१०. सूरियसुत्तवण्णना

९१. अन्धभावकरणेति लोकस्स अन्धकरणेतिपि अपरे. तेनाह ‘‘तमसी’’ति. विरोचतीति विज्जोतति. कामं देवपुत्तवसेन पठमं देवता उद्धटा, राहुनो पन पयोगो तस्स विमानेति आह ‘‘मण्डलीति मण्डलसण्ठानो’’ति. वदति तदा मुखेन गहितत्ता. मुखेन गहणञ्चेत्थ ‘‘गिली’’ति अधिप्पेतं, न च अज्झोहरणन्ति आह ‘‘गिलीति वदती’’ति. इदानि तस्स मुखेन गहणसमत्थतं दस्सेतुं ‘‘राहुस्स ही’’तिआदि वुत्तं. सोतिआदि तस्स चन्दिमसूरियानं गहणकारणदस्सनं. अधिवत्था देवताति चन्दिमसूरियानं परिचारकदेवता. वेगन्ति जवं. सो हि केनचि अभिमुखं अतिदुन्निवारो कम्मनियामसिद्धो. मत्थकन्ति कण्ठस्स उपरिमदेसं. केचि ‘‘सीसमत्थकमेवा’’ति वदन्ति. निक्खमेय्य वेगस्स तिक्खसीघथामभावतो. आकड्ढित्वाति अत्तनो गमनदिसाभिमुखं आकड्ढित्वा. नन्ति राहुं. उद्धं उल्लङ्घेतुकामम्पि ओनमेय्य. पदद्वयेनपि सो महासरीरो महाबलो, चन्दिमसूरियानं पन गमनवेगो तेन सब्बथापि दुन्निवारियोवाति दस्सेति. विमानेनाति चन्दग्गहे चन्दविमानेन, सूरियग्गहे सूरियविमानेन उभिन्नम्पि विमानेन सहेव. अमावासियञ्हि द्वे विमानानि योजनमत्तन्तरितानि हुत्वा सहेव पवत्तन्ति. यदि द्वेपि देवपुत्ता सोतापत्तिफलं पत्ता, अथ कस्मा सूरियसुत्ते एव ‘‘पजं मम’’न्ति वुत्तं, न चन्दसुत्तेति? ‘‘सो च किर न चिरस्सेव ततो चवित्वा अञ्ञत्थ निब्बत्तो, अञ्ञा एव च देवता तत्थ वसि, यस्मिं चन्दग्गहे भगवा तं गाथं अभासि, न तथा सूरियो, अपरभागे पन तत्थपि कालेन कालं राहुग्गहो होती’’ति वदन्ति.

सूरियसुत्तवण्णना निट्ठिता.

पठमवग्गवण्णना निट्ठिता.