उपालिपञ्चकं
अनिस्सितवग्गवण्णना
४१७. उपालिपञ्हेसु ‘‘कति हि नु खो भन्ते’’ति पुच्छाय सम्बन्धो नत्थीति कस्सचि मञ्ञनं निवारेन्तो आह ‘‘अय सम्बन्धो’’ति. थेरोति उपालित्थेरो, पुच्छीति सम्बन्धो. इमेसन्ति पञ्चकानं तन्तिन्ति सम्बन्धो. केसं अत्थाय तन्तिं ठपेस्सामीति आह ‘‘निस्साय वसनकारीनं अत्थाया’’ति. वसनकारीनं भिक्खूनन्ति सम्बन्धो. तेसन्ति पञ्हानं.
आपन्नो कम्मकतोति एत्थ ‘‘आपन्नो’’ति पदं ‘‘कम्मकतो’’ति पदस्स कारणदस्सनन्ति आह ‘‘आपत्तिं आपन्नो, तप्पच्चयाव सङ्घेन कम्मं कतं होती’’ति. तप्पच्चयावाति तंआपत्तिआपन्नसङ्खाता कारणा एव.
नप्पटिप्पस्सम्भनवग्गवण्णना
४२०. अयन्ति कम्मकतो भिक्खु, न वत्ततीति सम्बन्धो. अनुलोमवत्तेति कतकम्मस्स अनुलोमे वत्ते. अस्साति भिक्खुस्स. सरज्जुकोति सह कम्मसङ्खाताय रज्जुयाति सरज्जुको.
४२१. समग्गेहि भिक्खूहीति सम्बन्धो. हीति सच्चं. अच्चयं देसापेत्वाति अञ्ञमञ्ञं दोसं देसापेत्वा. तिणवत्थारकसमथं वाति वासद्दो अत्थन्तरविकप्पो. तत्र चेति एत्थ तसद्दो कम्मविसयो, चेसद्दो सचेपरियायोति आह ‘‘सचे तादिसे कम्मे’’ति. दिट्ठाविकम्मम्पि कत्वाति दिट्ठाविकम्मं कत्वापीति योजना. पिसद्देन अकत्वापीति सम्पिण्डेति. यत्र पनाति कम्मे पन. तत्थाति कम्मे. पक्कमितब्बन्ति सङ्गामावचरेन पक्कमितब्बं.
४२२. उस्सितमन्तीति एत्थ उस्सितं मन्ती उस्सितमन्तीति दस्सेन्तो आह ‘‘लोभ…पे… भासिता’’ति. तत्थ ‘‘लोभदोस मोहमानुस्सन्नं वाच’’न्ति इमिना उस्सितपदस्स अत्थं दस्सेति. ‘‘भासिता’’ति इमिना ‘‘मन्ती’’ति पदस्स अत्थं दस्सेति. निस्सितजप्पीति एत्थ अञ्ञनिस्सितं जप्पमेतस्साति निस्सितजप्पीति दस्सेन्तो आह ‘‘अत्तनो’’तिआदि. एत्थ जप्पन्ति वचनं. जप्प वचनेति हि धातुपाठेसु वुत्तं. उस्सदयुत्तन्ति लोभादिउस्सदयुत्तं, वचनन्ति सम्बन्धो. एवमञ्ञन्ति एवं अत्तना अञ्ञं. कथानुसन्धिवचनेति चोदकचुदितकानं कथाय अनुसन्धिवचने. एत्थ ‘‘वचने’’ति इमिना ‘‘भासानुसन्धी’’ति एत्थ भाससद्दो वचनपरियायोति दस्सेति.
उस्सारेतीति उद्धं गमापेति. इमिना उस्सादेति उपरि गमापेतीति उस्सादेताति वचनत्थं दस्सेति. एत्थ हि दकाररकारा सदिसत्था. ते हि द्वे अक्खरा कदाचि कत्थचि सदिसत्था होन्ति. अवसारेतीति हीनभावं गमापेति. इमिना अवसादेति अधोभावं गमापेतीति अवसादेताति वचनत्थं दस्सेति. ‘‘अपसादेता’’तिपि पाठो, उपसग्गमत्तमेव नानं. सम्फञ्च बहुं भासतीति एत्थ सम्फसद्दो निरत्थककथावचनोति आह ‘‘निरत्थककथ’’न्ति. निरत्थककथा हि यस्मा सं हितसुखं फलति विनासेति, तस्मा सम्फन्ति वुच्चति. फा धातूति च फलधातूति च धातुपाठेसु (सद्दनीतिधातुमालायं १६ लकारन्तधातु) वुत्तं.
भारे अनारोपितेति ‘‘तव भारो’’ति सङ्घेन भारे अनारोपिते. अज्झोत्थरित्वाति अभिभवित्वा. इमिना पसय्ह पवत्ताति एत्थ पसय्हसद्दस्स अभिभवनत्थं दस्सेति. अनधिकारेति अनधिपच्चट्ठाने. ‘‘कथेता’’ति इमिना वतुधातुया कथनत्थं दस्सेति. अनोकासकम्मं कारेत्वाति एत्थ नकारस्स अयुत्तयोगभावतो युत्तट्ठानं दस्सेन्तो आह ‘‘ओकासकम्मं अकारेत्वा’’ति. यस्साति या अस्स. अस्स भिक्खुनो अत्तनो या दिट्ठि अत्थीति योजना, अथवा अत्तनो या दिट्ठि भवेय्याति योजना. तन्ति दिट्ठिं. ‘‘कथेता’’ति इमिना ब्याकताति एत्थ वि आ पुब्बकरधातुया कथनत्थं दस्सेति.
वोहारवग्गवण्णना
४२४. ‘‘नेव देसनाय न वुट्ठानेना’’ति इदं पाराजिकापत्तिं सन्धाय वुत्तं. दोसानुरूपन्ति वत्थुसङ्खातस्स दोसस्स अनुरूपं.
पयोगं न जानातीति एत्थ सचे पयोगो मूलेन विसदिसो हुत्वा भिन्नो होति, एवं सति मूलपयोगन्ति न वत्तब्बन्ति आह ‘‘अधिकरणानं ही’’तिआदि. हीति सच्चं, यस्मा वा. मूलमेव पयोगा नाम होन्ति, न अञ्ञन्ति अधिप्पायो.
कातब्बन्ति न जानातीति कातब्बं इति कम्मस्स करणं न जानातीति योजना. वत्थूति भण्डनकलहादिवत्थु, नियस्सादीनं वत्थूति सम्बन्धो. चतुन्नन्ति तज्जनीयनियस्सपब्बाजनीयपटिसारणीयवसेन चतुन्नं. याचतीति सङ्घं कम्मस्स वूपसमं याचति.
वत्थुन्ति एत्थ आपत्तिक्खन्धानमेव वत्थुन्ति आह ‘‘सत्तन्नं आपत्तिक्खन्धान’’न्ति. पदेसपञ्ञत्तिसब्बत्थपञ्ञत्तिसाधारणपञ्ञत्तिअसाधारणपञ्ञत्तिएकतोपञ्ञ- त्तिउभतोपञ्ञत्तिवसेन छन्नं पञ्ञत्तीनं पञ्ञत्तियं पविट्ठत्ता वुत्तं ‘‘तिविधं पञ्ञत्ति’’न्ति. ‘‘हेट्ठुपरियं कत्वा पदं योजेती’’ति इमिना पदपच्चाभट्ठन्ति एत्थ पदानं हेट्ठुपरियवसेन पटिनिवत्तित्वा आभस्सनं गळनं चुतं पदपच्चाभट्ठन्ति अत्थं दस्सेति.
विनयेति एत्थ न केवलं पाळियंयेव, अथ खो अट्ठकथायम्पीति आह ‘‘विनयपाळियञ्चेव अट्ठकथायञ्चा’’ति.
ञत्तिं न जानातीति एत्थ ञत्तिभेदं दस्सेन्तो आह ‘‘सङ्खेपतो’’तिआदि. तत्थाति दुविधासु ञत्तीसु. कम्मञत्तीति अनुस्सावनकम्मस्स ठाने ठिता ञत्ति. अनुस्सावनकम्मं नत्थि, सयमेव अनुस्सावनकम्मट्ठाने ठिताति अत्थो. कम्मपादञत्तीति अनुस्सावनकम्मस्स पादभूता मूलभूता ञत्ति. नवसु ठानेसूति ओसारणादीसु नवसु ठानेसू. द्वीसु ठानेसूति ञत्तिदुतियञत्तिचतुत्थवसेन द्वीसु ठानेसु, कम्मपादञत्तिया करणं न जानातीति सम्बन्धो. य्वायं चतुब्बिधो समथोति योजना. तन्ति चतुब्बिधं समथं. ञत्तियाति साम्यत्थे सामिवचनं. यं अधिकरणं वूपसमतीति सम्बन्धो. तस्साति अधिकरणस्स. तं वूपसमं न जानातीति सम्बन्धो.
सुत्तं न जानातीति एत्थ सुत्तसद्दस्स कदाचि कत्थचि मातिकायञ्च सुत्तन्तपिटके च पवत्तनतो इध उभतोविभङ्गेति आह ‘‘उभतोविभङ्ग’’न्ति. विनयं न जानातीति एत्थ विनयसद्दस्स सकले विनयपिटके वत्तमानस्सापि सुत्तन्ति एत्थ उभतोविभङ्गस्स गहितत्ता इध खन्धकपरिवाराव गहेतब्बाति आह ‘‘खन्धकपरिवारं न जानाती’’ति.
विनयं न जानातीति एत्थ विनयपिटकस्स गहेतब्बत्ता वुत्तं ‘‘ठपेत्वा विनयपिटक’’न्ति. सुत्तन्तिके चत्तारो महापदेसेति (दी. नि. २.१८७ आदयो; अ. नि. ४.१८०) बुद्धापदेससङ्घापदेससम्बहुलत्थेरापदेसएकत्थेरा पदेसवसेन चत्तारो महापदेसे. एत्थाति पञ्चके. यन्ति वचनं. सब्बत्थाति सब्बेसु पञ्चकेसु.
इति
अनिस्सितवग्ग-नप्पटिप्पस्सम्भनवग्ग-वोहारवग्गवण्णनाय
योजना समत्ता.
दिट्ठाविकम्मवग्गवण्णना
४२५. दिट्ठाविकम्मवग्गे दिट्ठाविकम्माति एत्थ आवि करीयते आविकम्मं, दिट्ठीनं आविकम्मं दिट्ठाविकम्मन्ति दस्सेन्तो आह ‘‘दिट्ठीनं आविकम्मानी’’ति. ‘‘लद्धिपकासनान’’न्ति इमिना दिट्ठिसद्दो लद्धिपरियायो, आविकम्मसद्दो पकासनपरियायोति दस्सेति. एतन्ति ‘‘दिट्ठाविकम्मा’’ति नामं. अदेसनागामिनी नाम अत्थतो गरुकन्ति आह ‘‘गरुकापत्तिया’’ति. लहुकायपीति पिसद्दो गरहत्थो. लहुकायपि देसिताय दिट्ठाविकम्मं अधम्मिकं होति, पगेव गरुकायाति अत्थो.
यथा …पे… होतीति यथा आविकते चतूहि पञ्चहि एकीभूतेहि आविकता होतीति योजना. चतूहि पञ्चहीति अन्तिमपरिच्छेददस्सनं. ततो अतिरेकेहिपि एकतो देसेतुं न वट्टति, देसिता च आपत्ति न वुट्ठाति, देसनापच्चया दुक्कटञ्च होति. ‘‘चतूहि पञ्चही’’ति अन्तिमपरिच्छेदस्स दस्सितत्ता द्वीहि तीहि पन एकतो देसेतुं वट्टतीति दट्ठब्बं. मनोमानसेनाति एत्थ मनोसद्देन मानससद्दस्स रागअरहत्तेसुपि पवत्तनतो तदत्थे पटिक्खिपित्वा चित्ते एव वत्ततीति दस्सेति. तेन वुत्तं ‘‘मनसङ्खातेन मानसेना’’ति. इमिना मनभूतं मानसं मनोमानसन्ति वचनत्थं दस्सेति.
समानसंवासकस्सापीति पिसद्दो समानसंवासकस्सपि नानासीमाय ठितस्स सन्तिके आविकम्मं अधम्मिकं होति, पगेव नानासंवासकस्साति दस्सेति. माळकसीमायाति खण्डसीमाय अङ्गणे. अविप्पवाससीमायाति महासीमाय, ठितस्सापि सन्तिकेति सम्बन्धो. पिसद्देन ‘‘खण्डसीमाय ठितस्सपी’’ति अत्थं सम्पिण्डेति.
४३०. न परियत्तन्ति न समत्थं. इमिना नालन्ति एत्थ अलंसद्दो परियत्तत्थोव, नारहभूसनवारणत्थोति दस्सेति. इधापीति पञ्चकेपि. पिसद्देन पुरिमपञ्चकं अपेक्खति. ‘‘सासनतो’’ति इमिना चुधातुया अपादानं दस्सेति. ‘‘कामो’’ति इमिना अधिप्पायसद्दो कामपरियायोति दस्सेति.
४३२. मन्दत्ता मोमूहत्ताति एत्थ त्तपच्चयस्स भावत्थे, पञ्चमीविभत्तिया च कारणत्थे पवत्तभावं दस्सेन्तो आह ‘‘मन्दभावेन मोमूहभावेना’’ति. परिभवाति एत्थ परिभवकामाति अत्थं दस्सेन्तो आह ‘‘परिभवं आरोपेतुकामो हुत्वा’’ति. अञ्ञब्याकरणेसुपीति अरहत्तब्याकरणेसुपि. सब्बत्थाति दिट्ठाविकम्मवग्गे. यन्ति वचनं.
इति दिट्ठाविकम्मवग्गवण्णनाय योजना समत्ता.
मुसावादवग्गवण्णना
४४४. धम्मपधानं धम्माधिट्ठानं सन्धाय ‘‘पाराजिकं गच्छतीति पाराजिकगामी’’ति सुद्धकत्तुवसेन वुत्तं, पुग्गलपधानं पुग्गलाधिट्ठानं सन्धाय ‘‘पाराजिकं गच्छति अनेन, गमापेतीति वा पाराजिकगामी’’ति करणहेतुकत्तुवसेनपि वत्तब्बं. वित्थारं दस्सन्तो आह ‘‘तत्था’’तिआदि. तत्थ तत्थाति ‘‘मुसावादो पाराजिकगामी’’तिआदिपाठे, एवं वित्थारो वेदितब्बोति सम्बन्धो. तेसु ‘‘मुसावादो पाराजिकगामी’’तिआदीसु वा, निद्धारणे भुम्मं.
अदस्सनेनाति एत्थ कस्स अदस्सनेनाति आह ‘‘विनयधरस्सा’’ति. वित्थारं दस्सेन्तो आह ‘‘कप्पियाकप्पियेसु ही’’तिआदि. तन्ति विनयधरं. अस्सवनेनाति एत्थ केसं वचनं अस्सवनेनाति आह ‘‘एकविहारेपी’’तिआदि. एकविहारेपीति विनयधरेन एकविहारेपि. पिसद्देन नानाविहारे पन पगेवाति दस्सेति. उपट्ठानन्ति उपट्ठानत्थं, उपट्ठानट्ठानं वा. वुच्चमानं अञ्ञेसं वचनं असुणन्तो हुत्वा वाति योजना. पसुत्तकताति एत्थ यकारलोपोति आह ‘‘पसुत्तकताया’’ति. पसुत्तकभावेनपीति पिसद्दो अञ्ञम्पि अदस्सनादिकारणं सम्पिण्डेति. तथासञ्ञीति एत्थ तथासद्दो कोविसयोति आह ‘‘अकप्पिये…पे… आपज्जन्तो’’ति. एकरत्तातिक्कमादिवसेनाति आदिसद्देन छारत्तातिक्कमादिं सङ्गण्हाति. सब्बत्थाति मुसावादवग्गे.
इति मुसावादवग्गवण्णनाय योजना समत्ता.
भिक्खुनोवादवग्गवण्णना
४५०. भिक्खुनिवग्गे अलाभायाति एत्थ लभधातुया कम्मं, सम्पदानवचनस्स च तदत्थं दस्सेन्तो आह ‘‘चतुन्नं पच्चयानं अलाभत्थाया’’ति. ‘‘वायमती’’ति इमिना परिसक्कतीति एत्थ सक्कधातुया समत्थत्थं पटिक्खिपित्वा वायमत्थं दस्सेति. कलिसासनन्ति पापपराजयआणं. नीहरणत्थायाति निद्धरित्वा अपनयनत्थाय.
४५१. ‘‘कम्म’’न्ति सामञ्ञतो वुत्तत्ता ‘‘सत्तन्नं कम्मानं अञ्ञतर’’न्ति.
४५४. न साकच्छातब्बोति एत्थ को नाम कथामग्गो न साकच्छातब्बो, ननु विनयोयेवाति आह ‘‘कप्पिया…पे… कथामग्गो’’ति. ‘‘न कथेतब्बो’’ति इमिना कच्छसद्दस्स कथधातुया निप्फन्नभावं दीपेति. कस्मा पन पठमपञ्चके ‘‘न असेक्खेना’’ति पटिक्खिपित्वा दुतियपञ्चके ‘‘असेक्खेना’’तिआदि वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि. इतरो पुथुज्जनो न कथेतीति योजना.
न अत्थपटिसम्भिदापत्तोति एत्थ अत्थो नाम अट्ठकथायेवाधिप्पेताति आह ‘‘अट्ठकथाया’’ति. ‘‘पभेदगतञाणप्पत्तो’’ति इमिना अत्थादीसु पति विसुं सम्भिज्जतीति पटिसम्भिदा, पञ्ञा, तं पत्तोति पटिसम्भिदापत्तो. अत्थे पटिसम्भिदापत्तो अत्थपटिसम्भिदापत्तोति दस्सेति. ‘‘पाळिधम्मे’’ति इमिना धम्मपटिसम्भिदापत्तोति एत्थ धम्मसरूपं दस्सेति. वोहारनिरुत्तियन्ति पञ्ञत्तिनिरुत्तियं. इमिना निरुत्तिपटिसम्भिदापत्तोति एत्थ निरुत्तिसरूपं दस्सेति. पटिभानपटिसम्भिदापत्तोति एत्थ पटिभानं नाम हेट्ठिमञाणत्तयमेवाति आह ‘‘अत्थपटिसम्भिदादीनि ञाणानी’’ति, तेसूति ञाणेसु, यं यं विमुत्तं यथाविमुत्तं, चित्तं. पच्चवेक्खिताति पुनप्पुनं ओलोकिता. सब्बत्थाति भिक्खुनिवग्गे.
इति भिक्खुनोवादवग्गवण्णनाय योजना समत्ता.
उब्बाहिकवग्गवण्णना
४५५. उब्बाहिकवग्गे अत्थकुसलोतिआदिपदानं भेदनिस्सितसमासं दस्सेन्तो आह ‘‘अट्ठकथाकुसलो’’तिआदि. आचरियमुखतोति आचरियवदनतो, आचरियसम्मुखे वा, सिथिलधनितादीति आदिसद्देन दीघरस्सादीनि (परि. अट्ठ. ४८५; वि. सङ्ग. अट्ठ. २५२) सङ्गण्हाति. अक्खरपरिच्छेदेति एत्तको सिथिलो, एत्तको धनितोतिआदिना अक्खरपरिच्छेदे. इमिना ब्यञ्जनकुसलोति एत्थ ब्यञ्जनसद्दो अक्खरपरियायोति दस्सेति. न पुब्बापरकुसलोति एत्थ पुब्बापरो नाम पुरिमानं चतुन्नञ्चेव कथाय च पुब्बापरोति आह ‘‘अत्थपुब्बापरे’’तिआदि.
कोधनोतिआदीनि वुत्तानीति सम्बन्धो. यस्मा न सक्कोतीति योजना. पसारेताति एत्थ सरधातु उपसग्गवसेन वेचित्तवाचकोति आह ‘‘मोहेता’’ति.
इति उब्बाहिकवग्गवण्णनाय योजना समत्ता.
अधिकरणवूपसमवग्गवण्णना
४५७. अधिकरणवूपसमवग्गे सङ्घगरु नाम कोति आह ‘‘धम्मञ्च…पे… सङ्घगरु नाम होती’’ति. तानीति चीवरादीनि.
४५८. पञ्चहुपालि आकारेहीति एत्थ आकारसद्दो कारणत्थोति आह ‘‘पञ्चहि कारणेही’’ति. कम्मेनातिआदीसु कम्मादीनं सरूपं दस्सेन्तो आह ‘‘अपलोकनादीसू’’तिआदि. उपपत्तीहीति युत्तीहि. मय्हं उच्चाकुला पब्बजितभावञ्च बहुस्सुतभावञ्च तुम्हे जानाथाति योजना. मादिसो नाम…पे… तुम्हाकं युत्तं ननूति योजना. कण्णमूलेति कण्णसमीपे. अनुस्सावनेनाति अनुसमीपे सावापनेन. तेसन्ति भिक्खूनं. अनिवत्तिधम्मेति अनिवत्तनसभावे. सलाकग्गाहेनाति अत्तनो सलाकाय गाहापनेन.
एत्थाति कम्मादीसु. पमाणन्ति सङ्घभेदस्स कारणं. पुब्बभागाति सङ्घभेदतो पुब्बभागे पवत्ता. पुब्बभागभावं आविकरोन्तो आह ‘‘अट्ठारसवत्थुदीपनवसेन ही’’तिआदि. वोहरन्तेपीति योजना. तत्थाति वोहारे. कदा पन सङ्घो भिन्नोति आह ‘‘यदा पना’’तिआदि. यदा पन करोतीति सम्बन्धो. कम्मन्ति उपोसथकम्मतो अञ्ञं कम्मं गहेतब्बं. उद्देसन्ति उपोसथकम्मं. इतीति एवं. सङ्घभेदकक्खन्धकवण्णनायं ‘‘एवं…पे… पकासयिस्सामा’’ति (चूळव. अट्ठ. ३५१) यं वचनं अवोचुम्हाति योजना. तस्स वचनस्साति पाठं अज्झाहरित्वा ‘‘स्वायं अत्थो’’ति पदेन सम्बन्धितब्बो.
पञ्ञत्तेतन्ति एत्थ निग्गहितलोपसन्धीति आह ‘‘पञ्ञत्तं एत’’न्ति. क्वाति किस्मिं खन्धके. तत्राति वत्तक्खन्धके. एत्तावताति एत्तकेन आगन्तुकवत्तादिअकरणमत्तेन. अनुपुब्बेनाति अनुक्कमेन. यथारत्तन्ति एत्थ यथासद्दो अनुरूपत्थवाचको, रत्तिसद्देन रत्तिप्पमाणं गहेतब्बन्ति दस्सेन्तो आह ‘‘रत्तिपरिमाणानुरूप’’न्ति. इमिना रत्तिया अनुरूपं यथारत्तन्ति निब्बचनं दस्सेति. ‘‘रत्तिपरिमाणानुरूप’’न्ति वुत्ते रत्तिपरिमाणस्स अतिक्कन्तत्ता अत्थतो थेरोति आह ‘‘यथाथेरन्ति अत्थो’’ति. ववत्थानन्ति परिच्छेदो. सो हि विसुं अवहितो हुत्वा तिट्ठतीति ववत्थानन्ति वुच्चति. कम्माकम्मानीति एत्थ कम्मं अकम्मानीति पदविभागं कत्वा अकारो वुद्धत्थोति आह ‘‘खुद्दकानि चेव महन्तानि च कम्मानी’’ति. सति च अकम्मस्स महन्तभावे कम्मं नाम खुद्दकन्ति अत्थतो सिद्धं होति. तेन वुत्तं ‘‘खुद्दकानि चेवा’’ति. अकारस्स अप्पत्थं गहेत्वा ‘‘महन्तानि चेव खुद्दकानि च कम्मानी’’ति अत्थोपि युज्जतेव. सो पन इध न गहितो, अञ्ञत्थ पन दिस्सति. ‘‘उच्चावचानि कम्मानी’’ति हि वाक्यवसेन वुत्तट्ठाने उच्चसद्देन महन्तत्थं दस्सेति, अवचसद्देन खुद्दकत्थं दस्सेति. तस्मा महन्तखुद्दकानि कम्मानीति अत्थो वेदितब्बो. सति च अकम्मस्स खुद्दकभावे कम्मं नाम महन्तन्ति अत्थतोपि सिद्धन्ति दट्ठब्बं.
सङ्घभेदवग्गद्वयवण्णना
४५९. सङ्घभेदवग्गद्वये एतेति सभावा. तेति अधम्मादयो. इतीति एवं. यं कम्मन्ति योजना. दिट्ठिं विनिधायाति सम्बन्धो. एकस्मिं पञ्चके अयं अत्थयोजना कातब्बाति सम्बन्धो. एत्थापीति इमस्मिं पञ्चकेपि. पिसद्देन हेट्ठा वुत्तं पञ्चकं अपेक्खति. सब्बत्थाति सब्बेसु पञ्चकेसु. हीति सच्चं. पुब्बे अवुत्तनयं यं वचनमत्थि, तं वचनं एत्थ पञ्चकेसु न अत्थीति योजना.
आवासिकवग्गवण्णना
४६१. आवासिकवग्गे ‘‘हरित्वा’’ति इमिना यथाभतन्ति एत्थ भरधातुया हरणत्थञ्च किरियाविसेसनभावञ्च दस्सेति. ‘‘ठपितो’’ति इमिना निक्खित्तोति एत्थ खिपधातुया ठपनत्थं दस्सेति.
४६२. परिणामेतीति परिणतंपापेति. ‘‘नियामेति कथेती’’ति इमिना अधिप्पायत्थं दस्सेति, एत्थाति आवासिकवग्गे.
कथिनत्थारवग्गवण्णना
४६७. कथिनत्थारवग्गे ओतमसिकोति एत्थ अवतमं गतो ओतमसिकोति दस्सेन्तो आह ‘‘अन्धकारगतो’’ति. अन्धकारसद्देन तमसद्दो अन्धकारपरियायोति दस्सेति. तन्ति ओतमसिकं. असमन्नाहरन्तोति तं असमन्नाहरन्तो, कस्मा असमन्नाहरन्तोति आह ‘‘किच्चयपसुतत्ता वन्दन’’न्ति. एकतोति कोपेन सद्धिं. वेरी विसभागपुग्गलो एकतो आकोधेन वत्तनट्ठेन एकावत्तोति वुच्चति. पहरेय्याति वन्दन्तं पहरेय्य. ‘‘अञ्ञं चिन्तयमानो’’ति इमिना अञ्ञस्मिं आरम्मणे चित्तं विदहति ठपेतीति अञ्ञविहितोति दस्सेति.
सङ्घतो उद्धरित्वा खिपितब्बो अपनेतब्बोति उक्खित्तो, सोयेव उक्खित्तको. तेहीति चतूहि. अवन्दियेसु पन्नरसपुग्गलेसूति सम्बन्धो. अन्तरा वुत्तकारणेन चाति अन्तरे वुत्तेन ‘‘तञ्हि वन्दन्तस्स मञ्चपादादीसुपि नलाटं पटिहञ्ञेय्या’’तिआदिना कारणेन च. इतोति पन्नरसपुग्गलम्हा. इतीति एवं. सचे उद्देसाचरियो च ओवादाचरियो च नवको होति, न वन्दनीयो. सब्बत्थाति कथिनत्थारवग्गे.
इति कथिनत्थारवग्गवण्णनाय योजना समत्ता.
निट्ठिता च उपालिपञ्चकवण्णनाय योजना.
आपत्तिसमुट्ठानवण्णना
४७०. ‘‘अचित्तको आपज्जती’’तिआदीसु एवमत्थो वेदितब्बोति योजना. अचित्तको आपज्जतीति अचित्तको हुत्वा आपज्जति. एसेव नयो अचित्तको वुट्ठातीति एत्थापि. यंकिञ्चि आपत्तिन्ति सम्बन्धो. इतरं आपत्तिन्ति योजना. धम्मदानं करोमीति ‘‘सब्बदानं धम्मदानं जिनाती’’ति (ध. प. ३५४) च ‘‘अमतंददो च सो होति, यो धम्ममनुसासती’’ति (सं. नि. १.४२) च भगवता वुत्तवचनं सुत्वा धम्मदानं करोमि. दोमनस्सिकोति दोमनस्सेन युत्तो, दोमनस्सवन्तो वा. एत्थाति अब्याकतमूले.
४७३. यस्स यस्साति सिक्खापदस्स. तं सब्बन्ति सब्बं तंतंसमुट्ठानसिक्खापदं.