१०. समिद्धिसुत्तवण्णना

२०. तपनभावेन तपनोदकत्ता तपोदाति तस्स रहदस्स नामं. तेनाह ‘‘तत्तोदकस्स रहदस्सा’’ति. ततोति नागभवने उदकरहदतो तपोदा नाम नदी सन्दति. सा हि नदी भूमितलं आरोहति. ‘‘एदिसा जाता’’ति वचनसेसो. पेतलोकोति लोहकुम्भिनिरया इधाधिप्पेताति वदन्ति. रहदस्स पन आदितो पब्बतपादवनन्तरेसु बहू पेता विहरन्ति, स्वायमत्थो पेतवत्थुपाळियालक्खणसंयुत्तेन च दीपेतब्बो. यतायन्ति यतो रहदतो अयं. सातोदकोति मधुरोदको. सेतोदकोति परिसुद्धोदको, अनाविलोदकोति अत्थो. ततोति तपोदानदितो.

समिद्धोति अवयवानं सम्पुण्णताय संसिद्धियाव सम्मा इद्धो. तेनाह ‘‘अभिरूपो’’तिआदि. पधाने सम्मसनधम्मे नियुत्तो, तं वा एत्थ अत्थीति पधानिको. सेनासनं सुट्ठपितद्वारवातपानं, तेसं पिदहनेन उतुं गाहापेत्वा.

पुब्बापयमानोति न्हानतो पुब्बभागे विय वोदकभावं आपज्जमानो गमेन्तो. अवत्तं पटिक्खिपित्वा वत्तं दस्सेतुं ‘‘तत्थ…पे… न ओतरितब्ब’’न्ति पठमं वुत्तं. सब्बदिसापलोकनं यथा न्हायनट्ठानस्स मनुस्सेहि विवित्तभावजाननत्थं. खाणुआदिववत्थापनं चीवरादीनं ठपनत्थं उदकसमीपेति अधिप्पायो. उक्कासनं अमनुस्सानं अपगमनत्थं. अवकुज्जट्ठानं तङ्खणेपि उपरिमकायस्स उजुकं अविवटकरणत्थं. चीवरपिट्ठेयेव ठपेतब्बं यत्थ वा तत्थ वा अट्ठपेत्वा. उदकन्तेति उदकसमीपे. सिन्नट्ठानन्ति सेदगतपदेसो. पसारेतब्बं तस्स सुक्खापनत्थं. संहरित्वा ठपनं पुन सुखेन गहेत्वा निवासनत्थं. नाभिप्पमाणमत्तंओतरणं तावता उदकपटिच्छादिलक्खणप्पत्ततो. वीचिं अनुट्ठापेन्तेनातिआदि संयतकारितादस्सनं. निवासनं परिक्खिपित्वाति अन्तरवासकं कटिप्पदेसस्स यथा परितो होति, एवं खिपित्वा परिवसित्वा.

सरीरवण्णोपि विप्पसीदि सम्मदेव भावनानुस्सतिम्पि विन्दन्तस्साति अधिप्पायो. समनं निग्गहेतुन्ति किलेसवसं गतं अत्तनो चित्तं निग्गण्हितुं. कामूपनीताति कामं उपगतचित्ता. अथ वा किलेसकामेन थेरे उपनीतचित्ता.

अपरिभुञ्जित्वाति अननुभोत्वा. अनुभवितब्बन्ति अत्थतो आपन्नमेवाति आह ‘‘पञ्चकामगुणे’’ति. भिक्खसीति याचसि. तञ्च भिक्खाचरियवसेनाति आह ‘‘पिण्डाय चरसी’’ति. कामपरिभोगगरुगमनकालो नाम विसेसतो पठमयोब्बनावत्थाति आह ‘‘दहरयोब्बनकालो’’ति. ओभग्गेनाति मज्झे संभग्गकायेन. जिण्णकाले हि सत्तानं कटियं कायो ओभग्गो होति.

वोति निपातमत्तं ‘‘ये हि वो अरिया’’तिआदीसु विय. सत्तानन्ति सामञ्ञवचनं, न मनुस्सानं एव. देहनिक्खेपनन्ति कळेवरट्ठपितट्ठानं. नत्थि एतेसं निमित्तन्ति अनिमित्ता, ‘‘एत्तकं अयं जीवती’’तिआदिना सञ्जानननिमित्तरहिताति अत्थो. न नायरेति न ञायन्ति. इतो परन्ति एत्थ परन्ति अञ्ञं कालं. तेन ओरकालस्सपि सङ्गहो सिद्धो होति. परमायुनो ओरकाले एव चेत्थ परन्ति अधिप्पेतं ततो परं सत्तानं जीवितस्स अभावतो. ववत्थानाभावतोति कालवसेन ववत्थानाभावतो. ववत्थानन्ति चेत्थ परिच्छेदो वेदितब्बो, न असङ्करतो ववत्थानं, निच्छयो वा. अब्बुदपेसीतिआदीसु अब्बुदकालो पेसिकालोतिआदिना काल-सद्दो पच्चेकं योजेतब्बो. कालोति इध पुब्बण्हादिवेला अधिप्पेता. तेनाह पुब्बण्हेपि हीतिआदि. इधेव देहेन पतितब्बन्ति सम्बन्धो. अनेकप्पकारतोति नगरे जातानं गामे, गामे जातानं नगरे, वने जातानं जनपदे, जनपदे जातानं वनेतिआदिना अनेकप्पकारतो. इतो चुतेनाति इतो गतितो चुतेन. इध इमिस्सं गतियं. यन्ते युत्तगोणो वियाति यथा यन्ते युत्तगोणो यन्तं नातिवत्तति, एवं कालो गतिपञ्चकन्ति एवं उपमासंसन्दनं वेदितब्बं.

अयं कालोति अयं मरणकालो. पच्छिमे कालेति पच्छिमे वये. तिस्सो वयोसीमाति. पठमादिका तिस्सो वयस्स सीमा अतिक्कन्तेन. पुरिमानं हि द्विन्नं वयानं सब्बसो सीमा अतिक्कमित्वा पच्छिमस्स आदिसीमं अतिक्कन्तो तथा वुत्तो. ‘‘अयञ्हि समणधम्मो…पे… न सक्का कातु’’न्ति वत्वा तमत्थं वित्थारतो दस्सेतुं ‘‘तदा ही’’तिआदि वुत्तं. गण्हितुन्ति पाळितो अत्थतो च हदये ठपनवसेन गण्हितुं. परिभुञ्जितुन्ति वुत्तधम्मपरिहरणसुखं अनुभवितुं. एकस्स कथनतो पठमं गाथं सुत्तं वा उस्सारेति, तस्मिं निट्ठिते इतरो धम्मकथिको तंयेव वित्थारेन्तो धम्मं कथेति, अयं सरभाणधम्मकथा. सुत्तगेय्यानुसारेन याव परियोसाना उस्सारणं सरभञ्ञधम्मकथा. ‘‘मा मं कालो उपच्चगा’’ति वदन्तो ‘‘समणधम्मस्स करणस्स अयं मे कालो’’ति कथेति, ततो परो ‘‘पच्छिमवयो अञ्ञो कालो’’ति कथेति. ‘‘कालं वोहं…पे… तस्मा अभुत्वा भिक्खामी’’ति वदन्तो अत्तना कतं पटिपत्तिञ्च सहेतुकं सानिसंसं कथेति.

तं गारवकारणं सन्धाय. एतन्ति ‘‘अथ खो सा देवता पथवियं पतिट्ठहित्वा’’ति एतं वुत्तं. दहरो त्वन्तिआदिमाह लोभाभिभूतताय अधिगतत्ता. सब्बसम्पत्तियुत्तोति भोगसम्पदा परिवारसम्पदाति सब्बसम्पत्तीहि युत्तो. अलङ्कारपरिहारन्ति अलङ्कारकरणं. अनिक्कीळितावीति अकीळितपुब्बो. कीळनञ्चेत्थ कामानं परिभोगोति आह ‘‘अभुत्तावी’’ति. अकतकामकीळोति अकतकामानुभवनप्पयोगो. सयं अत्तना एव दिस्सन्तीति सन्दिट्ठा, सन्दिट्ठा एव सन्दिट्ठिका, अत्तपच्चक्खतो सन्दिट्ठिका. पकट्ठो कालो पत्तो एतेसन्ति कालिका, ते कालिके.

चित्तानन्तरन्ति इच्छितचित्तानन्तरं, इच्छितिच्छितारम्मणाकारेति अत्थो. तेनेवाह ‘‘चित्तानन्तरं इच्छितिच्छितारम्मणानुभवनं न सम्पज्जती’’तिआदि. चित्तानन्तरं लद्धब्बतायाति अनन्तरितसमाधिचित्तानन्तरं लद्धब्बफलताय. समोहितेसुपीति सम्भतेसुपि. सम्पन्नकामस्साति समिद्धकामस्स. चित्तकारा रूपलाभेन, पोत्थकारा पटिमाकारका, रूपकारा दन्तरूपकट्ठरूप-लोहरूपादिकारका. आदिसद्देन नानारूपवेसधारीनं नटादीनं सङ्गहो. सेसद्वारेसूति एत्थ गन्धब्बमालाकारसूपकारादयो वत्तब्बा.

सोति समिद्धित्थेरो. समोहितसम्पत्तिनाति सङ्गाहभोगूपकरणसम्पत्तिना. पत्तब्बदुक्खस्साति कामानं आपज्जनरक्खणवसेन लद्धब्बस्स कायिकचेतसिकदुक्खस्स. उपायासस्साति दळ्हपरिस्समस्स विरतस्स. ‘‘विस्सातस्सा’’ति केचि. ‘‘पच्चवेक्खणञाणेना’’ति केचि पठन्ति. असुकस्मिं नाम काले फलं होतीति एवं उदिक्खितब्बो नस्स कालोति अकालो. एत्थाति एतेसु नवसु लोकुत्तरधम्मेसु. एहिपस्सविधिन्ति ‘‘एहि पस्सा’’ति एवं पवत्तविधिवचनं. उपनेतब्बोति वा उपनेय्यो, सो एव ओपनेय्यिको. विञ्ञूहीति विदूहि पटिविद्धसच्चेहि. ते एकंसतो उग्घटितञ्ञूआदयो होन्तीति आह ‘‘उग्घटितञ्ञूआदीही’’ति. ‘‘पच्चत्त’’न्ति एतस्स पतिअत्तनीति भुम्मवसेन अत्थो गहेतब्बोति आह ‘‘अत्तनि अत्तनी’’ति.

सब्बपदेहि सम्बन्धोति ‘‘कथं आदीनवो एत्थ भिय्यो, कथं अकालिको’’तिआदिना सब्बेहि पच्चेकं सम्बन्धो वेदितब्बो.

नवोति तरुणो न चिरवस्सो. ये भिक्खुनोवादकलक्खणप्पत्ता, ते सन्धाय ‘‘वीसतिवस्सतो पट्ठाय थेरो’’ति वुत्तं. इध सासनं नाम सिक्खत्तयसङ्गहं पिटकत्तयन्ति आह ‘‘धम्मेन ही’’तिआदि. तत्थ धम्मेन विनयो एत्थ विना दण्डसत्थेहीति धम्मविनयो. धम्माय विनयो एत्थ न आमिसत्थन्ति धम्मविनयो. धम्मतो विनयो न अधम्मतोति धम्मविनयो. धम्मो वा भगवा धम्मस्सामी धम्मकायत्ता, तस्स धम्मसञ्ञितस्स सत्थु विनयो, न तक्किकानन्ति धम्मविनयो. धम्मे विनयो न अधम्मे विनयो. धम्मो च सो यथानुसिट्ठं पटिपज्जमाने सत्ते अपायेसु अपतमाने धारेतीति, सब्बे संकिलेसतो विनेतीति विनयो चाति धम्मविनयो. तेनाह ‘‘उभयम्पेतं सासनस्सेव नाम’’न्ति.

धम्मविनयोति धम्मेन युत्तो विनयोति धम्मविनयो आजञ्ञरथो विय. धम्मो च विनयो चाति वा धम्मविनयो, तं धम्मविनयं. धम्मविनयानञ्हि सत्थुभाववचनतो धम्मविनयत्तसंसिद्धि धम्मविनयानं अञ्ञमञ्ञं विसेसनतो. अभिधम्मेपि विनयवचनन्ति धम्मविनयद्वयसिद्धि, देसितपञ्ञत्तवचनतो धम्मविनयसिद्धि. धम्मो चतुधा देसितो सन्दस्सन-समादापन-समुत्तेजन-सम्पहंसनवसेन, विनयो चतुधा पञ्ञत्तो सीलाचारतो पराजितवसेन. धम्मचरिया सकविसयो, विनयपञ्ञत्ति बुद्धविसयो. परियायेन देसितो धम्मो, निप्परियायेन पञ्ञत्तो विनयो. धम्मदेसना अधिप्पायत्थप्पधाना, विनयपञ्ञत्ति वचनत्थप्पधाना. परमत्थसच्चप्पधानो धम्मो, सम्मुतिसच्चप्पधानो विनयो. आसयसुद्धिपधानो धम्मो, पयोगसुद्धिपधानो विनयो.

किरियद्वयसिद्धिया धम्मविनयसिद्धि. धम्मेन हि अनुसासनसिद्धि, विनयेन ओवादसिद्धि. धम्मेन धम्मकथासिद्धि, विनयेन अरियतुण्हीभावसिद्धि. सावज्जद्वयपरिवज्जनतो धम्मविनयसिद्धि. धम्मेन हि विसेसतो पकतिसावज्जपरिच्चागसिद्धि, विनयेन पञ्ञत्तिसावज्जपरिच्चागसिद्धि. गहट्ठपब्बजितानं साधारणासाधारणगुणद्वयसिद्धि. बहुस्सुतसुतपसन्नद्वयतो परियत्ति-परियापुणन-धम्मविहार-विभागतो धम्मधरविनयधरविभागतो च धम्मविनयद्वयसिद्धि, सरणद्वयसिद्धिया धम्मविनयद्वयसिद्धि. इध सत्तानं दुविधं सरणं धम्मो अत्ता च. तत्थ धम्मो सुचिण्णो सरणं. ‘‘धम्मो हवे रक्खति धम्मचारि’’न्ति (थेरगा. ३०३; जा. १.१०.१०२; १.१५.३८५) हि वुत्तं. सुदन्तो अत्तापि सरणं ‘‘अत्ता हि अत्तनो नाथो’’ति (ध. प. १६०, ३८०) वचनतो. तेन वुत्तं ‘‘सरणद्वयसिद्धिया धम्मविनयसिद्धी’’ति. तत्थ यतस्स धम्मसिद्धि, यतो च विनयसिद्धि, तदुभयं दस्सेन्तो आह – ‘‘धम्मेन हेत्थ द्वे पिटकानि वुत्तानि, विनयेन विनयपिटक’’न्ति. अधुना आगतो इदानेव न चिरस्सेव उपगतो.

महन्ते ठाने ठपेत्वाति महेसक्खतादस्सनत्थं अत्तनो परिवारेन महन्तट्ठाने ठपितभावं पवेदेत्वा. महतियाति उपसङ्कमनवन्दनादिवचनापज्जनवसेन समाचिण्णाय. सब्बेपि किर निसीदन्ता तं ठानं ठपेत्वाव निसीदन्ति. थिरकरणवसेनाति दळ्हीकरणवसेन. अयं किर देवता ञाणसम्पन्ना मानजातिका, तस्मा नायं मानं अप्पहाय मम देसनं पटिविज्झितुं सक्कोतीति माननिग्गण्हनत्थं आदितो दुविञ्ञेय्यं कथेन्तो भगवा ‘‘अक्खेय्यसञ्ञिनो’’तिआदिना ताय ञातुमिच्छितकामानं कालिकादिभावं, धम्मस्स च सन्दिट्ठिकादिभावं विभावेन्तो द्वे गाथा अभासि.

अक्खेय्यतोति गिहिलिङ्गपरियायनामविसेसादिवसेन तथा तथा अक्खातब्बतो. तेनाह ‘‘कथानं वत्थुभूततो’’ति. एतेसन्ति सत्तानं. पतिट्ठिताति पवत्तिता आसत्ता. पञ्चन्नं कामसङ्गादीनं वसेन आसत्ता होन्तु, इतरेसं पन कथन्ति? अनिट्ठङ्गतोपि हि ‘‘इदं नु खो’’तिआदिना कङ्खतो तत्थ आसत्तो एव नाम अविजहनतो, तथा विक्खेपगतो विक्खेपवत्थुस्मिं, अनुसयानं पन आसत्तभावे वत्तब्बमेव नत्थि. मच्चुनो योगन्ति, मच्चुबन्धनं, मरणधम्मतन्ति अत्थो. यस्मा अपरिञ्ञातवत्थुका अनतीतमरणत्ता मच्चुना यथारुचि पयोजेतब्बा, तत्थ तत्थ उपरूपरि च खिपिताय आणाय अब्भन्तरे एव होन्ति, तस्मा वुत्तं ‘‘पयोगं…पे… आगच्छन्ती’’ति. यस्मा तेभूमका धम्मा कमनीयट्ठेन कामा, नेसम्पि कालस्स लद्धब्बताय कालिकता इध अक्खेय्यवचनेन पवेदिता. तेनाह – ‘‘एवमिमाय गाथाय कालिका कामा कथिता’’ति. सब्बेपि तेभूमका धम्मा कमनीया, यस्मा च कालिकानं कामानं तथासभावता कथिता. अयम्पि गाथा तदत्थमेव दीपेतीति इमाय ते कथिता एव होन्ति. ये च सत्ता पञ्चसु खन्धेसु दिट्ठितण्हादिवसेन पतिट्ठिता ‘‘इत्थी, पुरिसो, अहं, ममा’’ति च अभिनिविसिय कामे परिभुञ्जन्ति, ते मरणं नातिवत्तन्ति. एवम्पेत्थ कामानं कालिकत्थो कथितोति आह ‘‘कालिका कामा कथिता’’ति.

अयं ञातपरिञ्ञाति रूपारूपधम्मे लक्खणादितो ञाते कत्वा परिच्छिन्दनपञ्ञा. तेनाह ‘‘एवं ञातं कत्वा’’तिआदि. पदट्ठानग्गहणेनेव चेत्थ तेसं रूपारूपधम्मानं पच्चयो गहितोति पच्चयपरिग्गहस्सपि सङ्गहो दट्ठब्बो. तीरेति तुलेति वीमंसति. द्वाचत्तालीसाय आकारेहीति इमिना मत्थकप्पत्तं महाविपस्सनं दस्सेति. ते पन आकारा विसुद्धिमग्गसंवण्णनाय वुत्तनयेन वेदितब्बा. ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिना विपस्सनाक्खणेपि एकदेसेन पहानं लब्भतेव, अनवसेसतो पन पहानवसेन पहानपरिञ्ञं दस्सेन्तो आह ‘‘अग्गमग्गेन …पे… अयं पहानपरिञ्ञा’’ति. तथा च आह ‘‘एवं तीहि परिञ्ञाही’’तिआदि.

अक्खातारन्ति अक्खातब्बं, न अक्खेय्यकं. तेनाह ‘‘कम्मवसेन कारक’’न्तिआदि. कारकन्ति च साधनमाह. न मञ्ञतीति वा मञ्ञनं नप्पवत्तेति अक्खातारन्ति खीणासवं. अथ वा तञ्हि तस्स न होतीति तं कारणं तस्स खीणासवस्स न होति न विज्जति, येन दिट्ठितण्हादिकारणेन अक्खेय्यं खन्धपञ्चकं ‘‘तिस्सो’’ति वा ‘‘फुस्सो’’ति वा ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा अभिनिविस्स वदेय्याति एवमेत्थ अत्थो वेदितब्बो. मनुस्सनागादीहि पूजनीयत्ता ‘‘यक्खो’’ति सब्बदेवानं साधारणवचनन्ति देवधीतापि ‘‘यक्खी’’ति वुत्ता. अक्खेय्यन्ति पहानपरिञ्ञाय पहानमग्गो, तस्स आरम्मणभूतं निब्बानम्पि गहितं. न मञ्ञतीति खीणासवस्स अस्स फलप्पत्तीति आह ‘‘नवविधो लोकुत्तरधम्मो कथितो’’ति.

विसेसीति विसेसजातिआदिवसेन सेय्योति अत्थो. तेसु गहितेसूति तेसु सेय्यमानादीसु तीसु मानेसु गहितेसु. तयो सेय्यमाना, तयो सदिसमाना, तयो हीनमाना गहिताव होन्ति. सो पुग्गलोति सो अप्पहीनमञ्ञनपुग्गलो. तेनेव मानेन हेतुभूतेन. उपड्ढगाथायाति पुरिमद्धेन पन वत्थुकामा वुत्ताति आह ‘‘कालिका कामा कथिता’’ति.

विधीयति विसदिसाकारेन ठपीयतीति विधा, कोट्ठासो. कथंविधन्ति कथं पतिट्ठितं, केन पकारेन पवत्तितन्ति अत्थो. विदहनतो हीनादिवसेन विविधेनाकारेन दहनतो उपधारणतो विधा, मानो. मानेसूति निमित्तत्थे भुम्मं, मानहेतूति अत्थो. न चलतीति न वेधति अत्तनो परिसुद्धपकतिं अविजहनतो.

पञ्ञा ‘‘सङ्खा’’ति आगता, पञ्ञाति योनिसो पटिसङ्खानं. सङ्खायकोति सङ्कलनपदुप्पादनादि-पिण्डगणनावसेन गणको पपञ्चसङ्खाति मानादिपपञ्चभागा. ते ते धम्मा सम्मा याथावतो सङ्खायन्ति उपतिट्ठन्ति एतायाति सङ्खा, पञ्ञा. एकं द्वेतिआदिना सङ्खानं गणनं परिच्छिन्दनन्ति सङ्खा, गणना. सङ्खायति भागसो कथीयतीति सङ्खा, कोट्ठासो. सङ्खानं सत्तो पुग्गलोतिआदिना सञ्ञापनन्ति सङ्खा, रत्तोतिआदि पण्णत्ति. खीणासवो जहि पजहि रागादीनं सुप्पहीनत्ता. नवभेदं पभेदतो, सङ्खेपतो तिविधमानन्ति अत्थो. नवविधन्ति वा पाठे नवभेदत्ता अन्तरभेदवसेन नवविधन्ति अत्थो. पच्चयविसेसेहि इत्थिभावादिविसेसेहि विसेसेन मानीयति गब्भो एत्थाति विमानं, गब्भासयो. न उपगच्छीति न उपगमिस्सति. तेनाह ‘‘अनागतत्थे अतीतवचन’’न्ति. ‘‘नाज्झगा’’ति हि अतीतं ‘‘न गमिस्सती’’ति एतस्मिं अत्थे. छिन्दि अरियमग्गसत्थेन. ओलोकयमाना उपपत्तीसु. सत्तनिवेसनेसूति सत्तानं उपपज्जट्ठानेसु. लोकुत्तरधम्ममेव कथेसि अरहत्तस्स पवेदितत्ता.

‘‘गाथाय अत्थं कथेतुं वट्टती’’ति अत्थ-सद्दो आहरित्वा वत्तब्बो. अट्ठङ्गिकमग्गवसेनपीति एत्थापि एसेव नयो. सतिसम्पजञ्ञं नाम कुसलधम्मानुयोगे कारणन्ति आह ‘‘दसकुसलकम्मपथकारण’’न्ति.

अट्ठङ्गिकमग्गवसेन च गाथाअत्थवचने अयं इदानि वुच्चमानो वित्थार-नयो. तस्मिं किर ठानेति तस्मिं किर देवताय पुच्छितं पञ्हं विस्सज्जनट्ठाने. देवताय ञाणपरिपाकं ओलोकेत्वा अनुपुब्बिया कथाय सद्धिं सामुक्कंसिकदेसना महती धम्मदेसना अहोसि. ञाणं पेसेत्वाति सत्थुदेसनाय अनुस्सरणवसेन पत्तविसुद्धिपटिपाटिपवत्तं भावनाञाणं बन्धित्वा. सोतापत्तिफले पतिट्ठायाति सत्थुदेसनाविलासेन अत्तनो च परिपक्कञाणत्ता पठमं फलं पत्वा. एवमाहाति एवं ‘‘पापं न कयिरा’’तिआदिप्पकारेन गाथमाह. अङ्गं न होति, आजीवो यथा कुप्पमानो वाचाकम्मन्तवसेन कुप्पति, तथा सम्पज्जमानोपीति. सो वाचाकम्मन्तपक्खिको, तस्मा तग्गहणेन गहितोव होति. वायामसतिसमाधयो गहिता समाधिक्खन्धसङ्गहतो. सम्मादिट्ठिसम्मासङ्कप्पा गहिता पञ्ञाक्खन्धसङ्गहतो. अन्तद्वयविवज्जनं गहितं सरूपेनेवाति अधिप्पायो. इतीतिआदि निगमनं.

समिद्धिसुत्तवण्णना निट्ठिता.

नन्दनवग्गवण्णना निट्ठिता.