१. सत्तजटिलसुत्तवण्णना

१२२. पुब्बारामसङ्खातेति सावत्थिनगरस्स पुब्बदिसाय कतत्ता पुब्बारामेति सङ्खं गते. तत्राति ‘‘मिगारमातुया पासादे’’ति तस्मिं संखित्तवचने. अयं इदानि वुच्चमाना अनुपुब्बिकथा आदितो पट्ठाय अनुक्कमकथा. पत्थनं अकासि तस्स भगवतो अग्गुपट्ठायिकं एकं उपासिकं दिस्वा तं ठानन्तरं आकङ्खन्ती. मेण्डकपुत्तस्साति मेण्डकसेट्ठिपुत्तस्स. मातिट्ठाने ठपेसि तस्सा उपकारं गरुभावञ्च दिस्वा. ताय कारिते पासादेति ताय महाउपासिकाय महालतापसाधनं विस्सज्जेत्वा नवहि कोटीहि करीसमत्ते भूमिभागे कारिते सहस्सगब्भपटिमण्डिते पासादे.

परूळ्हकच्छाति परूळ्हकच्छलोमा. कमण्डलुघटिकादिं पब्बजितपरिक्खारं. नग्गभोग्गनिस्सिरिकानन्ति नग्गानञ्चेव भोग्गानञ्च निस्सिरिकानञ्च. ते हि अनिवत्थवत्थताय नग्गा चेव, अचेलकवतादिना भोग्गसरीरताय भोग्गा, सोभारहितताय निस्सिरिका च. अत्तना दिट्ठसुतं पटिच्छादेत्वा न कथेय्युन्ति अकारणमेतं तेसं रञ्ञा पयुत्तचरपुरिसभावतो. एवं कते पन ते ‘‘अञ्ञेपि पब्बजिता अत्थीति अयं जानाती’’ति मञ्ञेय्युन्ति कोहञ्ञचित्तो एवं अकासीति सक्का विञ्ञातुं. तथा हि तेनत्थेन अपरितोसमानो ‘‘अपिचा’’तिआदिमाह.

कासिकचन्दनन्ति उज्जलचन्दनं. तं किर वण्णवसेन समुज्जलं होति पभस्सरं, तदत्थमेव नं सण्हतरं करोन्ति. तेनाह ‘‘कासिकचन्दनन्ति सण्हचन्दन’’न्ति. वण्णगन्धत्थायाति वण्णसोभत्थञ्चेव सुगन्धभावत्थञ्च. वण्णगन्धत्थायाति छविरागकरणत्थञ्चेव सुगन्धत्थाय च. ‘‘गिहिना’’तिआदीहि पदेहि एवं पमादविहारिना तया अरहन्तो दुविञ्ञेय्याति दस्सेति.

संवासो नाम इध कालेन उपसङ्कमनन्ति दस्सेन्तो ‘‘उपसङ्कमन्तेना’’ति आह. कायवाचाहि असंयतेनपि संयताकारो, असंवुतिन्द्रियेनपि संवुतिन्द्रियाकारो. परिग्गहेस्सामीति वीमंसिस्सामि ‘‘परिसुद्धं नु खो, नो’’ति. सप्पञ्ञेनाति सीलपरिग्गण्हनपञ्ञाय सप्पञ्ञेन. जानितुं न सक्कोति सभावस्स सतो सीलस्स अनुपधारणतो.

कथनेनाति अपरापरं कथनेन. तथा हि वक्खति ‘‘एकच्चस्स ही’’तिआदि. अरियवोहारोति दिट्ठादिलक्खणेन वोहरितो ‘‘दिट्ठं अदिट्ठ’’न्तिआदिना पवुत्तसद्दवोहारो. तस्स पन कारणमेव गण्हन्तो ‘‘एत्थ चेतना’’ति आह. एस नयो अनरियवोहारेपि. परमत्थतो हि सच्चवाचादयो मुसावादादयो चेतनालक्खणाति. पञ्ञत्तिवोहारो तथा तथा वोहरितब्बतो एवमाह ‘‘संवोहारेन खो, महाराज, सोचेय्यं वेदितब्ब’’न्ति.

ञाणथामोति ञाणगुणबलं, येन ठानुप्पत्तिकपटिभानादिना अच्चायिककिच्चकरणीयानि निट्ठापेति. संकथायाति अत्थवीमंसनवसेन पवत्ताय सम्माकथाय. उप्पिलवति लहुकभावतो. हेट्ठाचरकाति अवचरका. ये अनुपविसित्वा परेसं रहस्सवीमंसनवसेन पवत्ता, तेसु ओचरकवोहारोति वुत्तं ‘‘चरा ही’’तिआदि.

वण्णसण्ठानेनाति वण्णेन वा सण्ठानेन वा वण्णपोक्खरताय वा सण्ठानसम्पत्तिया वा. सुजानो पेसलो विस्ससेति योजना. लहुकदस्सनेनाति परित्तदस्सनेन विज्जुकेन विय. परिक्खारभण्डकेनाति पब्बजितपरिक्खारभूतेन भण्डकेन. लोहड्ढमासोति लोहमयो उपड्ढग्घनकमासो.

सत्तजटिलसुत्तवण्णना निट्ठिता.