५. भूमिजसुत्तवण्णना

२५. पुरिमसुत्तेति अनन्तरे पुरिमे सुत्ते. वुत्तनयेनेव वेदितब्बन्ति पदत्थे ततो विसिट्ठं अनिद्दिसित्वा इतरं अत्थतो विभावेतुं ‘‘अयं पन विसेसो’’तिआदिमाह. न केवलं फस्सपच्चया उप्पज्जति, अथ खो फस्सस्स सहकारीकारणभूतअञ्ञपच्चया च उप्पज्जतीति. कायेनाति चोपनकायेन, कायविञ्ञत्तियाति अत्थो. सा हि कामं पट्ठाने आगतेसु चतुवीसतिया पच्चयेसु केनचि पच्चयेन चेतनाय पच्चयो न होति. यस्मा पन काये सति एव कायकम्मं नाम होति, नासति, तस्मा सा तस्सा सामग्गियभावेन इच्छितब्बाति वुत्तं ‘‘कायेनपि करियमानं करीयती’’ति. तेनाह भगवा ‘‘काये वा, हानन्द, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखं दुक्ख’’न्ति. वाचायपीति एत्थापि एसेव नयो. मनसाति पातुभूतेन मनसा, न मनमत्तेनाति. अत्तना परेहि अनुस्साहितेन. परेनाति परेन अनुस्साहेन. सम्पजानेनाति ञाणसम्पयुत्तचित्तवसेन पजानन्तेन. असम्पजानेनाति तथा न सम्पजानन्तेन. तस्साति सुखदुक्खस्स. कायसञ्चेतनाहेतूति कायकम्मनिमित्तं, कायिकस्स कम्मस्स कतत्ता उपचितत्ताति अत्थो. एस नयो सेससञ्चेतनासुपि. उद्धच्चसहगतचेतना पवत्तियं विपाकं देतियेवाति ‘‘वीसति चेतना लब्भन्ती’’ति वुत्तं. तथा वचीद्वारेति एत्थ ‘‘कामावचरकुसलाकुसलवसेन वीसति चेतना लब्भन्ती’’ति इदं तथा-सद्देन उपसंहरति. रूपारूपचेतनाहीति रूपावचरारूपावचरकुसलचेतनाहि. तप्पच्चयं यथारहन्ति अधिप्पायो. तापि चेतनाति यथावुत्ता एकूनवीसति चेतना अविज्जापच्चया होन्ति कुसलानम्पि पगेव इतराधिट्ठहिताविज्जस्सेव उप्पज्जनतो, अञ्ञथा अनुप्पज्जनतो. यथावुत्तचेतनाभेदन्ति यथावुत्तं कायचेतनादिविभागं. परेहि अनुस्साहितो सरसेनेव पवत्तमानो. परेहि कारियमानोति परेहि उस्साहितो हुत्वा कयिरमानो. जानन्तोपीति अनुस्सवादिवसेन जानन्तोपि. कम्ममेव जानन्तोति तदा अत्तना करियमानकम्ममेव जानन्तो.

चतूसूति ‘‘सामं वा परे वा सम्पजानो वा असम्पजानो वा’’ति एवं वुत्तेसु चतूसु ठानेसु. यथावुत्ते एकूनवीसतिचेतनाधम्मे असङ्खारिकससङ्खारिकभावेन सम्पजानकतासम्पजानकतभावेन चतुगुणे कत्वा वुत्तं ‘‘छसत्तति द्वेसता चेतनाधम्मा’’ति. येसं सहजातकोटि लब्भति, तेसम्पि उपनिस्सयकोटि लब्भतेवाति ‘‘उपनिस्सयकोटिया अनुपतिता’’तिइच्चेव वुत्ता. तेति यथावुत्ता सब्बेपि धम्मा. सो कायो न होतीति एत्थ पसादकायोपि गहेतब्बो. तेनाह ‘‘यस्मिं काये सती’’तिआदि. सो कायो न होतीति सो कायो पच्चयनिरोधेन न होति. वाचाति सद्दवाचा. मनोति यं किञ्चि विञ्ञाणं. इदानि कम्मवसेनेव योजेतुं ‘‘अपिचा’’तिआदि वुत्तं. एसेव नयो ‘‘वाचापि द्वारभूता मनोपि द्वारभूतो’’ति. खीणासवस्स कथं कायो न होति, न तस्स कायकम्माधिट्ठानन्ति अधिप्पायो. अविपाकत्ताति अविपाकधम्मत्ताति अत्थो. कायो न होतीति वुत्तं अकम्मकरणभावतो.

तन्ति कम्मं. खेत्तं न होतीति तस्स दुक्खस्स अविरुहनट्ठानत्ता. विरुहनट्ठानादयो ब्यतिरेकवसेन वुत्ता. तेनाह ‘‘न होती’’ति. कारणट्ठेनाति आधारभूतकारणभावेन. सञ्चेतनामूलकन्ति सञ्चेतनानिमित्तं. विरुहनादीनं अत्थानन्ति ‘‘विरुहनट्ठेना’’तिआदिना वुत्तानं अत्थानं. इमिना विरुहनादिभावेन वेदना ‘‘सुखदुक्खवेदना’’ति कथिता, नयिध जेट्ठलक्खणं सुखदुक्खं निप्पयोजकस्स सुखस्स दुक्खस्स च अधिप्पेतत्ता. उपेक्खावेदनापेत्थ सुखसण्हसभावविपाकभूता वेदनाव.

भूमिजसुत्तवण्णना निट्ठिता.