१. पठमवग्गो
१. पठमकस्सपसुत्तवण्णना
८२. देवस्स पुत्तो देवपुत्तो. देवानं जनकजनेतब्बसम्बन्धाभावतो कथमयं देवपुत्तोति वुच्चतीति आह ‘‘देवानं ही’’तिआदि. ‘‘अपाकटो अञ्ञतरोति वुच्चती’’ति इदं येभुय्यवसेन वुत्तं. पाकटोपि हि कत्थचि ‘‘अञ्ञतरो’’ति वुच्चति. हेट्ठा देवतासंयुत्ते ‘‘अपाकटा अञ्ञतरा देवता’’ति वत्वा इध ‘‘पाकटो देवपुत्तो’’ति वुत्तं. तथा हिस्स कस्सपोति गोत्तनामं गहितं, तञ्च खो पुरिमजातिसिद्धसमञ्ञावसेन. अनुसासनं अनुसासो, तं अनुसासं. भिक्खुनिद्देसन्ति भिक्खुसद्दस्स निद्देसं. भिक्खुओवादन्ति भिक्खुभावावहं ओवादं. यदि पन न अस्सोसि, कथमयं पञ्हं कथेसीति? अञ्ञतो सुतं निस्साय पञ्हं कथेसि, न पन भगवतो सम्मुखा सुतभावेन.
तेसन्ति यथावुत्तानं तिण्णं पुग्गलानं. ‘‘कथेतुकामो चेवा’’तिआदिना हि चतुत्थं इध उद्धटं. तत्थ आदितो तिण्णं भगवा पञ्हं भारं न करोति एकेकङ्गवेकल्लतो चेव अङ्गद्वयवेकल्लतो च, चतुत्थस्स पन उभयङ्गपारिपूरत्ता भारं करोतीति आह ‘‘अयं पना’’तिआदि.
गाथायं ‘‘सुभासितस्सा’’ति उपयोगत्थे सामिवचनन्ति आह ‘‘सुभासितं सिक्खेय्या’’ति. चतुसच्चादिनिस्सितं बुद्धवचनं सिक्खन्तो चतुब्बिधं वचीसुचरितं सिक्खति नामाति आह ‘‘चतुसच्चनिस्सितं…पे… सिक्खेय्या’’ति. अवधारणेन तप्पटिपक्खं पटिनिवत्तेति. उपासितब्बन्ति आसेवितब्बं भावेतब्बं बहुलीकातब्बं. अट्ठतिंसभेदं कम्मट्ठानन्ति इदं तस्स विपस्सनापदट्ठानतं हदये ठपेत्वा वुत्तं. तथा हि वुत्तं ‘‘दुतियपदेन अधिपञ्ञासिक्खा कथिता’’ति. ये पन ‘‘दुतियपदेन अधिचित्तसिक्खा चित्तवूपसमेन अधिपञ्ञासिक्खा’’ति पठन्ति, तेसं पदेन अट्ठतिंसप्पभेदकम्मट्ठानं सुद्धसमथकम्मट्ठानस्सेव गहणं दट्ठब्बं. यदि एवं ‘‘अट्ठसमापत्तिवसेना’’ति इदं कथन्ति? ‘‘तं विपस्सनाधिट्ठानानं समापत्तीनं वसेन कथित’’न्ति वदन्ति. एवञ्च कत्वा ‘‘दुतियपदेन अधिपञ्ञासिक्खा’’ति इदं वचनं समत्थितं होति. सिक्खनं नाम आसेवनन्ति आह ‘‘भावेय्याति अत्थो’’ति. उपासनन्ति पयिरुपासनं. तञ्च खो अस्सुतपरियापुणनकम्मट्ठानुग्गहादिवसेन दस्सेन्तो ‘‘तम्पी’’तिआदिमाह. अधिसीलसिक्खा कथिता लक्खणहारनयेन. वचीसुचरितस्स हि सीलसभावत्ता तग्गहणेनेव तदेकलक्खणं कायसुचरितम्पि इतरम्पि गहितमेवाति. एत्थ च अधिसीलसिक्खाय चित्तविवेको, अधिपञ्ञासिक्खाय उपधिविवेको, अधिचित्तसिक्खाय कायविवेको कथितो, कायविवेको पन सरूपेनेव पाळियं गहितोति तिविधस्सपि विवेकस्स पकासितत्तं दट्ठब्बं. सेसं सुविञ्ञेय्यमेव.
पठमकस्सपसुत्तवण्णना निट्ठिता.
२. दुतियकस्सपसुत्तवण्णना
८३. द्वीहि झानेहीति आरम्मणलक्खणूपनिज्झानलक्खणेहि द्वीहि झानेहि. कम्मट्ठानविमुत्तियाति कम्मट्ठानानुयोगलद्धाय विमुत्तिया. तेन तदङ्गविक्खम्भनविमुत्तियो वदति. सत्थुसासनस्स हदयत्ता अब्भन्तरत्ता हदयस्स मानसस्स, अनुपत्तिं पटिलाभमानसं. तं पन अत्थतो अञ्ञा एवाति आह ‘‘अरहत्त’’न्ति. तं पत्तुकामेन एकन्ततो वज्जेतब्बतण्हादिट्ठीनं भावे तस्स अनिज्झनतो, तदभावे इज्झनतो च ते उप्पादनवसेन यदग्गेन निस्सितो, तदग्गेन पनायम्पि तेहि निस्सितो नाम होतीति आह ‘‘अनिस्सितो’’तिआदि. अरहत्तं आनिसंसितब्बट्ठेन आनिसंसं एतस्साति अरहत्तानिसंसो. अरहत्तं पत्तुकामस्स पुब्बभागपटिपदा इच्छितब्बा. तत्थ च सब्बपठमो कम्मट्ठानअत्तानुयोगो, सो इध न गहितोति आह ‘‘तन्तिधम्मो पुब्बभागो’’ति. तत्थ तन्तिधम्मोति परियत्तिधम्मो.
दुतियकस्सपसुत्तवण्णना निट्ठिता.
३. मघसुत्तवण्णना
८४. मघोति सक्कस्सेतं नामं पुरिमजातिअनुगतं. स्वेवाति सक्को एव. वतेनाति मातापितुउपट्ठानादिचारित्तधम्मेन. अञ्ञेति उपधिवेपक्कपापधम्मे अभिभवित्वा. असुरन्ति इन्दसत्तुभूतं असुरं.
मघसुत्तवण्णना निट्ठिता.
४. मागधसुत्तवण्णना
८५. चतुत्थसुत्तं वुत्तत्थमेवाति देवतासंयुत्ते संवण्णितत्थमेव, तस्मा इध न वत्तब्बो अत्थोति अधिप्पायो.
मागधसुत्तवण्णना निट्ठिता
५. दामलिसुत्तवण्णना
८६. तेन कारणेनाति तेन पधानेन कारणभूतेन, पधानकरणनिमित्तन्ति अत्थो. यं किञ्चि खुद्दकम्पि महन्तम्पि हीनम्पि पणीतम्पि भवं. आयतपग्गहोति दीघरत्तस्स वीरियारम्भो. किच्चवोसानन्ति किच्चनिट्ठानं. तथेवाति यथा अरहत्तुप्पत्तितो पुब्बे, ततो पच्छापि तथेव ‘‘बुद्धिपग्गहो’’ति वीरियं दळ्हं करोतूति कुप्पधम्मं विय मञ्ञमानो वदति. दिट्ठधम्मसुखविहारादिअत्थं पन वीरियकरणं इच्छितब्बमेव.
असंकिण्णाति अवोमिस्सा एवं अञ्ञत्थ अनागतत्ता. तेनाह ‘‘भगवता ही’’तिआदि. यदि एवं इधेव कस्मा एतं वुत्तन्ति आह ‘‘इध पना’’तिआदि. पतिट्ठन्ति नदी नाम अनवट्ठिततीरा, तत्थ पतिट्ठातब्बट्ठानं.
दामलिसुत्तवण्णना निट्ठिता.
६. कामदसुत्तवण्णना
८७. पुब्बयोगावचरोति पुब्बे योगावचरो पुरिमत्तभावे भावनमनुयुत्तो. अयं किर कस्सपस्स भगवतो सासने पब्बजित्वाव बहूनि वस्ससहस्सानि समणधम्मं अकासि, न पन विसेसं निब्बत्तेसि. तमत्थं कारणेन सद्धिं दस्सेतुं ‘‘बहलकिलेसताया’’तिआदि वुत्तं. एकन्तपरिसुद्धस्साति यथा विसेसावहो होति, एवं एकन्तेन परिसुद्धस्स सब्बसो अनुपक्किलिट्ठस्स. सीलेन समाहिताति यथा सीलं उपरूपरि विसेसावहं निब्बेधभागियञ्च होति, एवं सम्मदेव आहितचित्ता सुट्ठु सम्पन्नचित्ता. तथाभूता तेन समन्नागता होन्तीति आह ‘‘समुपेता’’ति. पतिट्ठितसभावाति सेक्खत्ता एव यथाधिगतधम्मेन निच्चलभावेन अधिट्ठितसभावा. मया तुट्ठिया गहिताय देवपुत्तो ‘‘दुल्लभा तुट्ठी’’ति वक्खतीति भगवा ‘‘तुट्ठि होति सुखावहा’’ति अवोचाति आह ‘‘उपरि पञ्हसमुट्ठापनत्थ’’न्ति. पब्बजितो रुक्खमूलिको अब्भोकासिको वा अनगारियुपेतो नाम होति, सेनासने पन वसन्तो कथन्ति आह ‘‘सत्तभूमिके’’तिआदि. चतुपच्चयसन्तोसोति भावनाभियोगसिद्धो चतूसु पच्चयेसु सन्तोसो. तेन चित्तवूपसमेन तुट्ठि लद्धाति दस्सेति. चित्तवूपसमभावनायाति चित्तकिलेसानं वूपसमकरभावनाय, मनच्छट्ठानं इन्द्रियानं निब्बिसेवनभावकरणेन सविसेसं चित्तस्स वूपसमकरभावनाय रतो मनोति योजना.
एत्थ च इन्द्रियूपसमेन चित्तसमाधानं परिपुण्णं होति इन्द्रियभावनाय चित्तसमाधानस्स अकारकानं दूरीकरणतो. अधिचित्तसमाधानेन चतुपच्चयसन्तोसो सविसेसं परिसुद्धो परिपुण्णो च होति पच्चयानं अलाभलाभेसु परिच्चागसभावतो. वुत्तनयेन पन सन्तुट्ठस्स यथासमादिन्नं सीलं विसुज्झति पारिपूरिञ्च उपगच्छति, तथाभूतो चतुसच्चकम्मट्ठाने युत्तो मग्गपटिपाटिया सब्बसो किलेसे समुच्छिन्दन्तो निब्बानदिट्ठो होतीति इममत्थं दस्सेति ‘‘ये रत्तिन्दिव’’न्तिआदिना. किं न गच्छिस्सन्ति? गमिस्सन्तेवाति अरियमग्गभावनं पहाय सम्मापटिपत्तिया दुक्करभावं सन्धाय सासङ्कं वदति. तेनाह ‘‘अयं पन दुग्गमो भगवा विसमो मग्गो’’ति.
तत्थ केचि ‘‘अयं पनाति देवपुत्तो. सो हि भगवतो ‘अरिया गच्छन्ती’ति वचनं सुत्वा ‘दुग्गमो भगवा’तिआदिमाहा’’ति वदन्ति, तं न युज्जति. यस्मा ‘‘सच्चमेत’’न्ति एवमादिपि तस्सेव वेवचनं कत्वा दस्सितं, तस्मा ‘‘येन मग्गेन अरिया गच्छन्ती’’ति तुम्हेहि वुत्तं, अयं पन ‘‘दुग्गमो भगवा विसमो मग्गो’’ति आह देवपुत्तो. अरियमग्गो कामं कदाचि अतिदुक्खा पटिपदातिपि वुच्चति, तञ्च खो पुब्बभागपटिपदावसेन, अयं पन अतीव सुगमो सब्बकिलेसदुग्गविवज्जनतो कायदुच्चरितादिविसमस्स रागादिविसमस्स च दूरीकरणतो न विसमो. तेनाह ‘‘पुब्बभागपटिपदाया’’तिआदि. अस्साति अरियमग्गस्स. अरियमग्गस्स हि अधिसीलसिक्खादीनं परिबुन्धितब्बभागेन बहू परिस्सया होन्तीति. एवं वुत्तोति ‘‘दुग्गमो विसमो’’ति च एवं वुत्तो.
अवंसिराति अनुट्ठहनेन अधोभूतउत्तमङ्गा. कुसलङ्गेसु हि सम्मादिट्ठि उत्तमङ्गा सब्बसेट्ठत्ता, तञ्च अनरिया पतन्ति न उट्ठहन्ति मिच्छापटिपज्जनतो. तेनाह ‘‘ञाणसिरेना’’तिआदि. अनरियमग्गेति मिच्छामग्गे. तेनाह ‘‘विसमे मग्गे’’ति. तं मग्गनतो अनरिया अरियानं मग्गतो अपापुणनेन परिच्चत्ता हुत्वा अपाये सकलवट्टदुक्खे च पतन्ति. स्वेवाति स्वायं अनरियेहि कदाचिपि गन्तुं असक्कुणेय्यो मग्गो अरियानं विसुद्धसत्तानं सब्बसो समधिगमेन समो होति. कायविसमादीहि समन्नागतत्ता विसमे सत्तकाये तेसं सब्बसोव पहानेन सब्बत्थ समायेव.
कामदसुत्तवण्णना निट्ठिता.
७. पञ्चालचण्डसुत्तवण्णना
८८. सम्बाधेति सम्पीळिततण्हाकिलेसादिना सउप्पीळताय परमसम्बाधे. अतिविय सङ्कारट्ठानभूतो हि नीवरणसम्बाधो अधिप्पेतो. सो हि दुग्गहनो तस्मिं असति कामगुणसम्बाधो अनवसरो एव सेय्यथापि महाकस्सपादीनं. ओकासन्ति झानस्सेतं नामं नीवरणसम्बाधाभावतो. असम्बाधभावेन हि झानं इध ‘‘ओकासो’’ति वुत्तं, तञ्च खो अच्चन्तासम्बाधट्ठानताय विपस्सनापादकताय. तथा हि पाळियं ‘‘अविन्दी’’तिआदि वुत्तं. तत्थ अविन्दीति विन्दि पटिलभि. भूरिमेधसोति महापञ्ञो, सपञ्ञोति अत्थो. अबुज्झीति बुज्झि पटिविज्झि. पटिलीनो हुत्वा सेट्ठो, पटिलीनानं वा सेट्ठोति पटिलीनसेट्ठो. मानुस्सयवसेन उन्नतभावतो पटिलीनो नाम पहीनमानो. पटिलभिंसूति कामगुणसम्बाधेपि ‘‘इमे कामगुणा मादिसानं किं करिस्सन्ती’’ति? ते अभिभुय्य निब्बानप्पत्तिया सम्मासतिं पटिलभिंसु. तेन सम्पयुत्तेन लोकुत्तरसमाधिनापि सुट्ठु समाहिता.
अयं किर देवपुत्तो इतो पुरिमवारे अत्तभावे पठमज्झानलाभी हुत्वा ततो चवित्वा ब्रह्मकायिकासु निब्बत्तित्वा तत्थ झानसुखं अनुभवित्वा ततो चुतो इदानि कामभवे निब्बत्तो, तस्मा तं झानं सम्भावेन्तो ‘‘तादिसस्स नाम झानसुखस्स लाभी भगवा’’ति तेन गुणेन भगवन्तं अभित्थवन्तो ‘‘सम्बाधे वता’’ति गाथं अभासि. अथस्स भगवा यथा नाम अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतराजं उपादाय सासपो न किञ्चि होति, एवं अनन्तापरिमेय्यबुद्धगुणे उपादाय रूपावचरपठमज्झानं न किञ्चि होतीति दस्सेन्तो ‘‘ये सति’’न्तिआदिना अनुत्तरगुणाधिगमं पवेदेसि. तत्थ सतिन्ति विपस्सनासतिया सद्धिं अरियमग्गसतिं. सुसमाहिताति लोकियसमाधिना चेव लोकुत्तरसमाधिना च सुट्ठु समाहिता. ते हि अच्चन्तं सुसमाहिता, न झानमत्तलाभिनो अकुप्पधम्मत्ता. केचि ‘‘कम्मन्ते सुसमाहिता’’ति पाठं वत्वा ‘‘मग्गसमाहिता’’ति अत्थं वदन्ति.
पञ्चालचण्डसुत्तवण्णना निट्ठिता.
८. तायनसुत्तवण्णना
८९. अतीतजातियं सयंकारवसेन ताय दिट्ठिया उप्पादितत्ता पुब्बे तित्थकरो. तेनाह ‘‘दिट्ठि उप्पादेत्वा’’ति. अपरे आहु ‘‘अयं मे सत्थाति गहणवसेन तित्थकरो अस्स अत्थीति पुब्बे तित्थकरो, अतीतत्तभावे तित्थकरसावको’’ति. ते ‘‘दिट्ठिं उप्पादेत्वाति तस्स सत्थुनो दिट्ठिं आदाय गहेत्वाति अत्थो’’ति वदन्ति. तित्थं नाम द्वासट्ठि दिट्ठियो तब्बिनिमुत्तस्स मिच्छावादस्स अभावतो. तित्थे नियुत्ताति तित्थिका, ते एव तित्थियाति वुत्ता क-कारस्स य-कारं कत्वा. तस्साति यथावुत्तस्स कल्याणकम्मस्स. निस्सन्देनाति फलभावेन. वीरियप्पटिसंयुत्ताति वीरियदीपनाति अत्थो.
अनियमितआणत्तीति अनियमविधानं अनियमवसेन विधिवचनं. तण्हासोतन्ति तण्हाप्पबन्धनं. नीहराति समेहि पजह. एकत्तन्ति एकग्गं. तेनाह ‘‘झान’’न्ति. उपपज्जतीति न उप्पज्जति न पापुणातीति आह ‘‘न पटिलभती’’ति. न ओसक्केय्याति न सङ्कोचं आपज्जेय्य. घरावासतो परिब्बजनं परितो अपगमोति परिब्बजो. पब्बजितवतसमादानस्स अदळ्हताय च तत्थ च असक्कच्चकिरियाय सिथिलगहिता. अतिरेकन्ति पब्बज्जाय पुरिमकालतोपि अधिकं. उपरीति उपरूपरि. दुक्कटं अकतमेव सेय्योति दुच्चरितं नाम सब्बेन सब्बं अकतमेव हितावहं.
यं किञ्चीति यं किञ्चि कम्मं. सिथिलं कतन्ति असक्कच्चकारिताय सिथिलं कत्वा पवत्तितं. एवरूपमेवाति एवरूपं परामट्ठसामञ्ञसदिसमेव पच्छानुतापचरियादिपटिभागतो. संकिलिट्ठमेव तण्हासंकिलेसउपक्किलिट्ठत्ता. आसङ्कितपरिसङ्कितन्तिआदितो समन्ततोपि परेहि सङ्कितं. ब्रह्मचरियस्स आदि आदिब्रह्मचरियं, तत्थ नियुत्ताति आदिब्रह्मचरियिका, मग्गब्रह्मचरियस्स पुब्बभागपटिपदाति अत्थो. तेनाह ‘‘मग्गब्रह्मचरियस्स आदिभूता’’ति. पुब्बपधानभूताति पठमारम्भभूता.
तायनसुत्तवण्णना निट्ठिता.
९. चन्दिमसुत्तवण्णना
९०. विमाने गहिते तंनिवासीपि गहितो होतीति वुत्तं ‘‘चन्दविमानवासी देवपुत्तो’’ति. सब्बधीति सब्बस्मा दुग्गट्ठाना विप्पमुत्तोसि भगवा त्वं, तस्मा मय्हम्पि इतो सम्बाधट्ठानतो विप्पमोक्खं करोहीति अधिप्पायो. तेनाह ‘‘तस्स मे सरणं भवा’’ति. लोकानुकम्पकाति सब्बस्स लोकस्स अनुग्गहा, तस्मा तुय्हम्पि एतस्सपि चन्दस्स. तादिसा एवाति समाना एव. पमुञ्चसीति पमुञ्चित्थ. तेनाह ‘‘अतीतत्थे वत्तमानवचन’’न्ति.
चन्दिमसुत्तवण्णना निट्ठिता.
१०. सूरियसुत्तवण्णना
९१. अन्धभावकरणेति लोकस्स अन्धकरणेतिपि अपरे. तेनाह ‘‘तमसी’’ति. विरोचतीति विज्जोतति. कामं देवपुत्तवसेन पठमं देवता उद्धटा, राहुनो पन पयोगो तस्स विमानेति आह ‘‘मण्डलीति मण्डलसण्ठानो’’ति. वदति तदा मुखेन गहितत्ता. मुखेन गहणञ्चेत्थ ‘‘गिली’’ति अधिप्पेतं, न च अज्झोहरणन्ति आह ‘‘गिलीति वदती’’ति. इदानि तस्स मुखेन गहणसमत्थतं दस्सेतुं ‘‘राहुस्स ही’’तिआदि वुत्तं. सोतिआदि तस्स चन्दिमसूरियानं गहणकारणदस्सनं. अधिवत्था देवताति चन्दिमसूरियानं परिचारकदेवता. वेगन्ति जवं. सो हि केनचि अभिमुखं अतिदुन्निवारो कम्मनियामसिद्धो. मत्थकन्ति कण्ठस्स उपरिमदेसं. केचि ‘‘सीसमत्थकमेवा’’ति वदन्ति. निक्खमेय्य वेगस्स तिक्खसीघथामभावतो. आकड्ढित्वाति अत्तनो गमनदिसाभिमुखं आकड्ढित्वा. नन्ति राहुं. उद्धं उल्लङ्घेतुकामम्पि ओनमेय्य. पदद्वयेनपि सो महासरीरो महाबलो, चन्दिमसूरियानं पन गमनवेगो तेन सब्बथापि दुन्निवारियोवाति दस्सेति. विमानेनाति चन्दग्गहे चन्दविमानेन, सूरियग्गहे सूरियविमानेन उभिन्नम्पि विमानेन सहेव. अमावासियञ्हि द्वे विमानानि योजनमत्तन्तरितानि हुत्वा सहेव पवत्तन्ति. यदि द्वेपि देवपुत्ता सोतापत्तिफलं पत्ता, अथ कस्मा सूरियसुत्ते एव ‘‘पजं मम’’न्ति वुत्तं, न चन्दसुत्तेति? ‘‘सो च किर न चिरस्सेव ततो चवित्वा अञ्ञत्थ निब्बत्तो, अञ्ञा एव च देवता तत्थ वसि, यस्मिं चन्दग्गहे भगवा तं गाथं अभासि, न तथा सूरियो, अपरभागे पन तत्थपि कालेन कालं राहुग्गहो होती’’ति वदन्ति.
सूरियसुत्तवण्णना निट्ठिता.
पठमवग्गवण्णना निट्ठिता.