२. दुतियवग्गो

१. पासाणसुत्तवण्णना

१४७. पविज्झीति पब्बतं सब्बतो पवत्तेन्तो ततो ततो निस्सज्जि. सकलन्ति सब्बभागवन्तं, निस्सेसन्ति अत्थो.

पासाणसुत्तवण्णना निट्ठिता.

२. किंनुसीहसुत्तवण्णना

१४८. विचक्खुकम्मायाति विचक्खुभावकामताय. यथा सा भगवतो देसियमानं धम्मं अत्तनो पञ्ञाचक्खुना न पस्सितुं सक्कोति, एवं कातुं कामताय. तेनाह ‘‘परिसाया’’तिआदि. विनासेतुं न सक्कोति भेरवारम्मणे भायनस्सेव अभावतो. दसबलप्पत्ताति दसहि बलेहि समन्नागता.

किंनुसीहसुत्तवण्णना निट्ठिता.

३. सकलिकसुत्तवण्णना

१४९. मन्दभावेनाति जळभावेन मोमूहभावेनाति महामूळ्हताय. कब्बकरणेन मत्तोति कब्बकिरियापसुततादिवसेन मत्तो कब्बं कत्वा. किमिदं सोप्पसेवाति इदं तव सोप्पं किमत्थं, पुरिसेन नाम पुरिसत्तकरेन भवितब्बं, न सोप्पतियेव. अत्थं समागन्त्वाति परमत्थं निब्बानं सम्मा आगन्त्वा अधिगन्त्वा. असङ्ग…पे… नत्थि सब्बसो सिद्धत्थभावतो. जग्गन्तोति जागरन्तो पुरिसो विय, न भायामि भयहेतूनं अभावा. नानुतपन्ति सब्बत्थ सब्बदापि विस्सट्ठभावतो, मामन्ति ममं. गाथासुखत्थञ्हि दीघं कत्वा वुत्तं. ठितत्ताति उद्देसपरिपुच्छाय परिच्छिज्जत्ता. हानिन्ति कस्सचि जानिं.

सकलिकसुत्तवण्णना निट्ठिता.

४. पतिरूपसुत्तवण्णना

१५०. अनुरुज्झति एतेनाति अनुरोधो, रागो. विरुज्झति एतेनाति विरोधो, पटिघो. तेसु अनुरोधविरोधेसु तन्निमित्तं सज्जति नाम सङ्गं करोति नाम, अनुरोधविरोधुप्पादनमेव चेत्थ सज्जनं. यदञ्ञमनुसासतीति यं अञ्ञेसं अनुसासनं, तं तेसं हितेसनं अनुकम्पनं, तस्मा अनुकम्पके हितेसके सम्मासम्बुद्धे अनुरोधविरोधे आरोपेत्वा विकम्पनत्थं मिच्छा वदसीति.

पतिरूपसुत्तवण्णना निट्ठिता.

५. मानससुत्तवण्णना

१५१. आकासे चरन्तेति पञ्चाभिञ्ञे सन्धाय वदति. अन्तलिक्खे चरन्तेपि किच्चसाधनतो अन्तलिक्खचरो. मनसि जातोति मानसो. तं पन मनसन्तानसम्पयुत्ततायाति आह ‘‘मनसम्पयुत्तो’’ति.

मानससुत्तवण्णना निट्ठिता.

६. पत्तसुत्तवण्णना

१५२. पञ्चन्नं उपादानक्खन्धानं लक्खणादीनि चेव समुदयञ्च अस्सादादीनवनिस्सरणानि च गहेत्वा सम्मा तेसं लक्खणादीनं गहणं होतीति आह ‘‘पञ्च उपादानक्खन्धे आदियित्वा’’ति. रुप्पनवेदियनसञ्जाननअभिसङ्खरणविजाननानि खन्धानं सभावलक्खणानि. आदि-सद्देन रसपच्चुपट्ठानपदट्ठानानि चेव समुदयादीनि च सङ्गण्हाति. दस्सेतीति पच्चक्खतो दस्सेति, हत्थामलकं विय पाकटे विभूते कत्वा विभावेति. गण्हापेतीति ते धम्मे मनसा अनुपेक्खिते दिट्ठिया सुप्पटिविद्धे करोन्तो उग्गण्हापेति. समादानम्हीति तत्थ अत्थस्स सम्मदेव आदियने खन्धानञ्च सम्मसनवसेन अञ्ञधम्मवसेन समादियने. पटिविद्धगुणेनाति ताय देसनाय, तं निस्साय पच्चत्तपुरिसकारेन च तेसं पटिविद्धगुणेन. जोतापेतीति तेसं चित्तसन्तानं अस्सद्धियादिकिलेसमलविधमनेन पभस्सरं करोति. अट्ठिं कत्वाति ताय देसनाय पापेतब्बं अत्थं पयोजनं दळ्हं कत्वा. तेनाह ‘‘अयं नो’’तिआदि. कम्मकारकचित्तं नाम ओतरणचित्तं. ‘‘योनिसोमनसिकारपुब्बकं विपस्सनाचित्त’’न्ति केचि. ओहितसोताति अनञ्ञविहितताय धम्मस्सवनाय अप्पितसोता, ततो एव तदत्थं ठपितसोता.

एते रूपादयो खन्धे यञ्च सङ्खतं समिद्धपच्चयेहि कतं, तञ्च ‘‘एसो अहं न होमि, एतं मय्हं न होती’’ति पस्सन्तोति योजना. खेमो अत्ताति खेमत्ता, तं खेमत्तं. तेनाह ‘‘खेमिभूतं अत्तभाव’’न्ति. परियेसमाना मारसेना.

पत्तसुत्तवण्णना निट्ठिता.

७. छफस्सायतनसुत्तवण्णना

१५३. सञ्जायति एतस्माति सञ्जाति, सो एव सम्पयुत्तधम्मो समोसरति एत्थाति समोसरणं, सो एव अत्थो, तेन सञ्जातिसमोसरणट्ठेन. भयभेरवं सद्दन्ति भायति एतस्माति भयं, तदेव यस्स कस्सचि भेरवावहत्ता भेरवं, देवादिसद्दन्ति अत्थो. विगतवलाहके देवे उप्पातवसेन उप्पज्जनकसद्दो देवदुन्दुभि. असनिपातादिसद्दो असनिपातसद्दो. उन्द्रीयतीति विपरिवत्तति. लोको अधिमुच्छितोति अतिथद्धकायो विय मुच्छं आपन्नो. मारस्साति किलेसमारस्स. ठानभूतन्ति पवत्तिट्ठानभूतं.

छफस्सायतनसुत्तवण्णना निट्ठिता.

८. पिण्डसुत्तवण्णना

१५४. तत्थ तत्थाति तस्मिं तस्मिं ञातिमित्तकुले. पाहुनकानीति पहितब्बपण्णाकारानि. आगन्तुकपण्णाकारानीति आगन्तुकानं उपगतानं दातब्बपण्णाकारानि. सयंचरदिवसेति कुमारकानञ्च कुमारिकानञ्च सयं अत्तना चरितब्बछणदिवसे. इदानि तमत्थं वित्थारतो दस्सेन्तो ‘‘समवयजातिगोत्ता’’तिआदिमाह. समवयसमजातिकसमगोत्ताति पच्चेकं सम-सद्दो योजेतब्बो. गोत्तसमता च आवाहविवाहयोग्यतावसेन दट्ठब्बा, न एकगोत्ततावसेन. ततो ततो गामतो. अञ्ञस्मिं दातब्बे असति. छणवसेन पहिणितुं सम्पादितं पूवं छणपूवं. तासं सम्पत्तियाति तासं दानं धम्मस्सवनञ्चाति तस्सा दुविधायपि सम्पत्तिया.

ञाणं नाम आवज्जनपुब्बकं, तस्मा अजाननस्स ‘‘अनावज्जनताया’’ति कारणं वत्वा सेसकारणं वदन्तो ‘‘बुद्धान’’न्तिआदिमाह. उपचारभेदन्ति बुद्धं दिस्वा मनुस्सेहि कातब्बउपचारस्स भिन्दनं. भिन्दितुन्ति विधमितुं.

भगवा पनाति पनसद्दो विसेसत्थजोतको. तेन न केवलं भगवा उप्पण्डनं परिहरन्तो तं गामं न पुन पाविसि, अथ खो मारं अनुकम्पन्तोति इदं विसेसं जोतेति.

जनेसीति अपुञ्ञं जनेसि, जनेन्तो च यथा ततो आयतिं थिरतरं महन्तं दुक्खं निप्फज्जिस्सति, एवं निप्फादेसि. आसज्जनन्ति एत्थ नन्ति निपातमत्तं. किञ्चति मद्दति अभिभवतीति किञ्चनन्ति आह ‘‘मद्दितुं समत्थ’’न्ति.

पिण्डसुत्तवण्णना निट्ठिता.

९. कस्सकसुत्तवण्णना

१५५. निब्बानं अपदिसित्वाति निब्बानं निस्साय निब्बानगुणे आरब्भाति अत्थो. हटहटकेसोति इतो चितो च विकिण्णत्ता आकुलाकुलकेसो. चक्खुसम्फस्सविञ्ञाणायतनन्ति एत्थ यथा चक्खुग्गहणेन फस्सो विसेसितो, तेन एव विञ्ञाणायतनं. तथा सति चक्खुविञ्ञाणस्स च गहणं आपज्जेय्याति. ननु चेत्थ चक्खुग्गहणेन विसेसितत्ता चक्खुद्वारिकानं सब्बेसं विञ्ञाणानं गहणन्ति? सच्चमेतं, तञ्च खो पठमेन चक्खुग्गहणेनाति नायं दोसो. भवङ्गचित्तन्ति आवज्जनाय अनन्तरपच्चयभूतमेव अधिप्पेतन्ति नियमेत्वा दस्सेतुं ‘‘सावज्जनक’’न्ति वुत्तं, तस्मा तदारम्मणम्पीति जवनचित्तेन सह तदारम्मणचित्तम्पि. ‘‘विञ्ञाणायतन’’न्ति च वुत्ते निम्मलमेव.

‘‘चक्खू’’ति अविसेसतो वुत्तत्ता पन मारस्स अयम्पि अत्थो आपन्नोति दस्सेतुं ‘‘यं लोके’’तिआदि वुत्तं. उपक्कविपक्कन्ति चक्खुपाकरोगेन उपरि हेट्ठा च सब्बसो पक्कं कुथितं. एसेव नयोति इमिना यं लोके कुट्ठकिलासगण्डकच्छुआदीहि उपद्दुतं वणपीळकादिवसेन पग्घरन्तं असुचिं अन्तमसो परमजेगुच्छरूपम्पि, सब्बं तं तवेव होतूति एवमादिं अपदिसति.

यं भण्डकन्ति हिरञ्ञसुवण्णादिखेत्तवत्थादिउपकरणं गहट्ठा, पब्बजिता च यं पत्तचीवरादिं ‘‘मम इद’’न्ति अभिनिविसन्ताव वदन्ति, एतेसु परिग्गहत्थेसु च तेसं परिग्गाहकपुग्गलेसु च ते चित्तं यदि अत्थि, तानि आरब्भ तव चित्तं यदि भवति, एवं त्वं तत्थ बद्धो एव होसीति अत्थो. तेनाह ‘‘न मे समण मोक्खसी’’ति.

यं भण्डकं वदन्तीति यथावुत्तं उपकरणं लोके बहुजना ‘‘मम इद’’न्ति वदन्ति. न तं मय्हन्ति तं मय्हं न होति, न तत्थ मम तण्हावसेन ममन्ति नत्थि. न ते अहन्ति ये पुग्गला एत्थ बद्धा, तेपि अहं न होमि, तत्थ मे दिट्ठिबद्धो नत्थि. न मे मग्गम्पि दक्खसीति एवं सब्बसो बद्धाभावेन मुत्तस्स मे गतमग्गम्पि मार त्वं न दक्खसि न पस्सिस्ससि, ये भवादयो तुय्हं विसया, तेसु भवयोनिगतिआदीसु मय्हं गतमग्गं न पस्सिस्ससि भवनिस्सट्ठत्ताति.

कस्सकसुत्तवण्णना निट्ठिता.

१०. रज्जसुत्तवण्णना

१५६. अहनन्ति करणे पच्चत्तवचनन्ति आह ‘‘अहनन्तेना’’ति, पच्चत्ते एव वा पच्चत्तवचनं, ‘‘अहनन्तो हुत्वा’’ति वचनसेसेन भवितब्बन्ति अधिप्पायो. सेसपदेसुपि एसेव नयो. अजिनन्ति अन्तोगधहेतुअत्थं वदतीति आह ‘‘परस्स धनजानिं अकरोन्तेना’’ति. अकारापेन्तेनाति परस्स धनजानिं अकारेन्तेन. असोचन्तेनाति भोगब्यसनादिवसेन परं असोचन्तेन. कस्मा भगवा एवं चिन्तेसीति तत्थ कारणमाह ‘‘इती’’तिआदिना. रज्जे विजिते दण्डकरपीळितेति धनदण्डादिदण्डेन चेव बलिना च बाधिते.

इज्झनककोट्ठासाति चेतोवसिभावादिकस्स साधनककोट्ठासा. वड्ढिताति भावनापारिपूरिवसेन अनुब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता. युत्तयानन्ति यथा युत्तानं आजञ्ञरथानं सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचिपवत्तितं गमिता. पतिट्ठट्ठेनाति अधिट्ठानट्ठेन. वत्थुकताति सब्बसो उपक्किलेससोधनेन इद्धिविसयताय पतिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता. अविजहिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय न जहापिता. निच्चानुबद्धाति ततो एव निच्चं अनुबद्धा विय कता. सुपरिचिताति सुट्ठु सब्बभागेन भावनानुपचयं गमिता. अविराधितवेधिहत्थो वियाति अविरज्झनभावेन विरज्झनहत्थो विय. सुट्ठु समारद्धाति भावनाउप्पत्तिया सम्मदेव सम्पादिता. चिन्तेय्याति अत्थुद्धारवसेन चिन्तेय्य.

पब्बतस्साति पब्बतो अस्स. पब्बतो अस्साति पब्बतो भवेय्य कीदिसस्साति आह ‘‘सुवण्णस्सा’’तिआदि. जातरूपस्साति आतपरूपसम्पन्नस्स. द्विक्खत्तुम्पि ताव महन्तोति यत्तको सो पब्बतो होति, द्विक्खत्तुं तत्तको. एकस्साति एकस्सपि पुग्गलस्स नालं न परियत्तो तण्हाय दुप्पूरणभावा. एवं जानन्तोति एवं तण्हाय दुप्पूरणभावादीनवतं जानन्तो. समं चरेय्याति परवत्थुपरामासादिं विहाय कायादीहि सममेव पटिपज्जेय्य.

दुक्खं तण्हानिदानं, तण्हा कामगुणनिदाना, तस्मा दुक्खस्स तण्हापच्चयकामगुणनिदानत्तं वुत्तं. तन्ति दुक्खं. यतोनिदानं होतीति यंनिदानं यंकारणं तं पवत्तति. एवं यो अदक्खीति यो परिञ्ञातवत्थुको एवं दुक्खं तस्स निदानभूते कामगुणे च तथतो पञ्ञाचक्खुना पस्सि. केन कारणेन नमेय्य? तं कारणं नत्थीति अत्थो. कामगुणउपधिन्ति कामगुणसङ्खातं उपधिं. सज्जति एत्थाति सङ्गो एसो, लग्गनमेतन्ति एवं विदित्वा. तमेव कामाभिभूतो नप्पटिसेवेय्य न लग्गेय्याति एवं विनयाय वूपसमाय सिक्खेय्याति.

रज्जसुत्तवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.