७. पञ्चालचण्डसुत्तवण्णना
८८. सम्बाधेति सम्पीळिततण्हाकिलेसादिना सउप्पीळताय परमसम्बाधे. अतिविय सङ्कारट्ठानभूतो हि नीवरणसम्बाधो अधिप्पेतो. सो हि दुग्गहनो तस्मिं असति कामगुणसम्बाधो अनवसरो एव सेय्यथापि महाकस्सपादीनं. ओकासन्ति झानस्सेतं नामं नीवरणसम्बाधाभावतो. असम्बाधभावेन हि झानं इध ‘‘ओकासो’’ति वुत्तं, तञ्च खो अच्चन्तासम्बाधट्ठानताय विपस्सनापादकताय. तथा हि पाळियं ‘‘अविन्दी’’तिआदि वुत्तं. तत्थ अविन्दीति विन्दि पटिलभि. भूरिमेधसोति महापञ्ञो, सपञ्ञोति अत्थो. अबुज्झीति बुज्झि पटिविज्झि. पटिलीनो हुत्वा सेट्ठो, पटिलीनानं वा सेट्ठोति पटिलीनसेट्ठो. मानुस्सयवसेन उन्नतभावतो पटिलीनो नाम पहीनमानो. पटिलभिंसूति कामगुणसम्बाधेपि ‘‘इमे कामगुणा मादिसानं किं करिस्सन्ती’’ति? ते अभिभुय्य निब्बानप्पत्तिया सम्मासतिं पटिलभिंसु. तेन सम्पयुत्तेन लोकुत्तरसमाधिनापि सुट्ठु समाहिता.
अयं किर देवपुत्तो इतो पुरिमवारे अत्तभावे पठमज्झानलाभी हुत्वा ततो चवित्वा ब्रह्मकायिकासु निब्बत्तित्वा तत्थ झानसुखं अनुभवित्वा ततो चुतो इदानि कामभवे निब्बत्तो, तस्मा तं झानं सम्भावेन्तो ‘‘तादिसस्स नाम झानसुखस्स लाभी भगवा’’ति तेन गुणेन भगवन्तं अभित्थवन्तो ‘‘सम्बाधे वता’’ति गाथं अभासि. अथस्स भगवा यथा नाम अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतराजं उपादाय सासपो न किञ्चि होति, एवं अनन्तापरिमेय्यबुद्धगुणे उपादाय रूपावचरपठमज्झानं न किञ्चि होतीति दस्सेन्तो ‘‘ये सति’’न्तिआदिना अनुत्तरगुणाधिगमं पवेदेसि. तत्थ सतिन्ति विपस्सनासतिया सद्धिं अरियमग्गसतिं. सुसमाहिताति लोकियसमाधिना चेव लोकुत्तरसमाधिना च सुट्ठु समाहिता. ते हि अच्चन्तं सुसमाहिता, न झानमत्तलाभिनो अकुप्पधम्मत्ता. केचि ‘‘कम्मन्ते सुसमाहिता’’ति पाठं वत्वा ‘‘मग्गसमाहिता’’ति अत्थं वदन्ति.
पञ्चालचण्डसुत्तवण्णना निट्ठिता.