६. निद्दातन्दीसुत्तवण्णना
१६. पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानोति एत्तकं पाठं सङ्खिपित्वा ‘‘निद्दं ओक्कमिता’’ति वुत्तं. किरियामयचित्तेहि अवोमिस्सो भवङ्गसोतो अब्याकतनिद्दा. सा हि खीणासवानं उप्पज्जनारहा, तस्सा पुब्बभागापरभागेसु…पे… उप्पन्नं थिनमिद्धं इधाधिप्पेता निद्दा, सा अखीणासवानं येभुय्येन अनियतकाला, तब्बिधुरनियतसब्भावं दस्सेन्तो ‘‘अतिच्छात…पे… आगन्तुकं आलसिय’’न्ति आह. कायालसियपच्चया वीरियस्स पटिपक्खभूता चत्तारो अकुसलक्खन्धा तन्दी नाम. तन्दीति सभावनिद्देसो. तन्दियनाति आकारनिंद्देसो. तन्दीमनताति तन्दीभूतचित्तता. आलस्यन्ति अलसभावाहरणं. आलस्यायितत्तन्ति अलसभावप्पत्ति. कायविजम्भनाति कायस्स विनामना. अकुसलपक्खा उक्कण्ठितताति अकुसलपक्खिया अनभिरति. भत्तकिलमथोति यथावुत्तस्स भत्तवत्थुकस्स आहारस्स वसेन सरीरे उप्पज्जनकखेदो. उपक्किलिट्ठोति पञ्ञाय दुब्बलीकरणेन उपक्किलिट्ठचित्तो. चित्तस्स असमाहितत्ता निवारितपातुभावो. अरियमग्गस्स जोतनं नाम उप्पज्जनमेवाति आह ‘‘न जोतति, न पातुभवतीति अत्थो’’ति. न हि अरियमग्गो जोतिअजोतिनामो पवत्तति.
मग्गसहजातवीरियेनाति लोकियलोकुत्तरमग्गसहजातवीरियेन. मिस्सकमग्गो हि इध अधिप्पेतो. नीहरित्वाति नीहरणहेतु. हेतुअत्थो हि अयं त्वा-सद्दो ‘‘पञ्ञाय चस्स दिस्वा’’तिआदीसु (म. नि. १.२७१) विय. तेन ‘‘मग्गो विसुज्झती’’ति वचनं समत्थितं होति. ‘‘अरियमग्गं विसुज्झती’’ति केचि पठन्ति.
निद्दातन्दीसुत्तवण्णना निट्ठिता.