५. उज्झानसञ्ञिसुत्तवण्णना

३५. उज्झानवसेन पवत्ता सञ्ञा एतेसं अत्थि, उज्झानवसेन वा सञ्जानन्तीति उज्झानसञ्ञी. कारयेति कतानं परियन्तं कारयेति अत्थो. परियन्तकारितन्ति परिच्छिन्नकारितं परिमितवचनन्ति अत्थो. पंसुकूलादिपटिपक्खनयेन पत्तुण्णदुकुलादि वुत्तं. नामं गहितन्ति एतेन ‘‘उज्झानसञ्ञिका’’ति एत्थ क-सद्दो सञ्ञायन्ति दस्सेति.

अञ्ञेनाकारेन भूतन्ति अत्तना पवेदियमानाकारतो अञ्ञेन असुद्धेन आकारेन विज्जमानं उपलब्भमानं अत्तानं. वञ्चेत्वाति पलम्भेत्वा. तस्स कुहकस्स. तं चतुन्नं पच्चयानं परिभुञ्जनं. परिजानन्तीति तस्स पटिपत्तिं परिच्छिज्ज जानन्ति. कारकोति सम्मापटिपत्तिया कत्ता, सम्मापटिपज्जिताति अत्थो.

इदन्ति लिङ्गविपल्लासेन वुत्तं, अयन्ति अत्थो. धम्मानुधम्मपटिपदाति निब्बानधम्मस्स अनुच्छविकताय अनुधम्मभूता पटिपदा. पटिपक्खविधमने असिथिलताय दळ्हा. भासितमत्तेन च सवनमत्तेन चाति एत्थ च-सद्दो विसेसनिवत्तिअत्थो. तेन भासितस्स सुतस्स च सम्मापटिपत्तिविसेसं निवत्तेति. लोकपरियायन्ति लोकस्स परिविधमनं उप्पादनिरोधवसेन सङ्खारानं परावुत्तिं. तेनाह ‘‘सङ्खारलोकस्स उदयब्बय’’न्ति. स्वायमत्थो सच्चपटिवेधेनेव होतीति आह ‘‘चतुसच्चधम्मञ्च अञ्ञाया’’ति. एवं न कुब्बन्तीति अत्तनि विज्जमानम्पि गुणं अनावीकरोन्तो ‘‘यथा तुम्हे वदथ, एवं न कुब्बन्ती’’ति अविज्जमानतं ब्याकरोतीति अत्थो.

अकारकमेवाति दोसं अकारकमेव. अच्चयस्स पटिग्गण्हनं नाम अधिवासनं, एवं सो देसकेन देसियमानो ततो विगतो नाम होति. तेनाह ‘‘पटिग्गण्हातूति खमतू’’ति.

सभावेनाति सभावतो. एकसदिसन्ति परेसं चित्ताचारं जानन्तम्पि अजानन्तेहि सह एकसदिसं करोन्ता. परतोति पच्छा. कथाय उप्पन्नायाति ‘‘कस्सच्चया न विज्जन्ती’’तिआदिकथाय पवत्तमानाय ‘‘तथागतस्स बुद्धस्सा’’तिआदिना बुद्धबलं बुद्धानुभावं दीपेत्वा. खमिस्सामीति अच्चयदेसनं पटिग्गण्हिस्सामि. तप्पटिग्गहो हि इध खमनन्ति अधिप्पेतं, सत्था पन सब्बकालं खमो एव.

कोपो अन्तरे चित्ते एतस्साति कोपन्तरो. दोसो गरु गरुकातब्बो अस्साति दोसगरु. ‘‘पटिमुच्चती’’ति वा पाठो, अयमेव अत्थो. अच्चायिककम्मन्ति सहसा अनुपधारेत्वा किरिया. नो चिधाति नो चे इध. इधाति निपातमत्तं. अपगतं अपनीतं. दोसो नो चे सिया, तेन परियायेन यदि अपराधो नाम न भवेय्याति. न सम्मेय्युं न वूपसमेय्युं. कुसलोति अनवज्जो.

धीरो सतोति पदद्वयेन वट्टछिन्दं आह. को निच्चमेव पण्डितो नामाति अत्थोति ‘‘कस्सच्चया’’तिआदिकाय पुच्छागाथाय अत्थो. दीघमज्झिमसंवण्णनासु तथागत-सद्दो वित्थारतो संवण्णितोति आह ‘‘एवमादीहि कारणेहि तथागतस्सा’’ति. बुद्धत्तादीहीति आदि-सद्देन ‘‘बोधेता पजाया’’तिआदिना (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७) निद्देसे आगतकारणानि सङ्गय्हन्ति. विमोक्खं वुच्चति अरियमग्गो, तस्स अन्तो अग्गफलं, तत्थ भवा पण्णत्ति, तस्सा वसेन. एवं बुद्धबलं दीपेति. इदानि खित्तं सङ्खेपेन संहरापितं होतीति दस्सेति.

उज्झानसञ्ञिसुत्तवण्णना निट्ठिता.