७. दुक्करसुत्तवण्णना
१७. दुक्खं तितिक्खन्ति दुत्तितिक्खं. तञ्च दुक्खमं दुस्सहनं आरम्भवसेन दुक्करं, अनुयुञ्जनवसेन दुत्तितिक्खन्ति. अब्यत्तेनाति सामञ्ञस्स उपकारानुपकारे धम्मे जाननसमत्थाय वेय्यत्तियसङ्खाताय पञ्ञाय अभावतो न ब्यत्तेन. तेनाह ‘‘बालेना’’ति. यस्मिं धम्मे सति समणोति वुच्चति, तं सामञ्ञन्ति आह ‘‘समणधम्मो’’ति. इमिनाति ‘‘दुक्करं दुत्तितिक्खञ्च, अब्यत्तेन च सामञ्ञ’’न्ति इमिना गाथद्धेन इदं दस्सेतीति इदं इदानि वुच्चमानं अत्थजातं दस्सेति. अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो. सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति. आधायाति निप्पीळनवसेनेव ठपेत्वा. तालुं आहच्चाति तालुपदेसमाहनित्वा विय. चेतसाति कुसलचित्तेन. चित्तन्ति अकुसलचित्तं. अभिनिग्गण्हित्वाति यथा अतिसमुदाचारो न होति, एवं विबाधनवसेन निग्गहेत्वा. आपाणकोटिकन्ति पाणकोटिपरियोसानं, परिजीवन्ति अत्थो. सम्बाधेतीति सम्बाधो, अन्तरायिको. बहू परिस्सयाति अयोनिसो कामवितक्कादिवसेन.
पज्जति चित्तमेत्थाति पदं, आरम्मणं. इरियापथं एव पदं इरियापथपदं.
गीवा चत्तारो पादाति गीवपञ्चमानि. समोदहन्ति वा समोधानहेतूति अयमेत्थ अत्थोति आह – ‘‘समोदहित्वा वा’’ति, सम्मा ओधाय अन्तो पवेसेत्वाति अत्थो. सके आरम्मणकपालेति गोचरज्झत्तं वदति. समोदहन्ति समोदहन्तो. अनिस्सितोति तेभूमकधम्मेसु कञ्चिपि धम्मं तण्हादिट्ठाभिनिवेसवसेन अनिस्सितो. अविहिंसमानो विहिंसानिमित्तानं पजहनेन. उल्लुम्पनसभावसण्ठितेनाति सीलब्यसनतो उद्धरणरूपे सण्ठितेन, करुणायुत्तेनाति अत्थो. तेनाह ‘‘कारुञ्ञतं पटिच्चा’’ति.
दुक्करसुत्तवण्णना निट्ठिता.