५. आदित्तवग्गो
१. आदित्तसुत्तवण्णना
४१. सीसन्ति देसनापदेसो, देसनाय अञ्ञेसुपि वत्तब्बेसु कस्सचिदेव सीसभागेन अपदिसनं. तेनाह ‘‘रागादीही’’तिआदि. दानेनाति अत्तनो सन्तकस्स परेसं परिच्चजनेन. तं पन परिच्चजनं चेतनाय होतीति आह ‘‘दानचेतनाया’’ति दानपुञ्ञचेतनाति दानमया पुञ्ञचेतना दायकस्सेव होति तंसन्ततिपरियापन्नत्ता. नीहतभण्डकन्ति आदित्तगेहतो बहि निक्खामितं भण्डकं. एतन्ति ‘‘दिन्नं होती’’तिआदिवचनं. अदिन्नेति दानमुखे अनियुञ्जिते भोगे. ‘‘अन्तेना’’ति जीवितस्स अन्तो अधिप्पेतोति आह ‘‘मरणेना’’ति. ममाति परिग्गहितत्ता परिग्गहा, भोगा. तेपि केनचि आकारेन विनासं अनुपगता मरणेन पहीयन्ति नामाति वुत्तं ‘‘चोरादीनं वसेन अविनट्ठभोगे’’ति. सोभना अग्गभूता रूपादयो एत्थाति सग्गो, तं सग्गं.
आदित्तसुत्तवण्णना निट्ठिता.
२. किंददसुत्तवण्णना
४२. द्वे तीणि भत्तानि अभुत्वाति द्वे तयो वारे भत्तानि अभुञ्जित्वा. उट्ठातुं न सक्कोतीति उट्ठातुम्पि न सक्कोती, पगेव अञ्ञं सरीरेन कातब्बकिच्चं दुब्बलभावतो. दुब्बलोपि हुत्वाति भुञ्जनतो पुब्बे दुब्बलो हुत्वा बलसम्पन्नो होति. एवं ब्यतिरेकतो अन्वयतो च आहारस्स सरीरे बलवतं आह. यस्मा अन्नदो दायको पटिग्गाहकस्स बलदो होति, तस्मा सो आयतिं अत्तनो सरीरे बलदो अविनासवसेन बलस्स रक्खको च होति. तेनाह भगवा – ‘‘बलं खो पन दत्वा बलस्स भागी होती’’ति (अ. नि. ५.३७) सेसपदेसुपि एसेव नयो. सुरूपोपीति अभिरूपोपि. विरूपो होतीति बीभच्छरूपो कोपीनस्स अच्छन्नत्ता. इदञ्च यानन्ति सामञ्ञतो वुत्तं. उपाहनाति सरूपतो दस्सेति. अदुक्खप्पत्तो हुत्वा याति वत्तति एतेनाति यानन्ति छत्तादीनम्पि यानभावो वुत्तो. तेनाह ‘‘यानदो सुखदो होती’’ति. चक्खुदो नाम होति चक्खुना कातब्बकिच्चे सहकारीकारणभावतो दीपस्स.
‘‘सब्बेसंयेव बलादीनं दायको होती’’ति सङ्खेपतो वुत्तं अत्थं वित्थारतो दस्सेतुं ‘‘द्वे तयो गामे’’तिआदि वुत्तं. निसज्जादिवसेन पतिस्सयितब्बतो पतिस्सयो, विहारो. पक्खित्तं विय होति परिस्समस्स विनोदितत्ता. बहि विचरन्तस्साति पतिस्सयं अलभित्वा बहि विवटङ्गणे विचरन्तस्स. झायतीति झायन्तं होति, किलमतीति अत्थो. सीतुण्हादिविरोधिपच्चयवसेन ससन्ताने विसभागसन्तति, तब्बिपरियायतो सभागसन्तति वेदितब्बा. सुखं नाम दुक्खपच्चयपरिहारतो सुखपच्चयुप्पन्नतो च होति, तदुभयं पतिस्सयवसेन लभतीति दस्सेन्तो ‘‘बहि विचरन्तस्स पादे’’तिआदिमाह. धम्मपीतिसुखन्ति धम्मपच्चवेक्खणेन उप्पन्नपीतिसुखं. उपसमसुखन्ति किलेसानं वूपसमेन पवत्तसुखं. निवातं पिहितवातपानं पतिस्सयं पविसित्वा द्वारं पिधाय ठितस्स अन्धकारो होतीति वुत्तं ‘‘कूपे ओतिण्णो विय होती’’ति. तेनाह ‘‘मञ्चपीठादीनि न पञ्ञायन्ती’’ति. तयिदं बहिसमापन्नपरिस्समदोसेन, न च पतिस्सयदोसेन. तेनाह ‘‘मुहुत्त’’न्तिआदि.
न मरति एतेनाति अमरणं, निब्बानाधिगमादयो. तस्स दानं धम्मूपदेसो, तं देति. तेनाह ‘‘यो धम्मं अनुसासती’’ति. तयिदं धम्मानुसासनं कथं होतीति आह ‘‘अट्ठकथ’’न्तिआदि. अट्ठकथं कथेतीति अविवटपाठस्स पाळिया अत्थसंवण्णनं करोतीति अत्थो. अनधीतिनो पन पाळिं वाचेति. तत्थ तत्थ गतट्ठाने पुच्छितपञ्हं विस्सज्जेति, अयं ताव गन्थधुरो, पटिपत्तिवासधुरे पन कम्मट्ठानं आचिक्खति, उभयेसम्पि धम्मस्सवनं करोति. सब्बदानन्ति यथावुत्तआमिसदानं अभयदानं. धम्मदानन्ति धम्मदेसना. धम्मरतीति समथविपस्सनाधम्मे अभिरति. धम्मरसोति सद्धम्मसन्निस्सयं पीतिपामोज्जं.
किंददसुत्तवण्णना निट्ठिता.
३. अन्नसुत्तवण्णना
४३. पत्थेन्तीति पिहेन्ति. यत्थस्स उपगमनं लोके पाकटतरं अहोसि, ते उदाहरणवसेन दस्सेन्तो ‘‘चित्तगहपतिसीवलित्थेरादिके विया’’ति आह. अन्नन्ति अन्नसञ्ञितो चतुब्बिधोपि पच्चयो. सब्बेपि दायके एकज्झं गहेत्वा सामञ्ञतो एकवसेन ‘‘दायकमेवा’’ति वुत्तं, यथा चाह ‘‘को नाम सो यक्खो, यं अन्नं नाभिनन्दती’’ति? तत्थ यक्खोति सत्तो. सामञ्ञजोतना च नाम यस्मा पुथुअत्थविसया, तस्मा ‘‘ये नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा. तमेव अन्नं भजती’’ति वुत्तं. तत्थ म-कारो पदसन्धिकरो, ते एवाति अत्थो. दायकं अपरिच्चजनमेव अनुगच्छति चक्कं विय कुब्बरं.
अन्नसुत्तवण्णना निट्ठिता.
४. एकमूलसुत्तवण्णना
४४. पतिट्ठट्ठेन अविज्जासङ्खातं एकं मूलं एतिस्साति एकमूला. तं एकमूलं. यथा संयोजनीयेसु अस्सादानुपस्सनावसेन तण्हासमुप्पादो, एवं तण्हाभिभववसेन अनवबोधोति अविज्जा तण्हाय मूलं, तण्हा च अविज्जाय मूलं. अयञ्हि नयो उपनिस्सयतावसेन वुत्तो, सहजातवसेन चायं अञ्ञमञ्ञं मूलभावो पाकटोयेव. इध पन इमिस्सं गाथायं अधिप्पेता ‘‘एकमूल’’न्ति सा तण्हा. तत्थ या भवतण्हा, सा सस्सतदिट्ठिवसेन आवट्टति परिवत्तति, विभवतण्हा उच्छेददिट्ठिवसेन, एवं द्विरावट्टं. सहजातकोटियाति सहजातकोटियापि, पगेव सम्मुय्हं आपन्नस्स पन वत्तमानाय तण्हाय बलवभावेन मलीनता सिया. उपनिस्सयकोटियाति उपनिस्सयकोटियाव सहजातकोटिया असम्भवतो. पत्थरणट्ठानाति वित्थता हुत्वा पवत्तिट्ठानभूमि. तेनाह ‘‘तेसु सा पत्थरती’’ति. समुद्दनट्ठेन समुद्दो. उत्तरितुं असक्कुणेय्यताय पताय अलं परियत्तोति पातालो, अयं पन पातालो वियाति पातालो. तेनाह ‘‘अप्पतिट्ठट्ठेना’’ति. अगाधगम्भीरतायाति अत्थो.
एकमूलसुत्तवण्णना निट्ठिता.
५. अनोमसुत्तवण्णना
४५. अनोमनामन्ति अनूननामं. गुणनेमित्तिकानि एव हि भगवतो नामानि. गुणानञ्चस्स परिपुण्णताय अनूननामन्ति आह ‘‘सब्बगुणसमन्नागतत्ता’’तिआदि. अपिच तथा तेविज्जो, छळभिञ्ञोतिआदीनि नामानि अनोमनामानि न होन्ति परिच्छिन्नविसयत्ता, भगवतो पन सत्था, सब्बञ्ञू, सम्मासम्बुद्धोतिआदीनि नामानि अनोमनामानि नाम महाविसयत्ता अनूनभावतो. तेनाह ‘‘अवेकल्लनाम’’न्ति. खन्धन्तरादयोति खन्धविसेसादिके. ञाणेन याथावतो अरणीयट्ठेन अत्थे. अन्वयपञ्ञाधिगमायाति लोकुत्तरपञ्ञापटिलाभाय. पटिपदन्ति समथविपस्सनापटिपदं. किलेसकामानं वसेन अल्लीयितब्बट्ठेन कामा एव आलयो. अतीतकालेयेव कमनतं गहेत्वा वुत्तं ‘‘कममान’’न्ति. न एतरहि तदभावतोति आह ‘‘अतीतं पन उपादाय इदं वुत्त’’न्ति. महानुभावतादिना महन्तानं.
अनोमसुत्तवण्णना निट्ठिता.
६. अच्छरासुत्तवण्णना
४६. ‘‘अच्छरागणसङ्घुट्ठ’’न्ति गाथा देवपुत्तेन येनाधिप्पायेन गायिता, सो अनुपुब्बिकथाय विना न पञ्ञायतीति तं आगमनतो पट्ठाय कथेन्तो ‘‘अयं किर देवपुत्तो’’तिआदिमाह. तत्थ सासनेति इमस्सेव सत्थुसासने. कम्माकम्मन्ति कम्मविनिच्छयं. अत्थपुरेक्खारताय अप्पकिच्चताय च सल्लहुकवुत्तिको. सयनस्स कोट्ठासोति दिवसं पुरिमयामञ्च भावनानुयोगवसेन किलन्तकायस्स समस्सासनत्थं सेय्याय उपगमनभागो अनुञ्ञातो.
अब्भन्तरेति कुच्छियं भत्तस्स परित्तताय सत्थकवाताति तिक्खभावेन सत्थका विय कन्तनका वाता. धुरस्मिंयेवाति किलेसमारेन युद्धे एव. विमुत्तायतनसीसे ठत्वा धम्मं देसेन्तो वा. उपनिस्सयमन्दताय अपरिपक्कञाणताय आसवक्खयं अप्पत्तो कालं कत्वाति योजना. उपरि ठितन्ति परिक्खारभावेन दिब्बदुस्सूपरि ठितं. तथेव अट्ठासीति ताहि तथा वुत्तेपि यथा ततो पुब्बे, तथेव अट्ठासि. सुवण्णपट्टन्ति निब्बुद्धे पटिजिनित्वा लद्धब्बसुवण्णपट्टं. वीतिक्कमस्स अकतत्ता असम्भिन्नेनेव सीलेन. यस्मा तस्मिं सत्थु सन्तिकं आगच्छन्ते तापि तेन सद्धिं आगमंसु तस्मा ‘‘अच्छरासङ्घपरिवुतो’’ति वुत्तं.
सङ्घोसितन्ति सङ्गम्म घोसितं, तत्थ तत्थ अच्छरानं गीतसद्दवसेन घोसितं. पिसाचगणं कत्वा वदति अच्छन्दरागताय. नियामचित्ततायाति सम्मत्तनियामे निन्नचित्तताय. गरुभावेनाति तासं वसे अवत्तनतो गरुट्ठानभावेन. यात्राति निब्बानं पति यात्रा. तं पन वट्टतो निग्गमनं होतीति आह ‘‘कथं निग्गमनं भविस्सती’’ति.
अतिसल्लेखतेवाति अतिविय किलेसानं सल्लेखितवुत्तिको. अकताभिनिवेसस्साति भावनमननुयुत्तस्स अनारद्धविपस्सकस्स. कारकस्साति सुगतोवादकारकस्स सम्मापटिपज्जतो. सुञ्ञताविपस्सनन्ति सुञ्ञतादीपनं विपस्सनं दुच्चरिततण्हाय दूरीकरणेन एकविहारिताय. एको मग्गो अस्साति लोकुत्तरमग्गो एव अस्स अनागतो, पुब्बभागमग्गो पन कतपरिचयोति अत्थो.
कायवङ्कादीनन्ति कायदुच्चरितादीनं अभावतो समुच्छिन्दनेन अनुपलब्भनतो. नत्थि एत्थ भयं, अस्मिं वा अधिगते पुग्गलस्स नत्थि भयन्ति अभयं नाम. संसारकन्तारं अतिक्कमित्वा निब्बानसङ्खातं खेमं अमतट्ठानं गमने सुगतसारथिना सुसज्जितयानभावतो रथो अकूजनोति अट्ठङ्गिको मग्गोव अधिप्पेतो. धम्मतो अनपेतताय अपरापरुप्पत्तिया च धम्मचक्केहि.
ओत्तप्पम्पि गहितमेव अविनाभावा. अपालम्बोति अवस्सयो. परिवारोति परिक्खारो अभिसङ्खरणतो. मग्गस्स करणट्ठाने धम्मो तप्परियापन्ना सम्मादिट्ठि. अनिच्चादिवसेनाति अनिच्चानुपस्सनादिवसेन. सोधितेसु वज्झमानेसु. भूमिलद्धवट्टन्ति भूमिलद्धसङ्खातं वट्टं. तत्थ विपस्सनाय पवत्तिट्ठानभावतो पञ्चक्खन्धा भूमि नाम, वट्टमयकम्मभावतो तत्थ उप्पज्जनारहं किलेसजातं भूमिलद्धवट्टं. परिजानमानाति परिच्छिन्दनवसेन समतिक्कमवसेन जानमाना पटिविज्झन्ती.
कस्मा देवपुत्तो सोतापत्तिफलेयेव पतिट्ठासि, ननु च सा देसना भगवता चतुमग्गप्पधानभावेन पवत्तिताति आह ‘‘यथा ही’’तिआदि.
अच्छरासुत्तवण्णना निट्ठिता.
७. वनरोपसुत्तवण्णना
४७. केसन्ति सामिवसेन वुत्तकसद्दो ‘‘धम्मट्ठा सीलसम्पन्ना’’ति एत्थ पच्चत्तबहुवचनवसेन परिणामेतब्बो. अत्थवसेन हि विभत्तिविपरिणामो. के जनाति एत्थ वा वुत्तकेसद्दो सीहविलोकननयेन आनेत्वा योजेतब्बोति आह ‘‘के धम्मट्ठा, के सीलसम्पन्ना’’ति? पुच्छतीति इमिना तत्थ कारणमाह. फलादिसम्पत्तिया आरमन्ति एत्थ सत्ताति आरामो. आरामे रोपेन्ति निप्फादेन्तीति आरामरोपा. वनीयति छायासम्पत्तिया भजीयतीति वनं. तत्थ यं उपवनलक्खणं वनं, तं आरामग्गहणेनेव गहितन्ति तपोवनलक्खणं, तं दस्सेन्तो ‘‘सीमं परिक्खिपित्वा’’तिआदिमाह. विसमेति उदकचिक्खल्लेन विसमे पदेसे. पानीयं पिवन्ति एत्थाति पपा, तं पपं. उदकं पीयति एत्थाति वा पपा. तळाकादीति आदि-सद्देन मातिकं सङ्गण्हाति.
इममत्थं सन्धायाति इमिना कम्मप्पथप्पत्तं पटिक्खिपति. अत्तना कतञ्हि पुञ्ञं अनुस्सरतो तं आरब्भ बहुं पुञ्ञं पसवति, न पन यथा कतं पुञ्ञं सयमेव पवड्ढति. तस्मिं धम्मे ठितत्ताति तस्मिं आरामरोपनादिधम्मे पतिट्ठितत्ता. तेनपि सीलेन सम्पन्नत्ताति तेन यथावुत्तधम्मे कतसीले ठत्वा चिण्णेन तदञ्ञेनपि कायवाचसिकसंवरलक्खणेन सीलेन समन्नागतत्ता. दस कुसला धम्मा पूरेन्ति दुच्चरितपरिवज्जनतो. सेसं वुत्तनयमेव.
वनरोपसुत्तवण्णना निट्ठिता.
८. जेतवनसुत्तवण्णना
४८. एसितगुणत्ता एसियमानगुणत्ता च इसी, असेक्खा सेक्खकल्याणपुथुज्जना च. इसीनं सङ्घो इसिसङ्घो. इसिसङ्घेन निसेवितं. तेनाह ‘‘भिक्खुसङ्घनिसेवित’’न्ति.
तं कारेन्तस्स गन्धकुटिपासादकूटागारादिवसेन सिनिद्धसन्दच्छायरुक्खलतावसेन भूमिभागसम्पत्तिया च अनञ्ञसाधारणं अतिरमणीयं तं जेतवनं चित्तं तोसेति, तथा अरियानं निवासभावेनपीति आह ‘‘एवं पठमगाथाय जेतवनस्स वण्णं कथेत्वा’’ति. तेनाह भगवा – ‘‘यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति (ध. प. ९८; थेरगा. ९९१). अपचयगामिचेतना सत्तानं विसुद्धिं आवहति कम्मक्खयाय संवत्तनतोति आह ‘‘कम्मन्ति मग्गचेतना’’ति. चतुन्नं अरियसच्चानं विदितकरणट्ठेन किलेसानं विज्झनट्ठेन च विज्जा. मग्गपञ्ञा सम्मादिट्ठीति आह ‘‘विज्जाति मग्गपञ्ञा’’ति. समाधिपक्खिका धम्मा सम्मावायामसतिसमाधयो. यथा हि विज्जापि विज्जाभागिया, एवं समाधिपि समाधिपक्खिको. सीलं एतस्स अत्थीति सीलन्ति आह ‘‘सीले पतिट्ठितस्स जीवितं उत्तम’’न्ति. दिट्ठिसङ्कप्पाति सम्मादिट्ठिसङ्कप्पा. तत्थ सम्मासङ्कप्पस्स सम्मादिट्ठिया उपकारभावेन विज्जाभावो वुत्तो. तथा हि सो पञ्ञाक्खन्धसङ्गहितोति वुच्चति. यथा च सम्मासङ्कप्पादयो पञ्ञाक्खन्धसङ्गहिता, एवं वायामसतियो समाधिक्खन्धसङ्गहिताति आह ‘‘वायामसतिसमाधयो’’ति. धम्मोति हि इध समाधि अधिप्पेतो ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३; म. नि. ३.१९७; सं. नि. ५.३७८) विय. वाचाकम्मन्ताजीवाति सम्मावाचाकम्मन्ताजीवा. मग्गपरियापन्ना एव हेते सङ्गहिता. तेनाह ‘‘एतेन अट्ठङ्गिकमग्गेना’’ति.
उपायेन विधिना अरियमग्गो भावेतब्बो. तेनाह ‘‘समाधिपक्खियधम्म’’न्ति. सम्मासमाधिपक्खियं विपस्सनाधम्मञ्चेव मग्गधम्मञ्च. ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म. नि. ३.१३६) हि वचनतो सम्मादिट्ठिआदयो मग्गधम्मा सम्मासमाधिपरिक्खारा. विचिनेय्याति वीमंसेय्य, भावेय्याति अत्थो. तत्थाति हेतुम्हि भुम्मवचनं. अरियमग्गहेतुका हि सत्तानं विसुद्धि. तेनाह ‘‘तस्मिं अरियमग्गे विसुज्झती’’ति. पञ्चक्खन्धधम्मं विचिनेय्याति पच्चुप्पन्ने पञ्चक्खन्धे विपस्सेय्य. तेसु विपस्सियमानेसु विपस्सनाय उक्कंसगताय यदग्गेन दुक्खसच्चं परिञ्ञापटिवेधेन पटिविज्झीयति, तदग्गेन समुदयसच्चं पहानपटिवेधेन पटिविज्झीयति, निरोधसच्चं सच्छिकिरियापटिवेधेन, मग्गसच्चं भावनापटिवेधेन पटिविज्झीयतीति एवं तेसु चतूसु सच्चेसु विसुज्झतीति इमस्मिं पक्खे निमित्तत्थे एव भुम्मं, तेसु सच्चेसु पटिविज्झियमानेसूति अत्थो.
अवधारणवचनन्ति ववत्थापनवचनं, अवधारणन्ति अत्थो. ‘‘सारिपुत्तोवा’’ति च अवधारणं सावकेसु सारिपुत्तोव सेय्योति इममत्थं दीपेति तस्सेवुक्कंसभावतो. किलेसउपसमेनाति इमिना महाथेरस्स तादिसो किलेसवूपसमोति दस्सेति. तस्स सावकविसये पञ्ञाय पारमिप्पत्ति अहोसि. यदि एवं ‘‘योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति इदं तेसं बुद्धानं ञाणविसये पञ्ञापारमिप्पत्तानं वसेनेव वुत्तन्ति दट्ठब्बं. अवधारणम्पि विमुत्तिया नानत्ता तीहि विमुत्तीहि पारङ्गते सन्धायेतं वुत्तं. तेनाह – ‘‘पारं गतोति निब्बानं गतो’’तिआदि. न थेरेन उत्तरितरो नाम अत्थि लब्भति, लब्भति चे, एवमेव लब्भेय्याति अधिप्पायो.
जेतवनसुत्तवण्णना निट्ठिता.
९. मच्छरिसुत्तवण्णना
४९. मच्छरिनोति मच्छेरवन्तो मच्छेरसमङ्गिनोति आह ‘‘मच्छेरेन समन्नागता’’ति. मच्छेरं मच्छरियन्ति अत्थतो एकं. न वन्दतीति वन्दनमत्तम्पि न करोति, कुतो दानन्ति अधिप्पायो. उपट्ठानं कातुन्ति मधुरपटिसन्थारं करोतीति योजना. इदं ताव मुदुमच्छरियं न हदयं विय अत्तानं दस्सेन्तस्स मच्छरियन्ति कत्वा. किं तुय्हं पादा रुज्जन्ति ननु तुय्हंयेव आगतगमनेसु पादा रुज्जन्ति, किन्ते इमे छिन्दन्तीति अधिप्पायो. सामीचिम्पि न करोति कुतो दानन्ति अधिप्पायो. यथाकम्मं तंतंगतियो अरन्ति उपगच्छन्तीति अरिया, सत्ता. इमे पन कुच्छिता अरियाति कदरिया, थद्धमच्छरिनो. मच्छरियसदिसञ्हि कुच्छितं सब्बहीनं नत्थि सब्बगुणाभिभूतत्ता भोगसम्पत्तिआदिसब्बसम्पत्तीनं मूलभूतस्स दानस्स निसेधतो. इतिआदीहि वचनेहि. अत्तनो उपघातकोति मच्छरियानुयोगेन कुसलधम्मानं गतिसम्पत्तिया च विनासको.
पुञ्ञपापवसेन सम्परेतब्बतो उपगन्तब्बतो सम्परायो, परलोको. कामगुणरतीति कामगुणसन्निस्सयो अस्सादो. खिड्डाति कायिकखिड्डा वाचसिकखिड्डा चेतसिकखिड्डाति एवं तिविधा. एस विपाकोति चोळादीनं किच्छलाभोति एस एवरूपो विपाको. यमलोकन्ति परलोकं. उपपज्जरेति एत्थ इति-सद्दो पकारत्थो. तेन पाळियं वुत्तं निरयं तिरच्छानयोनिञ्च सङ्गण्हाति.
याचन्ति नाम अरिययाचनाय. वुत्तञ्हेतं ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (जा. १.७.५९). ये संविभजन्ति, ते वदञ्ञू नाम ञत्वा कत्तब्बकरणतो. विमानप्पभायाति निदस्सनमत्तं, उय्यानकप्परुक्खप्पभाहि देवतानं वत्थाभरणसरीरप्पभाहिपि सग्गे पकासेन्तियेव. पकासन्तीति वा पाकटा होन्ति, न अपायलोके विय अपाकटाति अत्थो. परसम्भतेसूति सयं सम्भतं अनापज्जित्वा परेहेव सम्भरितेसु सुखूपकरणेसु. तेनाह पाळियं ‘‘वसवत्तीव मोदरे’’ति, परनिम्मितभोगेसु वसवत्ती देवपुत्ता विय सुखसमङ्गिताय मोदन्तीति अत्थो. एवं वुत्तसम्परायोति एते सग्गाति एवं हेट्ठा वुत्तसम्परायो. उभिन्नन्ति एतेसं यथावुत्तानं उभिन्नं दुक्कटसुकटकम्मकारीनं. ततो चवित्वा ततो निरयसग्गादितो चवित्वा मनुस्सेसु निब्बत्तति. तेसु यो मच्छरी मनुस्सेसु निब्बत्तो, सो दलिद्दो हुत्वा पुब्बचरियवसेन मच्छरीयेव होन्तो दारादिभरणत्थं मच्छकच्छपादीनि हन्त्वा पुनपि निरये निब्बत्तो. इतरो सुद्धासयो समिद्धो हुत्वा पुब्बचरियावसेन पुनपि पुञ्ञानि कत्वा सग्गे निब्बत्तेय्य. तेनाह ‘‘पुन सम्परायेपि दुग्गतिसुगतियेव होती’’ति.
मच्छरिसुत्तवण्णना निट्ठिता.
१०. घटीकारसुत्तवण्णना
५०. ‘‘उपपन्नासे’’ति से-कारागमं कत्वा निद्देसो, ‘‘उपपन्ना’’इच्चेव अत्थोति आह ‘‘निब्बत्तिवसेन उपगता’’ति. अत्तनो सम्पत्तितो अविहानतो अविहा, तेसं ब्रह्मलोको अविहाब्रह्मलोको, तस्मिं. उपपत्तिसमनन्तरमेवाति पठमकोट्ठासे एव. अरहत्तफलविमुत्तियाति असेक्खविमुत्तिया. सेक्खविमुत्तिया पन अविहूपपत्तितो पगेव विमुत्ता. मानुसं देहं समतिक्कमन्ति चित्तुपक्किलेसपहानवसेनाति फलेन हेतुदस्सनमिदन्ति आह ‘‘मानुसं देहन्ति इध…पे… वुत्तानी’’ति. दिवि भवं दिब्बं, ब्रह्मत्तभावसञ्ञितं खन्धपञ्चकं. तत्थ संयोजनकोति वुत्तं ‘‘दिब्बं योगन्ति पञ्च उद्धम्भागियसंयोजनानी’’ति. इमस्साति देवपुत्तस्स. ‘‘हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति तेसं त्वं कुसलं सब्बावज्जप्पहानेन अनवज्जतं भासतीति कुसली वदेसि. अत्थेन सद्दस्स अभेदोपचारं कत्वा गम्भीरवचनं वुत्तन्ति आह ‘‘गम्भीरत्थ’’न्ति अत्थस्सेव गम्भीरतो, न सद्दस्स. समुच्छिन्नकामरागताय सब्बसो कामविसयप्पहानेन निरामिसब्रह्मचारी नाम अनागामी. निवासनट्ठानभूतो समानो एको गामो एतस्साति आह ‘‘एकगामवासी’’ति.
घटीकारसुत्तवण्णना निट्ठिता.
आदित्तवग्गवण्णना निट्ठिता.