७. अप्पमादसुत्तवण्णना
१२८. समधिग्गय्हाति सम्मा अतिविय गहेत्वा, ञायेन विसेसतो गण्हित्वा. कारापकअप्पमादोति तिण्णं पुञ्ञकिरियवत्थूनं पवत्तकअप्पमादो. समवधानन्ति समवरोधं अन्तोगधं. उपक्खेपन्ति बहि अहुत्वा पक्खिपितब्बतं. सेसपदजातानि विय अव…पे… धम्मा सप्पदेसत्ता. अप्पमादे समोधानं गच्छन्ति तस्स निप्पदेसत्ता. अग्गं सेट्ठं महन्तं सेसधम्मानं अप्पमादो. पटिलाभकट्ठेनाति अधिगमहेतुताय. लोकियोपि समानोति कामावचरोपि समानो. महग्गतानुत्तरानं पुब्बभागे पवत्तअप्पमादो हि इधाधिप्पेतो.
पसंसन्ति पण्डिताति योजना. अप्पमादस्स पासंसभावे एकन्ततो कत्तब्बताय पन ‘‘एतानी’’तिआदिना कारणं आह. इमिस्सा योजनाय ‘‘पुञ्ञकिरियासू’’ति पदस्स ‘‘अप्पमत्तो’’ति इमिना सम्बन्धो. यस्मा पण्डिता अप्पमादं पसंसन्ति, यस्मा च पुञ्ञकिरियासु अप्पमत्तो उभो अत्थे अधिग्गण्हाति, तस्मा आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बोति. दुतिययोजनाय पन पण्डिता अप्पमादं पसंसन्ति. कत्थ? पुञ्ञकिरियासु. कस्माति चे? अप्पमत्तोतिआदि. तेनाह ‘‘यस्मा…पे… अत्थो’’ति. अत्थपटिलाभाति दिट्ठधम्मिकादिहितपटिलाभा.
अप्पमादसुत्तवण्णना निट्ठिता.