२. पञ्चराजसुत्तवण्णना

१२३. रूपाति रूपसङ्खाता कामगुणा. ते पन नीलादिवसेन अनेकभेदभिन्नापि रूपायतनत्ता चक्खुविञ्ञेय्यतं नातिवत्तन्तीति आह ‘‘नीलपीतादिभेदं रूपारम्मण’’न्ति. तो-सद्दोपि दा-सद्दो विय कालत्थो होतीति आह ‘‘यतोति यदा’’ति. मनं आपयति वड्ढेतीति मनापं, मनोरमं. मनापनिप्फत्तितन्ति तस्स पुग्गलस्स मनसा पियायितं, तस्स अग्गभावेन परियन्तं परमं कोटिं कत्वा पवत्तितन्ति अत्थो. पुग्गलमनापन्ति आरम्मणसभावं अचिन्तेत्वा पुग्गलस्स वसेन मनापभावेनेव इट्ठताय इट्ठन्ति. सम्मुतीति समञ्ञा. पुग्गलमनापं नाम सञ्ञाविपल्लासवसेन विपरीतम्पि गण्हाति इतरसभावतोति आह ‘‘यं एकस्स…पे… इट्ठं कन्त’’न्ति. इदानि तं जिव्हाविञ्ञेय्यवसेन योजेत्वा दस्सेन्तो ‘‘पच्चन्तवासीन’’न्तिआदिमाह. इदं पुग्गलमनापन्ति इदं यथावुत्तं जिव्हाविञ्ञेय्यं विय अञ्ञम्पि एवंजातिकं तेन तेन पुग्गलेन मनापन्ति गहेतब्बारम्मणं पुग्गलमनापं नाम.

लोके पटिविभत्तं नत्थि, विभजित्वा दस्सनेन लोकेन मधुरजातेनपि पटिविभत्तं कत्वा गहेतुं न सक्कुणेय्याति अधिप्पायो. तेनाह ‘‘विभजित्वा पन दस्सेतब्ब’’न्ति. दिब्बकप्पम्पीति देवलोकपरियापन्नसदिसम्पि अमनापं उपट्ठाति उळारपणीतारम्मणपरिचयतो. मज्झिमानं पन…पे… विभजितब्बं तेसं मनापस्स मनापतो, अमनापस्स अमनापतो उपट्ठानतो. तत्थपि इट्ठानिट्ठपरिच्छेदो निप्परियायतो एवं वेदितब्बोति दस्सेन्तो आह ‘‘तञ्च पनेत’’न्तिआदि. तञ्च पनेतं इट्ठानिट्ठभूतं आरम्मणं कामावचरजवनेसु अकुसलस्स वसेन येभुय्येन पवत्ततीति कत्वा तत्थ ‘‘रज्जति दुस्सती’’ति अकुसलस्सेव पवत्ति दस्सिता. सेसकामावचरस्सपि वसेन पवत्ति लब्भतेव. तथा हि तं अप्पटिकूलेपि पटिकूलाकारतो, पटिकूलेपि अप्पटिकूलाकारतो पवत्ततीति. विपाकचित्तं इट्ठानिट्ठं परिच्छिन्दति, न सक्का विपाकं वञ्चेतुन्ति. कुसलकम्मं हि एकन्ततो इट्ठमेव, अकुसलकम्मञ्च अनिट्ठमेव, तस्मा तत्थ उप्पज्जमानं विपाकचित्तं यथासभावतो पवत्ततीति.

यं पन सम्मोहविनोदनियं ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति एत्तकमेव वुत्तं, तं पन निदस्सनमत्तं दट्ठब्बं. तेन सोभनं अकुसलकम्मजम्पि एकच्चानं सत्तानं इट्ठन्ति अनुञ्ञातं सिया. कुसलकम्मजं पन सब्बेसं इट्ठमेवाति वदन्ति. तिरच्छानगतानं केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति. मनुस्सा च देवतानं रूपं दिस्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकमेव उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होतीति दट्ठब्बं. कुसलकम्मजस्स पन अनिट्ठस्स अभावो विय अकुसलकम्मजस्स सोभनस्स इट्ठस्स अभावो वत्तब्बो. हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स, इट्ठारम्मणेन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का वत्तुं. इदानि तमेव विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं विभावेतुं ‘‘किञ्चापि ही’’तिआदि वुत्तं. तयिदं सम्मुतिमनापसंविभागत्थं वुत्तं, इध पन न तथा विभत्तन्ति आह ‘‘भगवा पना’’तिआदि.

सो उपासको चन्दनङ्गलगामे जातत्ता ‘‘चन्दनङ्गलिको’’ति पञ्ञायति, ‘‘चन्दनविलासो’’ति केचि. तस्स उपासकस्स पटिभानं उदपादीति योजना. ते राजानो हतप्पभे हतसोभे दिस्वाति सम्बन्धो. उदकाभिसित्तेति उदकेन अभिसिञ्चिते. अङ्गारे वियाति अङ्गारक्खणे विय.

कालस्सेवाति पगेव. अविगतगन्धं तङ्खणविकसितताय. ईदिसं वचनन्ति ‘‘अच्छादेसी’’ति एवरूपं वचनन्ति.

पञ्चराजसुत्तवण्णना निट्ठिता.