६. कामदसुत्तवण्णना

८७. पुब्बयोगावचरोति पुब्बे योगावचरो पुरिमत्तभावे भावनमनुयुत्तो. अयं किर कस्सपस्स भगवतो सासने पब्बजित्वाव बहूनि वस्ससहस्सानि समणधम्मं अकासि, न पन विसेसं निब्बत्तेसि. तमत्थं कारणेन सद्धिं दस्सेतुं ‘‘बहलकिलेसताया’’तिआदि वुत्तं. एकन्तपरिसुद्धस्साति यथा विसेसावहो होति, एवं एकन्तेन परिसुद्धस्स सब्बसो अनुपक्किलिट्ठस्स. सीलेन समाहिताति यथा सीलं उपरूपरि विसेसावहं निब्बेधभागियञ्च होति, एवं सम्मदेव आहितचित्ता सुट्ठु सम्पन्नचित्ता. तथाभूता तेन समन्नागता होन्तीति आह ‘‘समुपेता’’ति. पतिट्ठितसभावाति सेक्खत्ता एव यथाधिगतधम्मेन निच्चलभावेन अधिट्ठितसभावा. मया तुट्ठिया गहिताय देवपुत्तो ‘‘दुल्लभा तुट्ठी’’ति वक्खतीति भगवा ‘‘तुट्ठि होति सुखावहा’’ति अवोचाति आह ‘‘उपरि पञ्हसमुट्ठापनत्थ’’न्ति. पब्बजितो रुक्खमूलिको अब्भोकासिको वा अनगारियुपेतो नाम होति, सेनासने पन वसन्तो कथन्ति आह ‘‘सत्तभूमिके’’तिआदि. चतुपच्चयसन्तोसोति भावनाभियोगसिद्धो चतूसु पच्चयेसु सन्तोसो. तेन चित्तवूपसमेन तुट्ठि लद्धाति दस्सेति. चित्तवूपसमभावनायाति चित्तकिलेसानं वूपसमकरभावनाय, मनच्छट्ठानं इन्द्रियानं निब्बिसेवनभावकरणेन सविसेसं चित्तस्स वूपसमकरभावनाय रतो मनोति योजना.

एत्थ च इन्द्रियूपसमेन चित्तसमाधानं परिपुण्णं होति इन्द्रियभावनाय चित्तसमाधानस्स अकारकानं दूरीकरणतो. अधिचित्तसमाधानेन चतुपच्चयसन्तोसो सविसेसं परिसुद्धो परिपुण्णो च होति पच्चयानं अलाभलाभेसु परिच्चागसभावतो. वुत्तनयेन पन सन्तुट्ठस्स यथासमादिन्नं सीलं विसुज्झति पारिपूरिञ्च उपगच्छति, तथाभूतो चतुसच्चकम्मट्ठाने युत्तो मग्गपटिपाटिया सब्बसो किलेसे समुच्छिन्दन्तो निब्बानदिट्ठो होतीति इममत्थं दस्सेति ‘‘ये रत्तिन्दिव’’न्तिआदिना. किं न गच्छिस्सन्ति? गमिस्सन्तेवाति अरियमग्गभावनं पहाय सम्मापटिपत्तिया दुक्करभावं सन्धाय सासङ्कं वदति. तेनाह ‘‘अयं पन दुग्गमो भगवा विसमो मग्गो’’ति.

तत्थ केचि ‘‘अयं पनाति देवपुत्तो. सो हि भगवतो ‘अरिया गच्छन्ती’ति वचनं सुत्वा ‘दुग्गमो भगवा’तिआदिमाहा’’ति वदन्ति, तं न युज्जति. यस्मा ‘‘सच्चमेत’’न्ति एवमादिपि तस्सेव वेवचनं कत्वा दस्सितं, तस्मा ‘‘येन मग्गेन अरिया गच्छन्ती’’ति तुम्हेहि वुत्तं, अयं पन ‘‘दुग्गमो भगवा विसमो मग्गो’’ति आह देवपुत्तो. अरियमग्गो कामं कदाचि अतिदुक्खा पटिपदातिपि वुच्चति, तञ्च खो पुब्बभागपटिपदावसेन, अयं पन अतीव सुगमो सब्बकिलेसदुग्गविवज्जनतो कायदुच्चरितादिविसमस्स रागादिविसमस्स च दूरीकरणतो न विसमो. तेनाह ‘‘पुब्बभागपटिपदाया’’तिआदि. अस्साति अरियमग्गस्स. अरियमग्गस्स हि अधिसीलसिक्खादीनं परिबुन्धितब्बभागेन बहू परिस्सया होन्तीति. एवं वुत्तोति ‘‘दुग्गमो विसमो’’ति च एवं वुत्तो.

अवंसिराति अनुट्ठहनेन अधोभूतउत्तमङ्गा. कुसलङ्गेसु हि सम्मादिट्ठि उत्तमङ्गा सब्बसेट्ठत्ता, तञ्च अनरिया पतन्ति न उट्ठहन्ति मिच्छापटिपज्जनतो. तेनाह ‘‘ञाणसिरेना’’तिआदि. अनरियमग्गेति मिच्छामग्गे. तेनाह ‘‘विसमे मग्गे’’ति. तं मग्गनतो अनरिया अरियानं मग्गतो अपापुणनेन परिच्चत्ता हुत्वा अपाये सकलवट्टदुक्खे च पतन्ति. स्वेवाति स्वायं अनरियेहि कदाचिपि गन्तुं असक्कुणेय्यो मग्गो अरियानं विसुद्धसत्तानं सब्बसो समधिगमेन समो होति. कायविसमादीहि समन्नागतत्ता विसमे सत्तकाये तेसं सब्बसोव पहानेन सब्बत्थ समायेव.

कामदसुत्तवण्णना निट्ठिता.