१. सब्भिसुत्तवण्णना
३१. सतं साधूनं सरणगमनसीलादिभेदस्स धम्मस्स उल्लपनतो, अत्तनो वा पुब्बेनिवासानुस्सतिया तस्स धम्मस्स उल्लपनतो कथनतो सतुल्लपा, देवता, तासं कायो समूहो, तत्थ भवाति सतुल्लपकायिका. तेनाह ‘‘सतं धम्म’’न्तिआदि. समादानवसेन उल्लपेत्वा, न वण्णनाकथनमत्तेन तत्राति तस्मिं तासं देवतानं सतुल्लपकायिकभावे. इदं वत्थूति इदं कारणं. समुद्दवाणिजाति संयत्तिका. खित्तसरवेगेनाति जियामुत्तसरसदिसवेगेन, सीघओघेनाति अत्थो. उप्पततीति उप्पातो. उप्पाते भवं ब्यसनं उप्पातिकं. पतिट्ठाति हितपतिट्ठा. परलोके हितसुखावहं अभयकारणं. जङ्घसतन्ति मनुस्ससतं. जङ्घासीसेन हि मनुस्से वदति सहचारिभावतो. अग्गहेसि पञ्चसीलानि. आसन्नानासन्नेसु आसन्नस्सेव पठमं विपच्चनतो ‘‘आसन्नकाले गहितसीलं निस्साया’’ति वुत्तं. घटावसेनाति समूहवसेन.
सब्भीति साधूहि. ते हि सपरहितसाधनतो पासंसताय सन्तगुणताय च सन्तोति वुच्चति. ते पन यस्मा पण्डितलक्खणेहि समन्नागता होन्ति, तस्मा ‘‘पण्डितेही’’ति आह. समासेथाति संवसेथाति अयमेत्थ अधिप्पायोति आह ‘‘सब्बइरियापथे’’तिआदि. मित्तसन्थवन्ति मेत्तिसन्धानं. सत्तानं हितेसितालक्खणा हि मेत्ति, सा च ञाणसहिता ञाणपुब्बङ्गमावाति मित्तसन्थवो असंकिलिट्ठो, इतरो संकिलिट्ठोति आह ‘‘न केनचि सद्धिं कातब्बो’’ति. सद्धम्मन्ति दिट्ठधम्मिकादिहितावहं सुन्दरधम्मं. सेय्योति हितवड्ढनतादि वुत्तन्ति आह ‘‘वड्ढी’’ति.
सतं साधूनं, पण्डितानन्ति अयमेत्थ अत्थो. तप्पटियोगविसयत्ता अञ्ञ-सद्दस्स वुत्तं ‘‘अञ्ञतो अन्धबालतो’’ति. सोकनिमित्तं सोककारणं उत्तरपदलोपेन इध सोकसद्देन गहितन्ति आह ‘‘सोकवत्थून’’न्तिआदि. सोकवत्थूनि नाम चोरादयो अच्छिन्दनादिवसेन परेसं सोककरणतो. सोकानुगता सोकप्पत्ता.
थेरस्साति संकिच्चत्थेरस्स. अत्तनो भगिनिया जेट्ठत्ता ‘‘तुम्हे’’ति आह. अयं ‘‘इध चोरा पटिपज्जिंसू’’ति अम्हे तिणायपि न मञ्ञतीति चिन्तेत्वा एकच्चे ‘‘मारेम न’’न्ति आहंसु. करुणाय एकच्चे ‘‘विस्सज्जेमा’’ति आहंसु. मन्तेत्वाति भासेत्वा.
अहु अहोसि, भूतपुब्बन्ति अत्थो. अरञ्ञस्मिं ब्रहावनेति तादिसे ब्रहावने, महारञ्ञे निवासीति अत्थो चेतोति ब्याधो. कूटानीति वाकुरादयो. ओड्डेत्वाति सज्जेत्वा. ससकन्ति पेलकं उब्बिग्गाति भीततसिता. एकरत्तिन्ति एकरत्तेनेव. धनजानीति परिब्बयवसेन अद्धिकेहि लद्धब्बधनतो हानि, ‘‘समणम्पि नाम हन्ति, किं अम्हेसु लज्जिस्सती’’ति अद्धिकानं अनागमनतो एकदिवसं लद्धब्बपरिब्बयम्पि न लभिस्सन्तीति अधिप्पायो.
ञातयोपि मातापितुभातुभगिनिआदिके ञातके. ते किर अधिमुत्तस्स भगिनिया सन्तिकं उपगच्छन्ता अन्तरामग्गे तेन समागता, अधिमुत्तो सच्चवाचं अनुरक्खन्तो चोरभयं तेसं नारोचेसि. तेन वुत्तं ‘‘तेसम्पी’’तिआदि. तं निस्साय पब्बजितत्ता ‘‘अधिमुत्तसामणेरस्स सन्तिके’’ति वुत्तं, न उपसम्पदाचरियो हुत्वा. तेनाह ‘‘अत्तनो अन्तेवासिके कत्वा’’ति. सच्चानुरक्खणेन अनुत्तरगुणाधिगमेन च ञातिमज्झे विरोचति.
साततन्ति सततं. स-सद्दस्स हि इध साभावो यथा ‘‘सारागो’’तिआदीसु. सातभावो वा साततन्ति आह ‘‘सुखं वा’’ति. कारणेनाति तेन तेन कारणेन. सब्बासं तासं वचनं सुभासितं, भगवतो पन उक्कंसगतं सुभासितमेव. स्वायमत्थो तंतंगाथापदेनेव विञ्ञायतीति तं नीहरित्वा दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं. तेन सप्पुरिसूपसंसेवसद्धम्माभियोगो यथा सत्तानं वड्ढिया पञ्ञापटिलाभस्स एकन्तिकं कारणं, एवं सोकपच्चये सति विसोकभावस्स, ञातिमज्झे सोभाय, सुगतिगमनस्स, चिरं सुखट्ठानस्स, वट्टदुक्खमोचनस्सपि अञ्ञासाधारणं होतीति वुत्तमेवाति दट्ठब्बं.
सब्भिसुत्तवण्णना निट्ठिता.