८. वत्तक्खन्धकं
१. आगन्तुकवत्तकथा
३५७. वत्तक्खन्धके आरामन्ति उपचारसीमं सन्धाय वुत्तन्ति आह ‘‘उपचारसीमसमीप’’न्ति. ‘‘गहेत्वा’’ति पदस्स ‘‘उपाहना’’ति कम्मं पाकटं, करणं पन अपाकटं. तस्मा करणं दस्सेन्तो आह ‘‘उपाहनदण्डकेन गहेत्वा’’ति. इमिना ‘‘हत्थेना’’ति करणं निवत्तेति. पटिक्कमन्तीति एत्थ पविसन्तीति च अपक्कमन्तीति च अत्थं पटिक्खिपन्तो आह ‘‘सन्निपतन्ती’’ति. उपाहना…पे… पुच्छितब्बाति एत्थ ‘‘पुच्छितब्बा’’ति पदस्स सह कम्मेन पुच्छितब्बाकारं दस्सेन्तो आह ‘‘कतरस्मिं ठाने’’तिआदि. तत्थ ‘‘कतरस्मिं…पे… चोळक’’न्ति इमिना पुच्छितब्बाकारं दस्सेति. ‘‘आवासिका भिक्खू’’ति इमिना कम्मं दस्सेति. ‘‘पत्थरितब्ब’’न्ति इमिना विस्सज्जेतब्बन्ति एत्थ सजधातुया चजनत्थं पटिक्खिपति. गोचरो पुच्छितब्बोति एत्थ गोचरसद्दो भिक्खाचारसद्देन अत्थतो एकन्ति दस्सेन्तो आह ‘‘भिक्खाचारो पुच्छितब्बो’’ति. भिक्खाय चरन्ति एत्थाति भिक्खाचारो, गोचरगामो. यत्थाति यस्मिं गामे. ‘‘कि’’न्तिआदिना पानीयं पुच्छितब्बन्तिआदीसु पुच्छितब्बाकारं दस्सेति. कं कालन्ति कस्मिं काले.
बहि निक्खमन्तस्साति विहारतो बहि निक्खमन्तस्स. निल्लोकेतब्बोति ओलोकेतब्बो. ‘‘यदि सक्कोती’’ति इमिना सचे उस्सहतीति एत्थ सचेसद्दो यदिपरियायो, उस्सहतिसद्दो सक्कोति परियायोति दस्सेति. सक्कोन्तस्स विहारसोधनवत्तेति सम्बन्धो.
२. आवासिकवत्तकथा
३५९. आवासिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना. सब्बं कातब्बन्ति सम्बन्धो. तस्साति वुड्ढतरस्स आगन्तुकस्स. ‘‘पण्डितो’’तिआदिना सचे बालो ‘‘सम्मज्जाहि ताव चेतियङ्गण’’न्ति न वदति, सम्मज्जनिं निक्खिपित्वा तस्स वत्तमेव कातब्बन्ति दस्सेति. भेसज्जमेव कातब्बन्ति सहावधारणेन वुत्तत्ता बालो ‘‘करोहि ताव भेसज्ज’’न्ति अवदन्तोपि भेसज्जमेव कातब्बं. ‘‘पण्डितो ही’’तिआदिना पन आगन्तुकस्स वत्तब्बभावमत्तमेव दस्सेति. पाळिमुत्तकवत्तं दस्सेन्तो आह ‘‘अपिचा’’तिआदि. बीजनेनाति बीजनिया. ‘‘बीजन’’न्ति हि नपुंसकलिङ्गो, ‘‘बीजनी’’ति इत्थिलिङ्गो. ‘‘बीजितब्बो’’ति च ‘‘बीजितब्ब’’न्ति च इमिना अट्ठकथावचनेन बीजियति अनेनाति बीजनं, बीजियति एतायाति बीजनीति वचनत्थो कातब्बो. अस्साति वुड्ढतरआगन्तुकस्स. मक्खेतब्बाति अञ्जेतब्बा. हीति सच्चं. एत्थाति उपाहनपुञ्छने. कत्थाति कस्मिं विहारे. पुच्छितेन आवासिकेनाति सम्बन्धो.
‘‘अत्तनो सन्तिकं…पे… न लभती’’ति इमिना अत्तानं सन्धाय अनागच्छन्तोपि अत्तनो सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लभतीति दस्सेति.
३. गमिकवत्तकथा
३६०. गमिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना. तत्थाति सेनासनक्खन्धके. तं सब्बं पटिसामेत्वाति सम्बन्धो. यत्थ येसु पासाणपिट्ठिपासाणत्थम्भेसु उपचिका नारोहन्ति, तस्सं पासाणपिट्ठियं वा तेसु पासाणत्थम्भेसु वा यं कतसेनासनं अत्थि, तं अनापुच्छन्तस्सापि अनापत्तीति योजना. चतूसु पासाणेसूतिआदि वुत्तन्ति सम्बन्धो, उपचिकानं उप्पत्तिट्ठाने कतेति सम्बन्धो. अयन्ति आनिसंसो. ओवस्सकगेहे पन ठपितानं मञ्चपीठानन्ति सम्बन्धो.
४. अनुमोदनवत्तकथा
३६२. इद्धं अहोसीति एत्थ इधधातुया वड्ढनत्थं पटिक्खिपन्तो आह ‘‘सम्पन्नं अहोसी’’ति. सङ्घत्थेरे निसिन्नेति सम्बन्धो. अनुथेरे अनुमोदनत्थाय निसिन्नेति योजना. सङ्घत्थेरेन अज्झिट्ठेपीति सम्बन्धो. अनुमोदको वदतीति सम्बन्धो. अनु पुनप्पुनं, पच्छा वा दायके धम्मकथाय मोदेतीति अनुमोदको. ‘‘गच्छथा’’ति सचे वदति अनुमोदकोति योजना. तस्साति अनुमोदकस्स. मनुस्सा कारेन्तीति सम्बन्धो. ‘‘एकेना’’ति पदं ‘‘कारेन्ती’’ति पदे कारितकम्मं. तस्साति कारितभिक्खुस्स. अनुमोदनतोति अनुमोदनकारणा. उपनिसिन्नकथाति उपसमीपे निसिन्नानं कथियति एतायाति उपनिसिन्नकथा. अनुमोदनायाति अनुमोदनत्थाय. अज्झिट्ठोवाति सयं अज्झिट्ठो एव. एत्थाति अनुमोदनवत्थुस्मिं. ‘‘सञ्जातवच्चो’’ति इमिना वच्चो सञ्जातो इमस्साति वच्चितोति कत्वा सञ्जातत्थे इत पच्चयोति दस्सेति.
५. भत्तग्गवत्तकथा
३६४. भत्तग्गवत्तेति भत्तं गण्हन्ति एत्थाति भत्तग्गं, परिविसनट्ठानं. तस्मिं कत्तब्बं वत्तं भत्तग्गवत्तं, तस्मिं भत्तग्गवत्ते एवं विनिच्छयो वेदितब्बोति योजना. मनुस्सानं परिविसनट्ठानं नाम यत्थ मनुस्सा सपुत्तदारा आवसित्वा भिक्खूभोजेन्ति. ‘‘अतिअल्लीयित्वा’’ति इमिना अनुपखज्जाति एत्थ खदधातुस्स हिंसनं नाम अतिअल्लीयनन्ति दस्सेति. आसनेसु सतीति आसनेसु सन्तेसु. निसीदन्तस्स नवकस्साति सम्बन्धो. आपज्जतीति आपत्तिं आपज्जति. आपुच्छिते अननुजानन्तो थेरो आपज्जतीति योजना. सङ्घाटिन्ति पारुतसङ्घाटिं.
पत्तधोवनउदकन्ति भुञ्जनत्थाय पत्तानं धोवनउदकं. गहेतब्बन्ति हत्थेन गहेतब्बं.
यथा गण्हियमानेति योजना. मत्तायाति पमाणाय. सब्बिआदीसु एवाति एवसद्दो अज्झाहरितब्बो. सब्बिआदीसूति सब्बितेलउत्तरिभङ्गेसु, निद्धारणे भुम्मं. यन्ति सब्बिआदिकं. अप्पहोतीति सब्बेसं भिक्खूनं नप्पहोति. तन्ति सब्बिआदिकं, सम्पादेहीति सम्बन्धो. तादिसं सब्बिआदिकन्ति सम्बन्धो.
यं भत्तग्गन्ति योजना. हत्थधोवनउदकन्ति भुत्तावीनं हत्थस्स धोवनउदकं. अन्तराति भोजनस्स मज्झे. पिपासितेनाति पिवितुं इच्छन्तेन. गलेति कण्ठे.
निवत्तन्तेनाति एत्थ कस्मा ठाना निवत्तन्तेनाति आह ‘‘भत्तग्गतो’’ति. कथं केनाकारेन निवत्तितब्बन्ति योजना. कस्मा नवकेहि भिक्खूहि पठमतरं निवत्तितब्बन्ति आह ‘‘सम्बाधेसु ही’’तिआदि. निक्खमनोकासोति पठमतरं निक्खन्तोकासो. पटिपाटियाति वुड्ढपटिपाटिया. धुरेति गेहद्वारस्स समीपे. धुरसद्दो हि इध समीपवाचको. नवका अन्तोगेहे चे निसिन्ना होन्तीति योजना. अन्तरेनाति भिक्खूनं विवरेन, मज्झेन वा. विरळायाति तनुकाय.
६. पिण्डचारिकवत्तकथा
३६६. पिण्डचारिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना. कप्पासं वा गहेत्वाति सम्बन्धो. यञ्चाति यञ्च किञ्चि वत्थुं, गहेत्वाति सम्बन्धो. करोन्ती ठिता वाति करोन्ती हुत्वा ठिता वा. तन्ति कम्मं. न च भिक्खादायिकायाति इत्थिलिङ्गवसेन वुत्तत्ता इत्थिया एव मुखं न उल्लोकेतब्बन्ति अत्थं पटिक्खिपन्तो आह ‘‘इत्थी वा होतू’’तिआदि. ‘‘भिक्खादानसमये’’ति इमिना अञ्ञस्मिं समये ओलोकेन्तोपि नत्थि दोसोति दस्सेति. एकस्मिं काले भिक्खाय ददमानाय सब्बकालम्पि न ओलोकेतब्बन्ति अनिच्छितत्थं पटिक्खिपति.
७. आरञ्ञिकवत्तकथा
३६८. आरञ्ञिकवत्ते एवं विनिच्छयो वेदितब्बोति योजना. सेनासना ओतरितब्बन्ति एत्थ अरञ्ञे रुक्खमूलादीसु निसिन्नस्स विहाराभावतो सेनासनं नाम वसनट्ठानं सन्धाय वुत्तन्ति आह ‘‘वसनट्ठानतो निक्खमितब्ब’’न्ति.
पत्तं थविकाय पक्खिपित्वाति एत्थ कथं पत्तो थविकाय पक्खिपितब्बोति आह ‘‘सचे बही’’तिआदि. तत्थ पत्तो पक्खिपितब्बोति सम्बन्धो. धोवित्वा कत्वाति पदेसु ‘‘पत्तं वोदक’’न्ति विभत्तिपरिणामं कत्वा सम्बन्धितब्बं. तम्पीति वेळुनाळिकम्पि. समीपेति आरञ्ञकस्स सेनासनस्स समीपे. यथा च आरञ्ञकस्स अरणिसहितं इच्छितब्बं, एवं कन्तारं पटिपन्नस्सापि अरणिसहितं इच्छितब्बन्ति योजना. गणवासिनोति गणेन सह वासिनो, आरञ्ञकस्साति सम्बन्धो. तेनाति अरणिसहितेन. ‘‘नक्खत्तानेव नक्खत्तपदानी’’ति इमिना अस्सयुजादिनक्खत्तानेव (अभिधानप्पदीपिकायं ५८-६० गाथासु) दिसाभागजाननस्स, च समयजाननस्स च कारणत्ता नक्खत्तपदानि नामाति दस्सेति.
८. सेनासनवत्तकथा
३६९. सेनासनवत्ते एवं विनिच्छयो वेदितब्बोति योजना. द्वारं नामाति महाद्वारं. महावळञ्जन्ति महन्तेहि जनेहि परिभुञ्जितब्बं. तत्थाति द्वारे. आपुच्छित्वावाति वुड्ढं आपुच्छित्वाव, सभागस्स वुड्ढतरस्साति सम्बन्धो. वट्टतियेवाति यथासुखं विहरितुं वट्टतियेव. परिवत्तितब्बन्ति परिमुखं वत्तितब्बं.
९. जन्ताघरवत्तादिकथा
३७१. जन्ताघरवत्ते एवं विनिच्छयो वेदितब्बोति योजना. बहिजगतीति बहिआलिन्दो.
३७३. आचमनवत्थुस्मिं एवमत्थो वेदितब्बोति योजना. नीहरित्वाति उदकं नीहरित्वा. आचमितब्बन्ति धोवितब्बं. ‘‘आपुब्बो चमु धोवने’’ति हि धातुपाठेसु वुत्तं. इदं अतिविवटन्ति इदं ठानं अतिविवटं, न केनचि पटिच्छन्नन्ति अत्थो. उदकं अलभन्तस्सेवाति उदकं अलभन्तेयेव.
३७४. वच्चकुटिवत्ते एवं विनिच्छयो वेदितब्बोति योजना. अयन्ति दन्तकट्ठं खादतो वच्चकरणं. सब्बत्थेवाति सब्बस्मिं एव ठाने. ‘‘न फरुसेन कट्ठेना’’ति एत्थ न केवलं खरकट्ठमेव, फालितकट्ठादयोपि छविअवलेखनकट्ठा फरुसायेव नामाति दस्सेन्तो आह ‘‘फालितकट्ठेन वा’’तिआदि. पविट्ठस्साति वच्चकुटिं पविट्ठस्स.
सब्बसाधारणट्ठानन्ति सब्बेसं भिक्खूनं, सब्बेहि वा साधारणं वच्चकुटिसङ्खातं ठानं. तत्राति तस्मिं सब्बसाधारणे ठाने. निबद्धगमनत्थायाति अत्तनो निबद्धगमनत्थाय कतं यं ठानं वा यं पुग्गलिकट्ठानं वा होतीति योजना.
उहताति एत्थ उपुब्बो हदधातूति दस्सेन्तो आह ‘‘उहदिता’’ति. ‘‘हद करीसोस्सग्गे’’ति धातुपाठेसु (पाणिनी ९७७ धातुपाठे; सद्दनीतिधातुमालायं १५ दकारन्तधातु) वुत्तत्ता वच्चकूपतो बहि करीसस्स ओस्सज्जनन्ति आह ‘‘बहि वच्चमक्खिता’’ति. धोवितब्बाति उदकेन धोवितब्बा. एतम्पीति उदकस्स अविज्जमानम्पि. सब्बत्थाति सब्बस्मिं वत्तक्खन्धके.
इति वत्तक्खन्धकवण्णनाय योजना समत्ता.