुत्तं. अद्दस ञाणचक्खुना.
मनसा सज्झायं करोन्तो ‘‘तुण्हीभूतोव पगुणं करोन्तो’’ति वुत्तो. पदानुपदन्ति पदञ्च अनुपदञ्च. पुरिमञ्हि पदं नाम, तदनन्तरं अनुपदं. घटेत्वा सम्बन्धं कत्वा अविच्छिन्दित्वा. परियापुणातीति अज्झयति. आधारप्पत्तन्ति आधारं चित्तसन्तानप्पत्तं अप्पमुट्ठं गतत्ता आधारप्पत्तं नाम. कारणनिस्सितोति लोकुत्तरधम्मस्स कारणसन्निस्सितो. आदिब्रह्मचरियकोति आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं. धम्मपरियायापेक्खाय पुल्लिङ्गनिद्देसो. तीसुपि इमेसूति ततियचतुत्थपञ्चमेसु तीसु सुत्तेसु.
ञातिकसुत्तवण्णना निट्ठिता.