१०. रज्जसुत्तवण्णना
१५६. अहनन्ति करणे पच्चत्तवचनन्ति आह ‘‘अहनन्तेना’’ति, पच्चत्ते एव वा पच्चत्तवचनं, ‘‘अहनन्तो हुत्वा’’ति वचनसेसेन भवितब्बन्ति अधिप्पायो. सेसपदेसुपि एसेव नयो. अजिनन्ति अन्तोगधहेतुअत्थं वदतीति आह ‘‘परस्स धनजानिं अकरोन्तेना’’ति. अकारापेन्तेनाति परस्स धनजानिं अकारेन्तेन. असोचन्तेनाति भोगब्यसनादिवसेन परं असोचन्तेन. कस्मा भगवा एवं चिन्तेसीति तत्थ कारणमाह ‘‘इती’’तिआदिना. रज्जे विजिते दण्डकरपीळितेति धनदण्डादिदण्डेन चेव बलिना च बाधिते.
इज्झनककोट्ठासाति चेतोवसिभावादिकस्स साधनककोट्ठासा. वड्ढिताति भावनापारिपूरिवसेन अनुब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता. युत्तयानन्ति यथा युत्तानं आजञ्ञरथानं सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचिपवत्तितं गमिता. पतिट्ठट्ठेनाति अधिट्ठानट्ठेन. वत्थुकताति सब्बसो उपक्किलेससोधनेन इद्धिविसयताय पतिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता. अविजहिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय न जहापिता. निच्चानुबद्धाति ततो एव निच्चं अनुबद्धा विय कता. सुपरिचिताति सुट्ठु सब्बभागेन भावनानुपचयं गमिता. अविराधितवेधिहत्थो वियाति अविरज्झनभावेन विरज्झनहत्थो विय. सुट्ठु समारद्धाति भावनाउप्पत्तिया सम्मदेव सम्पादिता. चिन्तेय्याति अत्थुद्धारवसेन चिन्तेय्य.
पब्बतस्साति पब्बतो अस्स. पब्बतो अस्साति पब्बतो भवेय्य कीदिसस्साति आह ‘‘सुवण्णस्सा’’तिआदि. जातरूपस्साति आतपरूपसम्पन्नस्स. द्विक्खत्तुम्पि ताव महन्तोति यत्तको सो पब्बतो होति, द्विक्खत्तुं तत्तको. एकस्साति एकस्सपि पुग्गलस्स नालं न परियत्तो तण्हाय दुप्पूरणभावा. एवं जानन्तोति एवं तण्हाय दुप्पूरणभावादीनवतं जानन्तो. समं चरेय्याति परवत्थुपरामासादिं विहाय कायादीहि सममेव पटिपज्जेय्य.
दुक्खं तण्हानिदानं, तण्हा कामगुणनिदाना, तस्मा दुक्खस्स तण्हापच्चयकामगुणनिदानत्तं वुत्तं. तन्ति दुक्खं. यतोनिदानं होतीति यंनिदानं यंकारणं तं पवत्तति. एवं यो अदक्खीति यो परिञ्ञातवत्थुको एवं दुक्खं तस्स निदानभूते कामगुणे च तथतो पञ्ञाचक्खुना पस्सि. केन कारणेन नमेय्य? तं कारणं नत्थीति अत्थो. कामगुणउपधिन्ति कामगुणसङ्खातं उपधिं. सज्जति एत्थाति सङ्गो एसो, लग्गनमेतन्ति एवं विदित्वा. तमेव कामाभिभूतो नप्पटिसेवेय्य न लग्गेय्याति एवं विनयाय वूपसमाय सिक्खेय्याति.
रज्जसुत्तवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.