९. पठमअपुत्तकसुत्तवण्णना

१३०. दिव-सद्दो दिवा-सद्दो विय दिवसपरियायो, तस्मा विसेसनभावेन वुच्चमानो दिवसद्दो अत्थविसेसं दीपेतीति आह ‘‘दिवसस्स दिवा’’तिआदि. सं वुच्चति धनं, तस्स पतीति सम्पति, धनसामिको, तस्स हितावहत्ता सापतेय्यन्ति आह ‘‘सापतेय्यन्ति धन’’न्ति. तस्स गेहे कताकतभण्डस्स अतिबहुभावतो विम्हयप्पत्तो राजा ‘‘को पन वादो’’ति आह. काळलोहं नाम अयोफलं. कच्छपादिरूपेहिपि सोवण्णादीनि ठपेन्ति. सकुण्डकभत्तन्ति सकुण्डेहि वा सथुसेहि वा पक्कभत्तं. बिलङ्गं वुच्चति धञ्ञबिलङ्गं, आरनालन्तिपि वुच्चति, तं दुतियं अस्साति बिलङ्गदुतियं. तञ्हि कञ्जितो निब्बत्तत्ता कञ्जिकं नाम. तीहि पक्खेहि वत्थखण्डेहि कतनिवासनं तिपक्खवसनं. तेनाह ‘‘तीणि…पे… निवासन’’न्ति.

असन्तो नीचो पुरिसोति असप्पुरिसोति आह ‘‘लामकपुरिसो’’ति. कम्मस्स निब्बत्तभावेन ओतरणताय फलं अग्गं नाम, उपरिभूमिगतत्ता उद्धं अग्गं अस्साति उद्धग्गिकं. दक्खिणन्ति दानमाह. सग्गो नाम कामभवूपपत्तिभवो, तस्स निब्बत्तनतो ‘‘सग्गस्स हिता’’ति वुत्तं. तत्रुपपत्तिजननतोति तत्र उपपत्तिया जननतो, उप्पादनतोति अत्थो.

सेतं उदकं एतिस्साति सेतोदका. सो येन भावेन यत्थ पाकटतरो हुत्वा दिस्सति, तं दस्सेतुं ‘‘वीचीनं भिन्नट्ठाने’’ति आह. सुखोतरणट्ठानताय कद्दमादिदोसविरहतो च सुन्दरतित्था. तं अपेय्यमानन्ति तं उदकं केनचि अपरिभुञ्जियमानं. अत्तना कत्तब्बकिच्चकरोति अत्तना कातब्बकम्मसङ्खातकिच्चकरो, परिभोगवसेन चेव सङ्गहेतब्बसङ्गण्हनवसेन च नियोजकोति अत्थो. कुसलकिच्चकरोति अत्तना कातब्बपुञ्ञकरो.

पठमअपुत्तकसुत्तवण्णना निट्ठिता.