१०. एणिजङ्घसुत्तवण्णना

३०. एणिमिगस्स वियाति एणिमिगस्स जङ्घा विय. अवयवीसम्बन्धे हि इदं सामिवचनं. पिण्डिमंसस्स परितो समसण्ठितत्ता सुवट्टीतजङ्घो. किसन्ति थूलभावपटिक्खेपपराजोतना, न सुट्ठु किसभावदीपनपराति आह ‘‘अथूलं समसरीर’’न्ति. आतपेन मिलातन्ति तपसा मिलातकायं इन्द्रियसन्तापनभावतो. तेनेवाह – ‘‘तपो मिलात’’न्तिआदि, तथा चाह पाळियं ‘‘अप्पाहारं अलोलुप’’न्ति. यथा ‘‘वीरस्स भावो वीरिय’’न्ति वीरभावेन वीरियं लक्खीयति, एवं वीरियसम्भवेन वीरभावोति आह ‘‘वीरन्ति वीरियवन्त’’न्ति. ‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे’’ति (थेरगा. ९८३; मि. प. ६.५.१०) धम्मसेनापतिवुत्तनियामेन परिमितभोजिताय अप्पाहारता भोजने मत्तञ्ञुता. ‘‘मिताहार’’न्ति वत्वा पुन परिच्छिन्नकालभोजितायपि अप्पाहारतं दस्सेन्तो ‘‘विकाल…पे… परित्ताहार’’न्ति आह. चतूसु पच्चयेसु लोलुप्पविरहितं बोधिमूले एव सब्बसो लोलुप्पस्स पहीनत्ता. ‘‘चतूसु पच्चयेसू’’ति हि इमिनाव सब्बत्थ लोलुप्पविगमो दीपितोवाति. रसतण्हापटिक्खेपो वा एस ‘‘अप्पाहार’’न्ति वत्वा ‘‘अलोलुप’’न्ति वुत्तत्ता. ‘‘सीहं वा’’ति एत्थ एकचरसद्दो विय इव-सद्दो अत्थतो ‘‘नाग’’न्ति एत्थापि आनेत्वा, सम्बन्धितब्बोति आह – ‘‘एकचरं सीहं विय, एकचरं नागं विया’’ति. एकचरा अप्पमत्ता एकीकताय.

पञ्चकामगुणवसेन रूपं गहितं तेसं रूपसभावत्ता. मनेन नामं गहितं मनस्स नामसभावत्ता. अविनिभुत्तधम्मेति अविनाभावधम्मे गहेत्वा. आदि-सद्देन आयतनधातुआदयो गहिता. कामगुणग्गहणेन हेत्थ रूपभावसामञ्ञेन पञ्च वत्थूनि गहितानेव होन्ति, मनोगहणेन धम्मायतनं, एवं द्वादसायतनानि गहितानि होन्ति. इमिना नयेन धातुआदीनम्पि गहितता योजेतब्बा. तेनाह ‘‘पञ्चक्खन्धादिवसेनपेत्थ भुम्मं योजेतब्ब’’न्ति. एत्थाति पाळियं. कामवत्थु भुम्मं.

एणिजङ्घसुत्तवण्णना निट्ठिता.

सत्तिवग्गवण्णना निट्ठिता.