१०. दुतियपज्जुन्नधीतुसुत्तवण्णना
४०. बुद्धञ्च धम्मञ्च नमस्समानाति बुद्धसुबुद्धतं धम्मसुधम्मतञ्च ञत्वा तदुभयं नमस्समाना. यस्मा बुद्धे च धम्मे च पसन्नो सङ्घे च पसन्नो एव होति तस्स सुप्पटिपत्तिया विजाननतो, तस्मा सो अत्थो गाथाय च-सद्दसङ्गहितोति दस्सेन्तो ‘‘च-सद्देन सङ्घञ्चा’’ति आह अत्थवतियोति लोकियलोकुत्तरअत्थसङ्गहिता लोकियकुसललोकुत्तरमग्गसङ्गण्हनतो. यं धम्मं सा अभासीति यं तुम्हाकं धम्मं पटिविज्झित्वा ठिता, सा महाकोकनदा अत्तनो बलानुरूपं अभासि. बहुनाति नानप्पकारेन. परियायेनाति कारणेन. तादिसोति तथारूपो तथापटिविद्धसच्चो अत्थधम्मादीसु कुसलो एकेकं पदम्पि उदाहरणहेतुनिगमनानि नीहरन्तो आचिक्खति देसेति पञ्ञपेति पठपेति विवरति विभजति उत्तानीकरोति. तेनाह ‘‘अयं भगवा’’तिआदि. एतेन अतिविय वित्थारक्खमो सुगतधम्मोति दस्सेति. परियापुटन्ति परिवत्तितं. एवं वित्थारक्खमं धम्मं यस्मा देवधीता ‘‘संखित्तमत्थं लपयिस्सामी’’ति अवोच, तस्मा वुत्तं ‘‘तस्सत्थ’’न्तिआदि.
दुतियपज्जुन्नधीतुसुत्तवण्णना निट्ठिता.
सतुल्लपकायिकवग्गवण्णना निट्ठिता.