७. सङ्घभेदकक्खन्धकं

छसक्यपब्बज्जाकथा

३३०. सङ्घभेदकक्खन्धके अभिञ्ञाता अभिञ्ञाताति एत्थ अभिपुब्बो ञातसद्दो पाकटत्थोति आह ‘‘पाकटा पाकटा’’ति. काळुदायिप्पभूतयोति काळुदायिआदयो. परिवारेहि सद्धिं दस दूता च अञ्ञे च बहू जना सक्यकुमारा नामाति योजना. अम्हेसूति सक्यकुलसङ्खातेसु अम्हेसु, निद्धारणे भुम्मं. इमिना पाठसेसं दस्सेति. ‘‘कुलतो’’ति इमिना ‘‘कुला’’ति एत्थ निस्सक्कत्थे निस्सक्कवचनन्ति दस्सेति. घरावासत्थन्ति एत्थ घरे आवसन्तानं मनुस्सानं किच्चन्ति दस्सेन्तो आह ‘‘घरावासे य’’न्तिआदि. तत्थ यन्ति यंकिञ्चि. उदकं निन्नेतब्बन्ति एत्थ उदकं नीहरित्वा नेतब्बं अपनेतब्बन्ति दस्सेन्तो आह ‘‘यथा उदकं सब्बट्ठानेसु सुसं होती’’ति. सुसन्ति सुक्खं. तिणानीति सस्सदूसकानि तिणानि. ‘‘उद्धरितब्बानी’’ति इमिना निद्धापेतब्बन्ति एत्थ धुधातुया पप्फोटनधंसनत्थे दस्सेति. भुसाति सस्सनाळदण्डा, तेहि मिस्सा पलाला भुसिका. ओफुणापेतब्बन्ति एत्थ फुणधातुया अवकिरणत्थं दस्सेन्तो आह ‘‘अपनेतब्ब’’न्ति. त्वञ्ञेव घरावासत्थेन उपजानाति एत्थ घरावासत्थेनाति उपयोगत्थे करणवचनं. उपजानाति उपत्यूपसग्गो धात्वत्थानुवत्तको, हिविभत्ति च लोपो होति, तेन वुत्तं ‘‘त्वञ्ञेव घरावासत्थं जानाही’’ति. अहन्ति भद्दियकुमारनामको अहं. तयाति अनुरुद्धकुमारनामकेन तया. ‘‘सद्धिं पब्बजिस्सामी’’ति इमिना पाठसेसं दस्सेति. सेसन्ति ‘‘सद्धिं पब्बजिस्सामी’’ति वचनं.

३३१. निप्पातिताति एत्थ निक्खमित्वा गमापिताति दस्सेन्तो आह ‘‘निक्खामिता’’ति. मानस्सिनोति एत्थ मानं सयन्ति निस्सयन्तीति मानस्सिनोति दस्सेन्तो आह ‘‘मानस्सयिनो’’ति.

३३२. यस्सन्तरतो न सन्ति कोपाति एत्थ अन्तरसद्दो चित्तवाचको, तोपच्चयो च सत्तम्यत्थवाचकोति दस्सेन्तो आह ‘‘यस्स चित्ते’’ति. कस्मा कोपा न सन्तीति आह ‘‘ततियमग्गेन समूहतत्ता’’ति. अनागामिमग्गेन दोसस्स समूहतत्ता यस्स खीणासवस्स चित्ते कोपा न सन्तीति अधिप्पायो. इति भवाभवतञ्च वीतिवत्तोति एत्थ अत्थं दस्सेन्तो आह ‘‘यस्मा पना’’तिआदि. तत्थ यस्मा पन वुच्चति, तस्मा एवमत्थो दट्ठब्बोति योजना. विभवोति पापं वुच्चतीति सम्बन्धो. ननु पाळियं ‘‘विभवो’’ति नत्थि, ‘‘अभवो’’ति एव अत्थि, अथ कस्मा ‘‘विभवोति अभवो’’ति वुत्तन्ति आह ‘‘विभवोति च अभवोति च अत्थतो एकमेवा’’ति. इमिना सद्दतोयेव नानन्ति दस्सेति. या एसा भवाभवता वुच्चतीति सम्बन्धो. ‘‘अनेकप्पकारा’’ति इमिना इतिसद्दस्स पकारत्थं दस्सेति. चतूहिपि मग्गेहि वीतिवत्तोति सम्बन्धो. तस्साति खीणासवस्स.

३३३. अहिमेखलिकाति मेखला विय मेखलिका, अहिमेव मेखलिका अहिमेखलिका. तमेवत्थं दस्सेन्तो आह ‘‘अहिं कटियं बन्धित्वा’’ति.

३३४. सम्मन्नतीति एत्थ ‘‘सम्मानेती’’ति चुरादिगणिकधातुवसेन वत्तब्बे दिवादिगणिकधातुवसेन वुत्तन्ति दस्सेन्तो आह ‘‘सम्मानेती’’ति. अचिन्तेय्यो हि पाळिनयो. सम्मानेतीति सम्मानं करोति. यन्ति कम्मं. सोति सत्था. इमिना यं तुमोति एत्थ तुमोति रुळ्हीसद्दो इध ‘‘सो’’ति सब्बनामसद्देन सदिसत्थोति दस्सेति.

पकासनीयकम्मादिकथा

३३६. ‘‘खेळसदिसा’’ति इमिना मिच्छाजीवेन उप्पन्नपच्चयानं सदिसूपचारेन खेळभावं दस्सेति. तस्मा खेळा वियाति खेळो, मिच्छाजीवपच्चया, खेळे असति भक्खति अज्झोहरतीति खेळासकोति वचनत्थो कातब्बो. एतरहि पाळियं, अट्ठकथायञ्च ‘‘खेळापकस्सा’’ति ओट्ठजेन पठमक्खरेन पाठो अत्थि.

३४०. पत्थद्धेनाति एत्थ भूसो थद्धो पत्थद्धो, बाळ्हथद्धोति अत्थो. तेन वुत्तं ‘‘निच्चलेना’’ति. पोत्थकरूपसदिसेनाति एत्थ पोत्थकरूपं नाम वत्थदन्तादिमयं, तेन सदिसो पोत्थकरूपसदिसो, तेन.

३४२. राजञातका नामाति एत्थ रञ्ञा जानियन्ति ‘‘अम्हाकं गरू’’ति राजञाता, तेयेव राजञातकाति अत्थो दट्ठब्बो. तदत्थं अधिप्पायेन दस्सेन्तो आह ‘‘राजा अम्हे जानाती’’तिआदि. पहट्ठकण्णवालोति पहट्ठो कण्णो च वालो च एतस्साति पहट्ठकण्णवालो. बन्धनिच्चलेति रज्जुवल्लीहि बन्धो विय निच्चले, पहट्ठकण्णवालेति सम्बन्धो. ‘‘कत्वा’’ति इमिना ‘‘अभिधावी’’ति पदे किरियाविसेसनभावं दस्सेति.

दुक्खञ्हि कुञ्जर नागमासदोति एत्थ कुञ्जरसद्दस्स आमन्तनपदभावं आविकरोन्तो आह ‘‘भो कुञ्जरा’’ति. नागसद्दस्स अहिनागहत्थिनागेसु पवत्तनतो वुत्तं ‘‘बुद्धनाग’’न्ति. आसदोति पदस्स आकोधेन सदनं उपगमनं आसदोति दस्सेन्तो आह ‘‘वधकचित्तेन उपगमनं नामा’’ति. दुक्खन्ति एतरहि च आयतिञ्च दुक्खकारणं. दुक्खं हीति हिसद्दो पदपूरणमत्तं, अथ वा दुक्खमेवाति अत्थो. ‘‘बुद्धनागं घातकस्सा’’ति इमिना नागं हनतीति नागहतोति वचनत्थं दस्सेति.

पटिकुटियोव ओसक्कीति एत्थ तथागतस्स पटिमुखं कुटेन गमनमेतस्साति पटिकुटियो, पटिकुटियो एव हुत्वा ओसक्कीति दस्सेन्तो आह ‘‘तथागताभिमुखोयेव पिट्ठिमेहि पादेहि ओसक्की’’ति. ‘‘न जानाती’’ति इमिना लक्ख दस्सनङ्केसूति धातुपाठेसु (पाणिनी १५३९ सद्दनीतिधातुमालायं १८ दकारन्तधातु) वुत्तेसु अत्थेसु इध दस्सनत्थोति दस्सेति. न लक्खितब्बोति अञ्ञेहि सप्पुरिसेहि न लक्खितब्बोति अत्थो. एत्थ ण्यपच्चयो कत्तुकम्मेसु होति, यकारस्स ककारं कत्वा अलक्खिकोति वुत्तं.

३४३. ‘‘भुञ्जितब्बभोजन’’न्ति इमिना तिकभोजनन्ति एत्थ युपच्चयस्स कम्मत्थभावं दस्सेति. तन्ति तिकभोजनं. यथाधम्मोति ‘‘गणभोजने पाचित्तिय’’न्ति (पाचि. २०९) वुत्ताय मातिकाविभङ्गपाळिया अनुरूपं. पञ्चवत्थुयाचनकथाति पञ्च वत्थूनि याचनस्स कथा. आयुकप्पन्ति अवीचिमहानिरये आयुकप्पं सन्धाय वुत्तं. अवीचिमहानिरये आयुकप्पो नाम एको अन्तरकप्पोति जिनालङ्कारटीकादीसु (मि. प. ४.१.३; कथा. अट्ठ. ६५४-६५७; इतिवु. अट्ठ. १८; सारत्थ. टी. चूळवग्ग ३.३४३; अ. नि. टी. ३.६६२) वुत्तो. ‘‘एको असङ्ख्येय्यकप्पो’’ति सम्मोहविनोदनादीसु (विभ. अट्ठ. ८०९; म. नि. अट्ठ. ३.१२८; वि. वि. टी. १.४१०; वजिर. टी. पाराजिकण्ड ४१०) वुत्तो. सेट्ठं पुञ्ञन्ति महन्तं पुञ्ञं. इमिना ब्रहं पुञ्ञन्ति ब्रहसद्दो महन्तत्थोति दस्सेति. ब्रह वुद्धियन्ति धातुपाठेसु (पाणिनी ७३५; सद्दनीतिधातुमालायं १६ हकारन्तधातु) वुत्तत्ता ब्रहसद्दो महन्तवाचको होति. ब्रहधातुतो अपच्चयं कत्वा ‘‘ब्रहा’’तिपि, मपच्चयं कत्वा ‘‘ब्रह्मा’’तिपि पाठो अत्थि. आयुकप्पमेवाति सग्गेसु आयुकप्पमेव.

सङ्घभेदकथा

३४४. सोति देवदत्तो, गतो किराति सम्बन्धो. तत्थेवाति विहारसीमायमेव. आवेणिकन्ति भिक्खुसङ्घतो आवेणिकं.

३४५. आगिलायतीति एत्थ आत्यूपसग्गो अभिभवनत्थो, गिलेधातु बाधनत्थोति आह ‘‘वेदनाभिभूता बाधती’’ति. तन्ति पिट्ठिं. परस्स चित्तं आदिसित्वा देसयति एतायाति आदेसना, सा एव पाटिहारियं आदेसनापाटिहारियं. अनुसासति एतायाति अनुसासनी, इममेवत्थं दस्सेन्तो आह ‘‘एवम्पि ते’’तिआदि.

३४६. ममानुक्रुब्बन्ति एत्थ अनुत्यूपसग्गो अनुकिरियत्थो करधातु अन्तपच्चयो गच्छन्तादिगणोति दस्सेन्तो आह ‘‘ममानुकिरियं कुरुमानो’’ति. ‘‘दुक्खितो’’ति इमिना कपणोति एत्थ कपधातु हिंसनत्थोति दस्सेति. महावराहस्साति वराहसद्दस्स सूकरत्थं पटिक्खिपन्तो आह ‘‘महानागस्सा’’ति. ‘‘पथवि’’न्ति इमिना महिं विकुब्बतोति एत्थ महीसद्दस्स एवंनामकं महानदिं पटिक्खिपति. ‘‘पदालेन्तस्सा’’ति इमिना करधातुया वित्यूपसग्गवसेन पदालनत्थं दस्सेति. भिसं घसमानस्साति एत्थ मानसद्दो कत्वत्थोति आह ‘‘भिसं घसन्तस्सा’’ति. घसन्तस्साति भक्खन्तस्स. नदीनामकं तं पोक्खरणिन्ति योजना. इमिना नदीसु जग्गतोति एत्थ नदी नाम पोक्खरणीति दस्सेति. जग्गतोति हत्थियूथं पालेन्तस्स.

३४७. ‘‘सुताति सोता’’ति इमिना पाळिया द्विधाभावं दस्सेति. ‘‘निस्सन्देहो’’ति इमिना असन्दिद्धोति एत्थ दिहधातुं दस्सेति, दिसधातुं निवत्तेति.

३५०. बुद्धसहस्सेनपीति पिसद्दो गरहत्थो, पगेव एकेन बुद्धेनाति दस्सेति.

‘‘सत्तो’’ति इमिना कोचिसद्दस्स पधानपदं दस्सेति. अट्ठाति आख्यातपदस्स अत्थं दस्सेन्तो आह ‘‘ठितो’’ति. देवदत्तोति मे सुतन्ति एत्थ ‘‘मे’’ति पदं भगवन्तं सन्धाय वुत्तन्ति आह ‘‘भगवता’’ति. तदेवाति सुतमेव. इदन्ति ‘‘देवदत्तोति मे सुत’’न्ति वचनं. अनुचिनातीति अनुवड्ढेति. ‘‘पत्वा’’ति इमिना आसज्जनन्ति एत्थ सदधातुया गत्यत्थं, किरियाविसेसनञ्च दस्सेति. अवीचिनिरयं पत्तोति एत्थ इदानि न देवदत्तो अवीचिनिरयं पत्तो होति, आयतिं पन अवीचिनिरये अवस्सम्भावियत्ता ‘‘अवीचिनिरयं पत्तो’’ति वुत्तन्ति आह ‘‘आसंसायं अतीतवचन’’न्ति. आसंसायन्ति अवस्सम्भावियत्थे. भेस्मा हि उदधी महाति एत्थ भेस्मासद्दो भयानकपरियायोति आह ‘‘भयानको’’ति.

उपालिपञ्हाकथा

३५१. एकतोति एत्थ तोपच्चयस्स सत्तम्यत्थे पवत्तभावं दस्सेन्तो आह ‘‘धम्मवादीपक्खे’’ति. ‘‘अनुनयन्तो’’ति इमिना अनुस्सावेतीति एत्थ अनुसद्दस्स अत्थं दस्सेति. अनुनयन्तोति पुनप्पुनं नयन्तो. सावनाकारं दस्सेन्तो आह ‘‘न तुम्हाकंयेवा’’तिआदि. अयं अधम्मो वा अयं अविनयो वा इदं असत्थुसासनं वा यदि भवेय्याति योजना. ‘‘बोधेती’’ति इमिना सावेतीति एत्थ सुधातुया अत्थं दस्सेति. ‘‘अनुस्सावेत्वा’’ति इमिना ‘‘अनुस्सावेति, सलाकं गाहेती’’ति एत्थ अनुस्सावनकिरिया पुब्बभागे पवत्ता, सलाकग्गाहकिरिया पच्छाभागेति दस्सेति.

एत्तावताति एत्तकेन अनुस्सावनसलाकग्गाहमत्तेन. न पन सङ्घो भिन्नो होति, अनुस्सावेत्वा सलाकं गाहेत्वा आवेणिकं सङ्घकम्मे कतेयेव सङ्घो भिन्नो होतीति अधिप्पायो.

एत्थ ठत्वा कस्सचि चोदकस्स अनुयोगो सियाति योजना. किन्ति सियाति आह ‘‘एवं देवदत्तो’’तिआदि. तत्थ एवन्ति पकतत्ते सङ्घे भिन्दे सतीति अत्थो. कथन्ति केनाकारेन. पुन कथन्ति कस्मा कारणा. रञ्ञोति अजातसत्तुरञ्ञो, कारितकम्मं. ‘‘घातापितत्ता’’ति बिम्बिसारराजानं घातापितत्ता. तत्थाति ‘‘भिक्खु खो उपाली’’तिआदिवचने, ठत्वा परिहारं वदामाति योजना. विरद्धत्ताति विराधितत्ता. तमत्थं वित्थारेन्तो आह ‘‘तेन ही’’तिआदि. तत्थ तेन हीति उय्योजनत्थे निपातो. एवञ्हीति एवमेव. तस्साति देवदत्तस्स. कुमारो पनाति अजातसत्तुकुमारो पन, कतमत्तेयेव न वुत्ताति सम्बन्धो. तस्साति देवदत्तस्स. तस्माति यस्मा सङ्घभेदतो पुब्बे रुहितुप्पादकम्मं करोन्तस्सापि पच्छा अभब्बभावो रोपितो, तस्मा.

भेदकरवत्थूसु एवं विनिच्छयो वेदितब्बोति योजना. धम्माधम्मादीनं सुत्तन्तविनयपरियायेन विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेना’’तिआदि. तत्थ सुत्तन्तपरियायेनाति सुत्तन्तदेसनाय, सुत्तन्तदेसनानयतोति वुत्तं होति. तथाति ततो अञ्ञथा.

तत्थाति द्वीसु धम्माधम्मेसु. एवं अम्हाकन्ति एवं करियमाने अम्हाकं. एवं सुत्तन्तपरियायेन धम्माधम्मानं विसेसं दस्सेत्वा इदानि विनयपरियायेन तेसं तं दस्सेन्तो आह ‘‘विनयपरियायेन पना’’तिआदि. भूतेन वत्थुना कातब्बन्ति सम्बन्धो. एवं ‘‘अभूतेन वत्थुना’’ति एत्थापि.

एवं द्विन्नं परियायानं वसेन धम्माधम्मदुकस्स विसेसं दस्सेत्वा इदानि विनयाविनयदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेना’’तिआदि. तत्थ सुत्तन्तनयेन रागादयो विनेतीति विनयो, विनयनयेन कायं वाचं विनेतीति विनयोति वचनत्थो कातब्बो.

एवं द्विन्नं परियायानं वसेन विनयाविनयदुकस्स विसेसं दस्सेत्वा इदानि भासिताभासितदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना’’तिआदि. तत्थ ‘‘अट्ठङ्गिको मग्गो’’ति इदं वचनं तथागतेन भासितं लपितन्ति योजना.

एवं द्विन्नं परियायानं वसेन भासिताभासितदुकस्स विसेसं दस्सेत्वा इदानि आचिण्णानाचिण्णदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेन देवसिक’’न्तिआदि. तत्थ ‘‘देवसिक’’न्ति पदं ‘‘समापज्जनं, वोलोकन’’न्ति तीसुयेव पदेसु योजेतब्बं. अट्ठुप्पत्तिवसेनाति कारणुप्पत्तिवसेन. कारणञ्हि अरति फलं एतस्माति अत्थोति वुच्चति, अत्थस्स उप्पत्ति अत्थुप्पत्ति, सायेव अट्ठुप्पत्ति त्थकारस्स ट्ठकारं कत्वा, अट्ठुप्पत्तिया वसो अट्ठुप्पत्तिवसो, तेन. इदं पदं ‘‘सुत्तन्तदेसना जातककथा’’ति द्वीहिपि पदेहि योजेतब्बं. इदन्ति फलसमापत्तिसमापज्जनादि. आचिण्णन्ति आ बन्धितं, पुनप्पुनं वा उपचितं वड्ढितं, पगुणं वा. चारियपक्कमनन्ति चारियत्थं पक्कमनं.

एवं द्विन्नं परियायानं वसेन आचिण्णानाचिण्णदुकस्स विसेसं दस्सेत्वा इदानि पञ्ञत्तदुकस्स विसेसं दस्सेन्तो आह ‘‘सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना’’तिआदि. तं भासिताभासितदुकसदिसमेव. एवं द्विन्नं सुत्तन्तविनयपरियायानं वसेन पञ्चन्नं दुकानं विसेसो दस्सितो.

आपत्तानापत्तिदुके ‘‘न मोचनाधिप्पायस्सा’’ति पाठस्स अनन्तरे पच्छिमवाक्ये ठितो आदिसद्दो आनेतब्बो. इति आदिना नयेनाति हि अत्थो. तत्थ तत्थाति तस्मिं तस्मिं सिक्खापदे. इदं पदं पच्छिमवाक्येपि अनुवत्तेतब्बं.

लहुकगरुकदुके पञ्चापत्तिक्खन्धाति थुल्लच्चयपाचित्तियपाटिदेसनीयदुक्कटदुब्भासितवसेन पञ्च आपत्तिरासयो. द्वे आपत्तिक्खन्धाति पाराजिकसङ्घादिसेसवसेन द्वे आपत्तिरासयो.

सावसेसानावसेसदुके छ आपत्तिक्खन्धाति पाराजिकापत्तितो अवसेसा छ आपत्तिरासयो.

दुट्ठुल्लादुट्ठुल्लदुके लहुकगरुकदुकसदिसमेव. अयं पन विसेसो – गरुकापत्ति दुट्ठुल्ला नाम, लहुकापत्ति अदुट्ठुल्ला नामाति एवं विनयपरियायवसेनेव चतुन्नं दुकानं विसेसो दस्सितो.

एत्थाति ‘‘अधम्मं धम्मोति दीपेन्ती’’तिआदिवचने. चतुन्नं सङ्घकम्मानन्ति अपलोकनादिवसेन चतुन्नं सङ्घकम्मानं. करोन्तेहि हेतुभूतेहि, हेत्वत्थे चेतं करणवचनं.

तत्थाति ‘‘ते इमेही’’तिआदिवचने. अपकस्सन्तीति एत्थ कसधातुस्स गत्यत्थं दस्सेन्तो आह ‘‘परिसं आकड्ढन्ती’’ति. विजटेन्तीति विजटं करोन्ति, विसुं करोन्तीति अत्थो. एकमन्तं उस्सादेन्तीति एकस्मिं अन्ते उस्सदं करोन्ति. अवपकस्सन्तीति एत्थ द्विन्नं उपसग्गानं वसेन अतिवियत्थो दट्ठब्बोति आह ‘‘अति विय आकड्ढन्ती’’ति. अतिवियत्थं आविकरोन्तो आह ‘‘यथा विसंसट्ठाव होन्ति, एवं करोन्ती’’ति. यथाति येनाकारेन करियमानेति सम्बन्धो. ‘‘विसु’’न्ति इमिना आवेणिसद्दो ‘‘विसु’’न्तिअत्थवाचको अनिप्फन्नपाटिपदिकोति दस्सेति. वत्थूसूति भेदकरवत्थूसु. इमं गण्हथाति इमं वादं गण्हथ. विसुन्ति आवेणिं. इमस्मिं खन्धके वुत्तवचनं परिवारपाळिया संसन्देन्तो आह ‘‘परिवारे पना’’तिआदि. तत्थ पञ्चहि आकारेहीति ‘‘कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८) एवं पञ्चहि कारणेहि. तस्साति परिवारे वुत्तवचनस्स. इधाति इमस्मिं सङ्घभेदकक्खन्धके, वुत्तेन इमिना सङ्घभेदलक्खणेनाति योजना. ‘‘अत्थतो नानाकरणं नत्थी’’ति इमिना सद्दतो नानाकरणं अत्थीति दीपेति. अस्साति सङ्घभेदलक्खणस्स. तं पन नानाकरणाभावन्ति योजना. तत्थेवाति परिवारे एव. सब्बत्थाति सब्बस्मिं सङ्घभेदकक्खन्धके.

इति सङ्घभेदकक्खन्धकवण्णनाय योजना समत्ता.