८. कल्याणमित्तसुत्तवण्णना
१२९. सीलादिगुणसमन्नागतो कल्याणो भद्दको मित्तो एतस्साति कल्याणमित्तो, तस्स धम्मो कल्याणमित्तस्सेव स्वाखातो नाम होति सुत्वा कत्तब्बकिच्चस्स साधनतो. तेनाह ‘‘अत्थं पूरेती’’ति. इतरस्साति पापमित्तस्स. तेनाति अत्थपूरणेन. एतन्ति ‘‘सो च खो कल्याणमित्तस्सा’’ति एतं वचनं. देसनाधम्मोति परियत्तिधम्मो. सो हि कल्याणमित्ततो पच्चक्खतो लद्धब्बो, इतरे तदुपनिस्सया पच्चत्तपुरिसकारेहि, तेन लद्धब्बो कल्याणमित्तोति एवमत्थो गहेतब्बो. सावकबोधिसत्तवसेन हेसा देसना आगता. न हि सेसबोधिसत्तानं परोपदेसेन पयोजनं अत्थि.
उपड्ढं कल्याणमित्ततोति ब्रह्मचरियं चरन्तस्स उपड्ढगुणो कल्याणमित्ततो लद्धब्बो. उपड्ढं पच्चत्तपुरिसकारतोति इतरं उपड्ढं ञाणं पटिपज्जन्तस्स अत्तनो पुरिसकारतो. लोकेपि पाकटोयमत्थो ‘‘आचरियतो उपड्ढं, पच्चत्तपुरिसकारतो उपड्ढं लद्धब्बा तेविज्जता’’ति, तस्मा थेरो तथा चिन्तेसि. निप्पदेसन्ति अनवसेसतो. ततोति कल्याणमित्ततो. उपड्ढं आगच्छतीति उपड्ढगुणो पटिपज्जन्तं उपगच्छति. बहूहि पुरिसेहि. विनिब्भोगो विवेचनं नत्थि एकज्झं अत्थस्स विवेचेतुं असक्कुणेय्यत्ता. एसाति परतोघोसपच्चत्तपुरिसकारतो च सिज्झमानो अत्थो. एत्तकन्ति एत्तको भागो. यदि न सक्का लद्धुं, अथ कस्मा उपड्ढन्ति वुत्तन्ति आह ‘‘कल्याणमित्तताया’’तिआदि. सम्मादिट्ठिआदीसु न सक्का लद्धुं. असक्कुणेय्ये सकलम्पि न सम्भवति परतोघोसमत्तेन तेसं असिज्झनतो, पधानहेतुभावदीपनत्थं पन ‘‘सकलमेवा’’ति वुत्तं. पुब्बभागपटिलाभङ्गन्ति पुब्बभागे पटिलद्धब्बकारणं कल्याणमित्तस्स उपदेसेन विना तेन उत्तरि विसेसतो अलद्धब्बतो. अत्थतोति परमत्थतो. ‘‘कल्याणमित्तं…पे… चत्तारो खन्धा’’ति वत्वा सुत्वाति अत्थो. ते पन सीलादयो सङ्खारक्खन्धपरियापन्नाति आह ‘‘सङ्खारक्खन्धोतिपि वदन्तियेवा’’ति.
माहेवन्ति मा अह एवन्ति छेदो, अहाति निपातमत्तं, माति पटिसेधे निपातो. तेनाह ‘‘मा एवं अभणी’’ति. ‘‘माहेवं आनन्दा’’ति वदतो भगवतो इमस्मिं ठाने तादिसस्स नाम ते, आनन्द, कल्याणमित्तगुणे सेवतो वत्तुं युत्तं अयाथावतोति धम्मभण्डागारिकस्स यथाभूतगुणकित्तनमुखेन पटिक्खेपो युत्तोति दस्सेन्तो ‘‘बहुस्सुतो’’तिआदिमाह. इदन्ति इदं वचनं भगवा आहाति सम्बन्धो. सकलमेव हीति एत्थ हि-सद्दो हेतुअत्थो. तेन ‘‘माहेव’’न्ति तस्स पटिक्खेपस्स कारणं जोतितं, न सरूपतो वुत्तं. ‘‘कल्याणमित्तस्सेत’’न्तिआदिना पन तं सरूपतो दस्सितन्ति आह ‘‘इदानि…पे… आदिमाहा’’ति. पाटिकङ्खितब्बन्ति इच्छनट्ठेन पाटिकङ्खितब्बं, न पटिकङ्खानिमित्तेनाति आह ‘‘अवस्संभावीति अत्थो’’ति.
इधाति अन्तोगधावधारणपदं, इधेवाति अत्थो. इमस्मिंयेव हि सासने अरियमग्गभावना, न अञ्ञत्थ. आदिपदानंयेवाति तस्मिं तस्मिं वाक्ये आदितो एव वुत्तसम्मादिट्ठिआदिपदानंयेव. सम्मादस्सनलक्खणाति चतुन्नं अरियसच्चानं परिञ्ञाभिसमयादिवसेन सम्मदेव दस्सनसभावा. सम्माअभिरोपनलक्खणोति निब्बानसङ्खाते आरम्मणे सम्पयुत्तधम्मे सम्मदेव आरोपनसभावो. सम्मापरिग्गहणलक्खणाति मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा सिनिद्धभावेन सम्पयुत्तधम्मे सम्मावाचापच्चयं सुभासितसोतारञ्च पुग्गलं परिग्गण्हातीति सम्मापरिग्गहणलक्खणा. यथा कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होति, तथा सम्माकम्मन्त सङ्खाता विरतिपीति समुट्ठापनलक्खणा दट्ठब्बा, सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय. जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा, जीवितप्पवत्तिया आजीवस्सेव वा सुद्धि वोदानं. यथा उप्पन्नुप्पन्नानं वज्जानं धम्मेन पहानानुप्पादअत्थलाभादिपरिवुड्ढि होति, एवं सम्पयुत्तानं पग्गहणसभावोति सम्मापग्गहलक्खणो सम्मावायामो. कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तगाहानञ्च विधमनवसेन सम्मापतिट्ठानसभावाति सम्माउपट्ठानलक्खणा सम्मासति. सम्पयुत्तधम्मानं सम्मा समादहनं एकग्गताकरणं सभावो एतस्साति सम्मासमाधानलक्खणो सम्मासमाधि. तीणि किच्चानि होन्ति पटिपक्खधम्मेसु, आरम्मणधम्मेसु, सम्पयुत्तधम्मेसु च एकस्मिंयेव खणे पवत्तिविसेसभूतानि. इदानि तानि सरूपतो दस्सेतुं ‘‘सेय्यथिद’’न्तिआदि वुत्तं. सद्धिन्ति इमिना ‘‘अञ्ञेही’’ति वुत्तकिलेसा मिच्छादिट्ठिया सह एकट्ठा वा अनेकट्ठा वाति दस्सेति. पजहति पहाय नं पटिविज्झति. निरोधन्ति निब्बानं आरम्मणं करोति सच्छिकिरियापटिवेधेन पटिविज्झति.
न केवलं मग्गधम्मा वुत्तनयेनेव, अथ खो अपरेनपि नयेन वेदितब्बाति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. नानाखणा पुनप्पुनं उप्पज्जनतो. नानारम्मणा अनिच्चानुपस्सनादिभावतो. एकक्खणा सकिदेव उप्पज्जनतो. एकारम्मणा निब्बानविसयत्ता. चत्तारि नामानि लभति परिञ्ञाभिसमयादिवसेन पवत्तिया. तीणि नामानि लभति कामसङ्कप्पादीनं पहानवसेन पवत्तिया. पटिपक्खपहानवसेन हिस्स नामत्तयलाभो. एस नयो सेसेसुपि. विरतियोपि होन्ति चेतनायोपि पुब्बभागेपि विक्खम्भनवसेन पवत्तनतो. मग्गक्खणे पन विरतियोव पटिपक्खसमुच्छिन्दनस्स मग्गकिच्चत्ता. न हि चेतना मग्गसभावा. सम्मप्पधानसतिपट्ठानवसेनाति चतुब्बिधसम्मप्पधानचतुब्बिधसतिपट्ठानवसेन चत्तारि नामानि लभति अनुप्पन्नाकुसलानुप्पादनादीनं कुसलानञ्च वड्ढनतो. पुब्बभागेपि मग्गक्खणेपीति यथा पुब्बभागे पठमज्झानादिवसेन नाना. एवं मग्गक्खणेपि. न हि एकोपि च मग्गसमाधि पठमज्झानसमाधिआदिनामानि लभति सम्मादिट्ठिआदीनं विय किच्चवसेन भेदाभावतो. तेनाह ‘‘मग्गक्खणेपि सम्मासमाधियेवा’’ति.
ञत्वा ञातब्बाति सम्बन्धो. वुद्धि नाम वेपुल्लं भिय्योभावो पुनप्पुनं उप्पादो एवाति आह ‘‘पुनप्पुनं जनेती’’ति. अभिनिब्बत्तेतीति अभिवड्ढं पापेन्तो निब्बत्तेति. विवित्तताति विवित्तभावो. सो हि विवेचनीयतो विविच्चति, यं विविच्चित्वा ठितं, तदुभयम्पि इध विवित्तभावसामञ्ञेन ‘‘विवित्तता’’ति वुत्तं. तेसु पुरिमो विवेचनीयतो विविच्चमानताय विविच्चनकिरियाय समङ्गी धम्मसमूहो ताय एव विविच्चनकिरियाय वसेन विवेकोति गहितो. इतरो सब्बसो ततो विवित्तसभावताय. तत्थ यस्मिं धम्मपुञ्जे सम्मादिट्ठि पवत्तति, तं यथावुत्ताय विविच्चमानताय विवेकसङ्खातं निस्सायेव पवत्तति, इतरं पन तंनिन्नतातंआरम्मणताहीति वुत्तं ‘‘विवेकं निस्सितं, विवेके वा निस्सित’’न्ति.
यथा वा विवेकवसेन पवत्तं झानं ‘‘विवेकज’’न्ति वुत्तं, एवं विवेकवसेन पवत्ता सम्मादिट्ठि ‘‘विवेकनिस्सिता’’ति दट्ठब्बा. निस्सयो च विपस्सनामग्गानं वसेन मग्गफलानं वेदितब्बो. असतिपि तासं पुब्बापरभावे ‘‘पटिच्चसमुप्पादो’’ति एत्थ पच्चयानं समुप्पादनं विय अभिन्नधम्माधारा निस्सयभावना सम्भवन्ति. तस्स तदङ्ग-समुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिप्पस्सद्धिविवेकनिस्सितताय अवचनं अरियमग्गभावनाय वुच्चमानत्ता. भावितमग्गस्स हि ये सच्छिकातब्बा धम्मा. तेसं किच्चं पटिप्पस्सद्धिविवेको. अज्झासयतोति ‘‘निब्बानं सच्छिकरिस्सामी’’ति महन्तअज्झासयतो. यदिपि हि विपस्सनाक्खणे सङ्खारारम्मणं चित्तं, सङ्खारेसु पन आदीनवं सुट्ठु, दिस्वा तप्पटिपक्खे निब्बाने निन्नताय अज्झासयतो निस्सरणविवेकनिस्सितो होति, उण्हाभिभूतस्स पुग्गलस्स सीतनिन्नचित्तता विय. केचि पन ‘‘यथा सभावतो, यथा अज्झासयतो निस्सरणविवेकनिस्सितता, एवं पटिप्पस्सद्धिविवेकनिस्सिततापि सिया’’ति वदन्ति. यदग्गेन हि निब्बाननिन्नता सिया, तदग्गेन फलनिन्नतापि सिया ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरेय्य’’न्ति अज्झासयसम्पत्तिया भावतो. यस्मा पहानविनयो विय रागनिरोधोपि इधाधिप्पेतविवेकेन अत्थतो निब्बिसिट्ठो, तस्मा वुत्तं एस नयो विरागनिस्सितादीसूति. तेनाह ‘‘विवेकत्था एव हि विरागादयो’’ति.
वोस्सग्गसद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. वोस्सज्जनञ्हि पहानं, विस्सट्ठभावेन निरासङ्कपवत्ति च, तस्मा विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन पटिपक्खस्स पहानं वोस्सग्गो, तथा विपस्सनाक्खणे तंनिन्नभावेन, मग्गक्खणे आरम्मणकरणेन विस्सट्ठसभावता वोस्सग्गोति वेदितब्बं. तेनेवाह ‘‘तत्थ परिच्चागवोस्सग्गो’’तिआदि. अयं सम्मादिट्ठीति अयं मिस्सकवसेन वुत्ता सम्मादिट्ठि. यथावुत्तेन पकारेनाति तदङ्गप्पहानसमुच्छेदप्पहानपकारेन तंनिन्नतदारम्मणकरणप्पकारेन च.
पुब्बे वोस्सग्गवचनस्सेव अत्थस्स वुत्तत्ता आह ‘‘सकलेन वचनेना’’ति. परिणमन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे. परिणामो नाम इध परिपाकोति आह ‘‘परिपच्चन्तं परिपक्कञ्चा’’ति. परिपाको च आसेवनलाभेन लद्धसामत्थियस्स किलेसे परिच्चजितुं निब्बानं पक्खन्दितुं तिक्खविसदभावो. तेनाह ‘‘अय’’न्तिआदि. एस नयोति य्वायं नयो ‘‘विवेकनिस्सित’’न्तिआदिना सम्मादिट्ठियं वुत्तो, सेसेसु सम्मासङ्कप्पादीसुपि एसेव नयो, एवं तत्थ नेतब्बन्ति अत्थो. पटिच्चाति निस्साय. जातिसभावाति जायनसभावा. सकलोति अनवसेसो, सब्बोति अत्थो. न कोचि मग्गो सावसेसो हुत्वा सम्भवति. हेट्ठिमे मग्गे उप्पन्ने उपरिमो उप्पन्नो एव नाम अनन्तरायेन उप्पज्जनतो. ववस्सग्गत्थेति वचसायत्थे. वण्णयन्तीति गुणवण्णनवसेन वित्थारेन्ति.
कल्याणमित्तसुत्तवण्णना निट्ठिता.