२. मच्छरिसुत्तवण्णना
३२. पमज्जनाकारेन पवत्ता अनुपलद्धि पमादो. तेन एकन्ततो सतिरहिता होन्तीति वुत्तं ‘‘सतिविप्पवासलक्खणेना’’ति. दिट्ठिविचिकिच्छादयो चेत्थ पमादेनेव सङ्गहिता. इदानि यथा मच्छरियनिमित्तञ्च पमादनिमित्तञ्च दानं न दीयति, तं दस्सेतुं ‘‘एकच्चो ही’’तिआदि वुत्तं. परिक्खयं गमिस्सतीति भोगपरिहानिं गमिस्सति. खिड्डादीति आदि-सद्देन मण्डनविभूसनछणनक्खत्तकिच्चब्यसनादिं सङ्गण्हाति. यसदायकन्ति कित्तियसस्स परिवारयसस्स च दायकं. सिरीदायकन्ति सोभग्गदायकं. सम्पत्तिदायकन्ति कुलभोगरूपभोगसम्पदाहि सम्पत्तिदायकं. पुञ्ञन्ति वा इध पुञ्ञफलं दट्ठब्बं ‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) विय. अत्थि दानस्स फलन्ति एत्थ देय्यधम्मस्स अनवट्ठिततं बहुलसाधारणतं, तं पहाय गमनीयतं, तब्बिसयाय पीतिया सावज्जतं, दानधम्मस्स अनञ्ञसाधारणतं अनुगामिकतं, तब्बिसयाय पीतिया अनवज्जतं, लोभादिपापधम्मानं विनोदनं, सेसपुञ्ञानं उपनिस्सयञ्च जानन्तेनाति वत्तब्बं.
तंयेव बालन्ति यो मच्छरी, तमेव. अदानसीला बाला. एकच्चो धनस्स परिभोगपरिक्खयभयेन अत्तनापि न परिभुञ्जति अतिलोभसेट्ठि वियाति आह ‘‘इधलोकपरलोकेसू’’ति.
यस्मा एकच्चो अदानसीलो पुरिसो अद्धिके दिस्वा पस्सन्तोपि न पस्सति, तेसं कथं सुणन्तोपि न सुणोति, सयं किञ्चि न कथेति, अदातुकम्यताथम्भे बद्धो होति, तस्मा तत्थ मतलिङ्गानि उपलब्भन्तियेवाति आह ‘‘अदानसीलताय मरणेन मतेसू’’ति. अट्ठकथायं पन दानमत्तमेव गहेत्वा मतेनस्स समतं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. दानसीलस्स पन अमतलिङ्गानि वुत्तविपरियायतो वेदितब्बानि. वजन्ति पुथुत्ते एकवचनं, तस्मा वचनविपल्लासेन वुत्तन्ति आह ‘‘सह वजन्ता’’ति. दानसीलादिधम्मो पुरातनो, न अज्जतनोति सनन्तनो, सो एतेसु अत्थीति सनन्तना, पण्डिता, तेसं धम्माति तेसं वसेनपि धम्मो सनन्तनोति आह ‘‘सनन्तनानं वा पण्डितानं एस धम्मो’’ति. अप्पस्मिम्पि देय्यधम्मे सति एके दानं ददन्ति, एके न ददन्ति मच्छरिभावा. सहस्सदानसदिसाति एकापि दक्खिणा परिच्चागचेतनाय उळारभावतो सहस्सदानसदिसा होति.
दुरनुगमनोति असमङ्गिना अनुगन्तुं दुक्करो. अननुगमनञ्चस्स धम्मस्स अपूरणमेवाति आह ‘‘दुप्पूरो’’ति. ‘‘धम्मं चरे’’ति अयं धम्मचरिया गहट्ठस्स वसेन आरद्धाति आह ‘‘दसकुसलकम्मपथधम्मं चरती’’ति. तेनाह ‘‘दारञ्च पोस’’न्ति. समुञ्जकन्ति कस्सकेहि अत्तना कातब्बं कत्वा विसट्ठधञ्ञकरणतो खले उञ्छाचरियवसेन समुञ्जनिआदिना छड्डितधञ्ञसंहरणं. तेनाह ‘‘यो अपि…पे… समुञ्जकं चरती’’ति. एतेनाति सतसहस्ससहस्सयागिग्गहणेन दसन्नम्पि भिक्खुकोटीनं पिण्डपातो दस्सितो होति. ‘‘दिन्नो’’ति पदं आनेत्वा योजना. दसन्नं वा कहापणकोटीनं पिण्डपातोति दसन्नं कहापणकोटीनं विनियुञ्जनवसेन सम्पादितपिण्डपातो. तयिदं सतसहस्सं सहस्सयागीनं दानं एत्तकं होतीति कत्वा वुत्तं. समुञ्जकं चरन्तोपीति समुञ्जकं चरित्वापि, समुञ्जकचरणहेतूति अत्थो. सेसपदद्वयेपि एसेव नयो. दारं पोसेन्तोपि धम्मं चरति, अप्पकस्मिं ददन्तोपि धम्मं चरतीति योजना. तथाविधस्साति तादिसस्स तथाधम्मचारिनो या धम्मचरिया, तस्सा कलम्पि नग्घन्ति एते सहस्सयागिनो अत्तनो सहस्सयागिताय. यं तेन दलिद्देनातिआदि तस्सेवत्थस्स विवरणं. सब्बेसम्पि तेसन्ति ‘‘सतंसहस्सानं सहस्सयागिन’’न्ति वुत्तानं तेसं सब्बेसम्पि. इतरेसन्ति ‘‘तथाविधस्सा’’ति वुत्तपुरिसतो अञ्ञेसं. दसकोटिसहस्सदानन्ति दसकोटिसङ्खातं ततो अनेकसहस्सभेदताय सहस्सदानं.
‘‘कलं नग्घती’’ति इदं तेसं दानतो इमस्स दानस्स उळारतरभावेन विपुलतरभावेन विपुलतरफलताय वुत्तन्ति आह ‘‘कथं नु खो एतं महप्फलतरन्ति जाननत्थ’’न्ति. पच्चयविसेसेन महत्तं गतोति महग्गतो, उळारोति अत्थो. तेनाह ‘‘विपुलस्सेतं वेवचन’’न्ति. समेनाति ञायेन, धम्मेनाति अत्थो. विसमेति न समे मच्छरियलक्खणप्पत्ते. छेत्वाति पीळेत्वा. तं पन पीळनं पोथनन्ति दस्सेन्तो ‘‘पोथेत्वा’’ति आह. अस्सुमुखाति तिन्तअस्सुमुखसम्मिस्सा परं रोदापेत्वा. महादानन्ति यथावुत्तं बहुदेय्यधम्मस्स परिच्चजनेन महन्तदानं. उप्पत्तिया अपरिसुद्धतायाति अज्झासयस्स देय्यधम्मगवेसनाय च सुद्धताय मलीनत्ता. इतरं धम्मचरियाय निब्बत्तितदानं. परित्तदानन्ति परित्तस्स देय्यधम्मस्स वसेन परित्तदानं. अत्तनो उप्पत्तिया परिसुद्धतायाति अज्झासयस्स देय्यधम्मगवेसनाय च विसुद्धताय. एवन्तिआदिमाहाति ‘‘एवं सहस्सानं सहस्सयागिन’’न्ति अवोच. तत्थ सहस्सानन्ति सतंसहस्सानं. गाथाबन्धसुखत्थं सतग्गहणं न कतं. सेसं वुत्तनयमेव.
मच्छरिसुत्तवण्णना निट्ठिता.