५. खुद्दकवत्थुक्खन्धकं
खुद्दकवत्थुकथा
२४३. खुद्दकवत्थुक्खन्धके मुट्ठिकमल्लाति मुट्ठिकेन मथन्ति अञ्ञमञ्ञं हिंसन्तीति मुट्ठिकमल्ला. इमिना पाळियं पदस्स हेट्ठुपरियं दस्सेति. गाममुदवाति एत्थ छविरागमण्डनानुयुत्तेन मुदो मोदनं एतेसमत्थीति मुदवा, गामे वसन्ता मुदवा गाममुदवाति दस्सेन्तो आह ‘‘छविरागमण्डनानुयुत्ता नागरिकमनुस्सा’’ति. ‘‘वण्णवा अहेसु’’न्तिआदीसु (पारा. १९३; पाचि. ६७) विय वचनं दट्ठब्बं. थम्भेति एत्थ न यत्थ कत्थचि थम्भो होति, अथ खो न्हानतित्थे निखणित्वा ठपितथम्भोयेवाति आह ‘‘न्हानतित्थे निखणित्वा ठपितत्थम्भे’’ति.
इट्ठकासिलादारुकुट्टानन्ति इट्ठकाकुट्टसिलाकुट्टदारुकुट्टानं. अट्ठपदाकारेनाति अट्ठपदफलकाकारेन. राजियोति लेखायो. तत्थाति अट्टाने, आकिरित्वाति सम्बन्धो. गन्धब्बहत्थकोति गन्धब्बानं वीणाहत्थो वियाति गन्धब्बहत्थको. दारूहि कतत्ता वुत्तं ‘‘दारुमयहत्थेना’’ति. तेनाति गन्धब्बहत्थेन, गहेत्वाति सम्बन्धो. कुरुविन्दकपासाणचुण्णानीति एवंनामकस्स पासाणस्स चुण्णानि. तन्ति कतगुळिककलापकं, गहेत्वाति सम्बन्धो. विग्गय्हाति अञ्ञमञ्ञस्स सरीरे दळ्हं गहेत्वाति दस्सेन्तो आह ‘‘अञ्ञमञ्ञं सरीरेन सरीर’’न्ति. मकरदन्तकेति मकरनामकस्स मच्छस्स दन्तसदिसे दन्ते. मल्लकमूलसण्ठानेनाति खेळपटिग्गहपादसण्ठानेन. गिलानस्सापीति पिसद्दो अगिलानस्स पगेवाति दस्सेति.
२४४. दन्तेति मकरदन्ते. अकतं मल्लकं अकतमल्लकं. कपालखण्डं वाति वासद्दो समुच्चयत्थो. कासफुल्लविरहितत्ता वत्थवट्टि उक्कासिका नाम. नत्थि कासं फुल्लमेतिस्साति उक्कासा, सा एव उक्कासिका. यस्स कस्सचीति गिलानागिलानस्स वा जरादुब्बलतरुणबलवस्स वा. पिट्ठिन्ति पिट्ठियं, अयमेव वा पाठो. पाणितलस्स पुथुट्ठानं पुथुपाणि, तेन कतं पुथुपाणिकं, हत्थपरिकम्मं, तेन वुत्तं ‘‘हत्थपरिकम्मं वुच्चती’’ति. सब्बेसन्ति न्हायन्तानं वा अन्हायन्तानं वा सब्बेसं.
२४५. कण्णतोति कण्णच्छिद्दतो. मुत्तोलम्बकादिवल्लिसदिसत्ता वल्लिका नाम. पलम्बकसुत्तन्ति परिमुञ्चित्वा लम्बियति अनेनाति पलम्बकं, तमेव सुत्तं पलम्बकसुत्तं. वलयन्ति नियुरं.
२४६. द्वीहि मासेहि नियुत्तं दुमासिकं. द्वे अङ्गुलानि एतस्साति दुवङ्गुलं, केसो. उभयेनपीति दुमासिकदुवङ्गुलसङ्खातेन उभयेनपि. अयम्पि उक्कट्ठपरिच्छेदोव वुत्तोति योजना. ततोति दुमासिकदुवङ्गुलतो.
ओसण्ठेन्तीति एत्थ ओलिखित्वा समं पतिट्ठापेन्तीति दस्सेन्तो आह ‘‘ओलिखित्वा सन्निसीदापेन्ती’’ति. दन्तमयादीसूति आदिसद्देन अट्ठिमयादयो सङ्गण्हाति. हत्थफणेनाति हत्थसङ्खातेन फणेन. चिक्खल्लेनाति चिक्खल्लसदिसेन निय्यासेन. उदकतेलेनाति एत्थ उदकञ्च तेलञ्चाति च उदकसङ्खातेन तेलेनाति च अत्थं निवत्तेन्तो आह ‘‘उदकमिस्सकेन तेलेना’’ति. इमिना उदकेन मिस्सकं तेलं उदकतेलन्ति वचनत्थं दस्सेति. उट्ठलोमेति उट्ठितलोमे. हत्थं तेमेत्वाति हत्थं उदकतेलेन तेमेत्वा. उण्हाभितत्तरजोकिण्णसिरानम्पीति उण्हेन अभितत्तो च रजेहि ओकिण्णसिरो च उण्हाभितत्तरजोकिण्णसिरा, अथ वा उण्हेन अभितत्तो सिरो एतेसन्ति उण्हाभितत्तसिरा, रजेहि ओकिण्णो सिरो एतेसन्ति रजोकिण्णसिरा, उण्हाभितत्तसिरा च रजोकिण्णसिरा च उण्हाभितत्तरजोकिण्णसिरा, पुब्बपदे उत्तरपदलोपो, तेसम्पि. अल्लहत्थेनाति अद्दहत्थेन, अयमेव वा पाठो.
२४७. येसु कंसपत्तादीसु मुखनिमित्तं पञ्ञायति, सब्बानि तानि कंसपत्तादीनिपीति योजना. यत्थ कत्थचीति यस्मिं कस्मिंचि आदासे वा उदकपत्ते वाति सम्बन्धो. सञ्छवि नु खोति सञ्जाता छवि नु खो, अहं जिण्णो अम्हि नु खो, नोति योजना.
मुखं आलिम्पन्तीति एत्थ केहि आलिम्पन्तीति आह ‘‘विप्पसन्नछविरागकरेहि मुखलेपनेही’’ति. ‘‘मनोसिलाया’’ति इमिना मनोसिला एव मनोसिलिकाति दस्सेति. तानीति लञ्छनानि. हरितालादीहिपीति पिसद्देन न केवलं मनोसिलिकाय एव, अथ खो हरितालादीहिपीति दस्सेति.
२४८. न भिक्खवे नच्चं वातिआदीसु एवं विनिच्छयो वेदितब्बोति योजना. निच्चापेन्तस्स वाति परेहि नच्चापेन्तस्स वा. साधुगीतन्ति सुन्दरं अनिच्चतादिपटिसंयुत्तं गीतं, सज्जनानं वा. दन्तगीतम्पि न वट्टतीति सम्बन्धो. यन्ति गीतं. पुब्बभागेति गायनतो पुब्बभागे. गायापेन्तस्सापीति परेहि वा गायापेन्तस्सापि. यं पनाति किरियापरामसनं. यं पहरति, तत्थ पहरणे अनापत्तीति योजना. सब्बन्ति अखिलं नच्चगीतवादितं. पस्सतोति पस्सन्तस्स च सुणन्तस्स च. सवनम्पि हि एकसेसेन वा सामञ्ञनिद्देसेन वा पस्सनेनेव सङ्गहितं. विहारतोति अनच्चअगीतअवादितट्ठानविहारतो. विहारन्ति नच्चगीतवादितट्ठानविहारं. असनसालायाति गामे ठिताय असनसालाय.
२४९. सरकिरियन्ति सरस्स किरियं. इमिना सरकुत्तिन्ति एत्थ सरस्स करणं सरकुत्तीति वचनत्थं दस्सेति. अलद्धं समाधिन्ति सम्बन्धो. पच्छिमा जनताति एत्थ समूहिं अवयवं विना समूहस्स अवयविनो अभावा तापच्चयो स्वत्थोपि होतीति आह ‘‘पच्छिमो जनो’’ति. तं तं वत्तन्ति सुत्तन्तवत्तादिं तं तं वत्तं. अक्खरानि विनासेत्वाति अञ्ञथा वत्तब्बानि अक्खरानि अञ्ञथा वदनेन च दीघादीनि रस्सादिवदनेन च विनासेत्वा. धम्मे पनाति एत्थ सद्दो पन विसेसजोतको. गीततो विसेसोव वेदितब्बोति हि अत्थो. सुत्तन्तवत्तन्ति सुत्तन्तस्स उच्चारणं वत्तं. एसेव नयो ‘‘जातकवत्तं गाथावत्त’’न्ति एत्थापि. तन्ति वत्तं. यदि पन तं विनासेत्वा अतिदीघं कातुं न वट्टति, एवं सति यथा सुत्तन्तवत्तादीनि होन्ति, तथा कथं दस्सेतब्बानीति आह ‘‘चतुरस्सेन वत्तेना’’तिआदि. तत्थ चतुरस्सेन वत्तेनाति परिपुण्णेन उच्चारणवत्तेन. परिमण्डलानीति समन्ततो मण्डलानि बिम्बानि पुण्णानीति अत्थो. ‘‘सरेन भणित’’न्ति इमिना सरभञ्ञन्ति एत्थ सरेन भणितब्बन्ति सरभञ्ञन्ति वचनत्थं दस्सेति. सरभञ्ञे किर अत्थीति सम्बन्धो. तरङ्गवत्थादीनं उच्चारणविधानानि (वजिर. टी. चूळवग्ग २४९; सारत्थ. टी. चूळवग्ग ३.२४९; वि. वि. टी. चूळवग्ग २.२४८-९) एतरहि नत्थि. द्वत्तिंसवत्तानीति च सङ्ख्यामत्तमेव अत्थि, न सङ्ख्येय्यं. तस्मा टीकासु (सारत्थ. टी. चूळवग्ग ३.२४९; वजिर. टी. चूळवग्ग. २४९) ‘‘तरङ्गवत्तादीनं उच्चारणविधानानि नट्ठपयोगानी’’ति वुत्तं. अत्थीति संविज्जन्ति. अयञ्हि अत्थिसद्दो निपातो. तेसूति द्वत्तिंसवत्तेसु. यन्ति वत्तं. उच्चारणविधानानि नट्ठपयोगानिपि तेसं सब्बेसं सामञ्ञलक्खणं दस्सेन्तो आह ‘‘सब्बेस’’न्तिआदि. तत्थ सब्बेसन्ति द्वत्तिंसवत्तानं, लक्खणन्ति सम्बन्धो. ‘‘अविनासेत्वा’’ति वत्वा तमेवत्थं पाकटं करोन्तो आह ‘‘विकारं अकत्वा’’ति. तत्थ विकारकरणं नाम यत्तकाहि मत्ताहि अक्खरं परिपुण्णं होति, ततो अधिकमत्तायुत्तं कत्वा कथनं, तथा अकत्वा समणसारुप्पेन चतुरस्सेन नयेन पवत्तनंयेव लक्खणन्ति अत्थो.
बाहिरलोमिं उण्णिन्ति एत्थ ‘‘बाहिरलोमि’’न्ति पदं भावनपुंसकन्ति आह ‘‘उण्णलोमानि बहि कत्वा’’ति. ‘‘उण्णपावार’’न्ति इमिना उण्णीति एत्थ उत्तरपदलोपं दस्सेति. अथ वा पावारपदेन उण्णा एतस्स अत्थीति उण्णीति कत्वा तद्धितपच्चयस्स सरूपं दस्सेति. ‘‘तथा धारेन्तस्स दुक्कट’’न्ति वचनस्स अत्थापत्तिनयं दस्सेन्तो आह ‘‘लोमानि अन्तो कत्वा पारुपितुं वट्टती’’ति.
२५१. अङ्गजातं छिन्दन्तस्सेवाति अङ्गजातमेव छिन्दन्तस्साति योजना. अथ वा अङ्गजातं छिन्दन्तस्स थुल्लच्चयमेवाति योजना. अहिकीटदट्ठादीसु निमित्तभूतेसु छिन्दन्तस्साति योजना.
२५२. उप्पन्ना होतीति पटिलाभवसेन उप्पन्ना होति. उप्पन्नभावं पाकटं करोन्तो आह ‘‘सो’’तिआदि. तत्थ सोति राजगहको सेट्ठि, कीळतीति सम्बन्धो. तस्साति सेट्ठिस्स. इदं पदं ‘‘जाले’’ति पदे साम्यत्थछट्ठी, ‘‘उप्पन्ना होती’’ति पदे सम्पदानं. तन्ति चन्दनगण्ठिं. अस्साति सेट्ठिस्स. इदं पदं ‘‘पुरिसा’’ति पदे साम्यत्थछट्ठी, ‘‘अदंसू’’ति पदे सम्पदानं. विकुब्बनिद्धीति विविधं, विकारं वा कुब्बनवसेन पवत्ता इद्धि (पटि. म. ३.१२-१६; विसुद्धि. २.३६९-३७३). अधिट्ठानिद्धीति अधिट्ठानवसेन पवत्ता इद्धि (पटि. म. ३.१२-१६; विसुद्धि. २.३६९-३७३).
गिही उपनामेन्तीति सम्बन्धो. ब्यञ्जनं कत्वाति ब्यञ्जनं पक्खिपनं कत्वा. तन्ति सुवण्णतट्टिकादिं. आमसितुम्पीति पिसद्दो पगेव पटिग्गण्हितुन्ति दस्सेति. सङ्घिकपरिभोगेन वाति वासद्दो पनसद्दत्थो. सङ्घिकपरिभोगेन पनाति हि अत्थो. गिहिविकटानि वाति वासद्दो सम्पिण्डनत्थो. गिहिविकटानि भाजनानिपि वट्टन्तीति हि अत्थो. कंसलोहवट्टलोहानं सभागत्ता वुत्तं ‘‘कंस…पे… सङ्गहितो’’ति.
२५३. ‘‘लिखितु’’न्ति एतं वुत्तन्ति योजना. पकतिमण्डलन्ति एत्थ किं मकरदन्तमत्तम्पि अच्छिन्नमण्डलन्ति आह ‘‘मकरदन्तच्छिन्नकमण्डलमेवा’’ति.
२५४. पहरित्वाति आवट्टनतो अञ्ञमञ्ञं पहरित्वा. तयो पत्ते उपरुपरि ठपेतुं वट्टतीति सम्बन्धो. भूमिआधारको नाम भूमिया आसन्नो दन्तादीहि कतो वलयाधारको. दारुआधारको नाम एकदारुना कतो आधारको. दण्डाधारको नाम चतुदण्डतो पट्ठाय बहूहि दण्डेहि कतो आधारको. तत्थाति भमकोटिसदिसदारु आधारकतिदण्डकाधारेसु. गहेत्वा एवाति पत्तं गहेत्वा एव, एकमेव ठपेतब्बं इति वुत्तन्ति योजना.
तत्थेवाति मिड्ढन्तेयेव. वित्थिण्णायाति वित्थाराय. बाहिरपस्सेति कुट्टस्स बाहिरपस्से. कतायाति कुट्टस्स थिरभावत्थं कताय. एत्थाति परिभण्डन्ते.
यं वत्थं पत्थरित्वा पत्तो ठपियतीति वत्थं चोळकं नामाति योजना. तस्मिं पनाति चोळके पन. यत्थाति यस्सं वालिकायं. न दुस्सतीति पत्तो न दुस्सति. पत्तमाळकन्ति पत्तस्स ठपनत्थाय कतं अट्टं. भण्डकुक्खळिकाति पत्तादिभण्डकानं पक्खिपना उक्खळिका. यत्थ कत्थचीति भित्तिखीलादिके यस्मिं कस्मिंचि. लग्गेन्तस्साति पत्तं थविकाय लग्गेन्तस्स. निसीदनसयनत्थं वा कतं होतूति योजना. अञ्ञेनाति पत्ततो अञ्ञेन. अट्टकछन्नेनाति अट्टपतिरूपेन, अट्टकसदिसेनाति अत्थो. तत्थाति अट्टकछन्नेन ठपिते मञ्चपीठे. अंसे बद्धियति अनेनाति अंसबद्धो, सोयेव अंसबद्धको, तेन लग्गेत्वाति सम्बन्धो. छत्ते ठपेतुं न वट्टतीति सम्बन्धो. भत्तेन पूरो भत्तपूरो, पत्तो. बन्धित्वा ठपिते छत्ते वा अट्टकं कत्वा ठपिते छत्ते वाति योजना. यो कोचि भत्तपूरोपि तुच्छपत्तोपीति सम्बन्धो.
२५५. यस्साति भिक्खुनो. हत्थे पत्तो अत्थि, सो एव भिक्खु पत्तहत्थो न होति, अपिच खो पन हत्थे वा पिट्ठिपादे वा यत्थ कत्थचि सरीरावयवे पत्तस्मिं सतीति योजना. एसेव नयो अनन्तरवाक्येपि. इमेहि वाक्येहि ‘‘पत्तहत्थो’’ति च ‘‘कवाटं पणामेतु’’न्ति च उपलक्खणमत्तमेवाति दस्सेति. सूचिं वा अवापुरितुन्ति सम्बन्धो. कुञ्चिकाय वाति वासद्दो ‘‘सरीरावयवेना’’ति पदं अपेक्खति.
लाबुकटाहन्ति लम्बतीति लाबु, लाबुया कटाहं लाबुकटाहं. ‘‘तावकालिक’’न्ति इमिना एकवारमेव तेन आमिसं गहेत्वा परिभुञ्जित्वा छड्डेतब्बन्ति दस्सेति. घटिकपालन्ति भाजनकपालं. अभुं मेति अवड्ढि मय्हं, उप्पज्जित्थाति अत्थो. ‘‘अभु मे’’ति (म. नि. अट्ठ. २.१४९; म. नि. टी. २.१४९) वत्तब्बे निग्गहितागमवसेन एवं वुत्तं. उत्रासवचनन्ति उत्रासेन वचनकारणं पदं. दिन्नकमेवाति परेहि दिन्नकमेव आमिसन्ति सम्बन्धो.
चम्बेत्वाति मुखेन चम्बेत्वा. अपविद्धामिसानीति छड्डितानि आमिसानि. एतेसूति चलकादीसु. अनुच्छिट्ठं सुद्धपत्तन्ति नत्थि उच्छिट्ठो एत्थाति अनुच्छिट्ठो, सुद्धपत्तो, तं. उच्छिट्ठहत्थेनाति उच्छिट्ठो एत्थ अत्थीति उच्छिट्ठो, सोयेव हत्थो उच्छिट्ठहत्थो, तेन. वामहत्थेन आसिञ्चित्वाति सम्बन्धो. एत्थाति सुद्धपत्ते. एत्तावतापीति एत्तकेन एकउदकगेण्डुसगहणमत्तेनापि. सोति सुद्धपत्तो. हत्थं पनाति उच्छिट्ठहत्थम्पि. पनसद्दो हेत्थ सम्पिण्डनत्थो. यं अट्ठिं वा यं चलकं वाति योजना. तत्थाति मच्छमंसफलादीसु. तन्ति अट्ठिचलकं. यं पनाति अट्ठिचलकादिं पन, पटिखादितुकामोति सम्बन्धो, पुन खादितुकामोति अत्थो. तत्थेवाति पत्ते एव. कत्वाति ठपनं कत्वा. यं किञ्चि अट्ठिकण्टकादिन्ति सम्बन्धो.
२५६. सत्थकवेठनकन्ति सत्थकस्स वेठनकरणं. पिप्फलिकं वा दण्डसत्थकं नामाति योजना. पिप्फालेति एतायाति पिप्फलि, सायेव पिप्फलिकं. अञ्ञम्पीति पिप्फलिकतो अञ्ञम्पि. यंकिञ्चि दण्डं योजेत्वा कतसत्थकं वा दण्डसत्थकं नामाति योजना. इमिना दण्डेन योजितं सत्थकं दण्डसत्थकन्ति वचनत्थं दस्सेति.
मलग्गहिताति अयमलग्गहिता. किण्णेनाति मदिरादिबीजेन किण्णेन. तेनाति पासाणचुण्णसङ्खातेन सरितकेन. मक्खेतुन्ति सूचिं मक्खेतुं. मक्खितमधुसित्थकं तं सरितकं परिभिज्जतीति योजना. मधुसित्थकपिलोतिकन्ति मधुसित्थकेन मक्खितं पिलोतिकं. तत्थाति निस्सेणियं. याय रज्जुया कथिने बन्धन्ति, सा रज्जु कथिनरज्जु नामाति योजना. तत्थाति दीघस्स भिक्खुनो पमाणेन कते कथिने. दण्डकेति कथिनदण्डकम्हि. तस्साति दीघस्स भिक्खुनो पमाणेन कतस्स कथिनस्स. इतरस्स भिक्खुनोति दीघभिक्खुतो इतरस्स रस्सभिक्खुनो.
दण्डकथिनपमाणेन कतस्स कटसारकस्साति योजना. ‘‘दुगुणकरण’’न्ति इमिना पिदलकन्ति दुगुणकरणसङ्खातस्स किरियाविसेसस्स नामन्ति दस्सेति. विनन्धनरज्जुन्ति विसेसेन नहियति बन्धियति एतायाति विनन्धना, सायेव रज्जु विनन्धनरज्जु, तमेवत्थं दस्सेतुं वुत्तं ‘‘विनन्धितुं रज्जु’’न्ति. विनन्धनसुत्तकन्ति एत्थापि एसेव नयो. तेन सुत्तकेनाति विनन्धनसुत्तकेन. तत्थाति खुद्दकनिस्सेणियं काचि सुत्तन्तरिकायोति सम्बन्धो. पमाणसञ्ञाकरणन्ति सुत्तन्तरिकपमाणस्स सञ्ञाकरणं. काळसुत्तेन सञ्ञाकरणं विय हलिद्दिसुत्तेन सञ्ञाकरणन्ति योजना. अङ्गुलिया पटिग्गण्हन्तीति एत्थ ‘‘पटिग्गण्हन्ती’’ति पदस्स ‘‘अङ्गुलिया’’ति करणस्सेव वुत्तत्ता कम्मस्स अवुत्तत्ता तस्स कम्मं दस्सेतुं वुत्तं ‘‘सूचिमुख’’न्ति. अङ्गुलिकोसकन्ति अङ्गुलिकञ्चुकं.
२५७. पातिचङ्कोटकादिन्ति एत्थ पाति नाम पटिग्गहसण्ठानेन कतो सूचिआदिभण्डट्ठपनो भाजनविसेसो. आकिरित्वाति पक्खिपित्वा. ओधुनित्वाति पप्फोटेत्वा. घनदण्डकन्ति निरन्तरदण्डकं. अन्तोकत्वाति कथिनस्स अन्तोकत्वा.
२५८. विनन्धित्वाति चोळकेन विनन्धित्वा.
२५९. अपरिस्सावनकस्सेव भिक्खुनोति योजना. यो पन याचतीति सम्बन्धो. मज्झेदण्डकेति दण्डकस्स मज्झे. उदकन्ति अकप्पियउदकं. तन्ति उदकं. यन्ति परिस्सावनं. उदकं परिसुद्धं हुत्वा सवति गच्छति पवत्तति अनेनाति परिस्सावनं. यं उदके ओत्थरित्वा घटेन उदकं गण्हन्ति, तं ओत्थरकं नामाति योजना. तमेवत्थं वित्थारेन्तो आह ‘‘तं ही’’तिआदि. तन्ति परिस्सावनं, बन्धित्वाति सम्बन्धो. तेसूति चतूसु खाणुकेसु. सब्बपरियन्तेति सब्बपरिस्सावनस्स परियन्ते मोचेत्वाति सम्बन्धो. ओत्थरित्वाति ओगाहेत्वा. चीवरकुटिकाति चीवरेन कता कुटिका, सा मकसानं परित्ताणत्थं कतत्ता मकसकुटिकाति वुच्चति.
२६०. सेम्हादिदोसुस्सन्नकायाति सेम्हादिदोसेहि उस्सन्नकाया. अग्गळत्थम्भोति कवाटत्थम्भो. यत्थाति अग्गळत्थम्भे. तत्थाति द्वारबाहाय. तत्थाति अग्गळपासके. धूमो निक्खमति एतेनाति धूमनेत्तो, छिद्दो. तेन वुत्तं ‘‘धूमनिक्खमनछिद्द’’न्ति. ‘‘गन्धेही’’ति इमिना ‘‘वासेतु’’न्ति पदस्स करणं दस्सेति. ‘‘उदकट्ठपनट्ठान’’न्ति इमिना उदकट्ठानन्ति एत्थ उदकस्स ठपनं ठानं उदकट्ठानन्ति मज्झेपदलोपसमासं दस्सेति. तत्थाति उदकट्ठाने. कोट्ठकोति एत्थ न यत्थ कत्थचि, यस्स कस्सचि वा कोट्ठको होति, अपि च खो पन द्वारे एव, द्वारस्सेव वा कोट्ठकोति आह ‘‘द्वारकोट्ठको’’ति.
२६१. परिकम्मन्ति पिट्ठिआदिपरिकम्मं. पटिच्छादियति इमायाति पटिच्छादि, वत्थमेव पटिच्छादि वत्थपटिच्छादि. उदकं न होतीति एत्थ पानोदकं निवत्तेन्तो आह ‘‘न्हानोदकं न होती’’ति.
२६२. पण्णिकानं तुलं विय उदकउब्बाहनकतुलन्ति योजना. दीघवरत्तादीहीतिआदिसद्देन रज्जु आदयो सङ्गण्हाति. अरहत्थघटियन्तं नाम चक्कसण्ठानं अनेकारं अरे अरे घटानि बन्धित्वा एकेन वा द्वीहि वा परिब्भमियमानं यन्तं. अरसङ्खातेसु हत्थेसु घटा बन्धितब्बा एत्थाति अरहत्थघटि, तमेव यन्तं अरहत्थघटियन्तं. चम्मभाजनन्ति चम्ममयं भाजनं. अपरिक्खित्ता होतीति चन्दनिका अपाकारा होति. उदकपुञ्जनं वट्टतीति सम्बन्धो. तस्मिन्ति उदकपुञ्जने. ‘‘उदकपुञ्जनी’’तिपि पाठो. एवं सति ताय उदकपुञ्जनियाति अत्थो. पच्चुद्धरितुन्ति अपनेतुं.
२६३. आ समन्ततो विद्धं पक्खपासकमेत्थाति आविद्धपक्खपासकं. मण्डलेति कण्णिकमण्डलम्हि. कतं कूटञ्च छदनञ्च एत्थाति कतकूटच्छदनं, जन्ताघरं, तस्स. एतन्ति ‘‘निल्लेखजन्ताघर’’न्ति एतं नामं. ‘‘चत्तारो मासे’’ति इमिना ‘‘चतुमास’’न्ति दिगुसमासस्स वाक्यं दस्सेति.
२६४. नमतकन्ति एत्थ हेट्ठा वुत्तनमतकतो (चूळव. अट्ठ. २५६) विसेसं दस्सेन्तो आह ‘‘एळकलोमेही’’तिआदि. अवायिमन्ति वायित्वा न कतं. चम्मखण्डपरिहारेनाति चम्मखण्डं विय अधिट्ठानविकप्पनअपनयनेन, परिभुञ्जितब्बन्ति अत्थो. पेळायाति अट्ठंसादिआकारेन कताय मञ्जूसाय. एतन्ति ‘‘आसित्तकूपधान’’न्ति एतं नामं. दारुमयापीति पिसद्दो न तम्बलोहरजतमया एवाति दस्सेति. एत्थेवाति मळोरिकायमेव. आधारकसङ्खेपगमनतोति आधारके सङ्खेपं गमनतो. हीति सच्चं, यस्मा वा. पुब्बे पत्तरक्खनत्थं आधारको अनुञ्ञातो, इदानि भुञ्जनत्थन्ति दट्ठब्बं. एको भिक्खु गच्छतीति सम्बन्धो. सेसकन्ति गहेतब्बफलपूवेहि सेसकं. तस्मिं खणेति तस्मिं भुञ्जनक्खणे.
२६५. एकेकेनपि अङ्गेनाति पिसद्दो सम्भावनत्थो, ततो पन अधिकेहि अङ्गेहि पगेवाति हि अत्थो. समन्नागतस्स उपासकस्स निक्कुज्जितुन्ति सम्बन्धो. तस्साति उपासकस्स. न गहेतब्बोति सङ्घेन न गहेतब्बो. असुकस्स उपासकस्साति सम्बन्धो. उक्कुज्जनकालेति पत्तस्स उक्कुज्जनकाले. याचापेत्वाति पत्तनिकुज्जितेन उपासकेन याचापेत्वा. हत्थपासन्ति सङ्घस्स हत्थपासं.
२६८. पुरक्खत्वाति एत्थ पुरसद्दस्स अग्गत्थभावञ्च करसद्दस्स खादेसभावञ्च दस्सेन्तो आह ‘‘अग्गतो कत्वा’’ति. सोति बोधिराजकुमारो, सन्थरीति सम्बन्धो. लच्छामीति लभिस्सामि, एस बोधिराजकुमारो पुत्तलाभाय अभब्बोति योजना. अक्कमने दोसं दस्सेन्तो आह ‘‘यदी’’तिआदि. पच्छाति अक्कमनतो पच्छा. अयन्ति भगवा. इदन्ति कारणं. तावाति सिक्खापदपञ्ञत्तितो, सिक्खापदपञ्ञत्तिया वा पठमं. परिभवतोति गिहीनं परिभवतो.
मङ्गलत्थायाति अरोगादिकस्स मङ्गलस्स अत्थाय. धोतपादकन्ति एत्थ धोतेहि पादेहि अक्कमनट्ठाने अत्थरितं धोतपादकन्ति वचनत्थं दस्सेन्तो आह ‘‘धोतपादकं नामा’’तिआदि. तत्थ ‘‘पच्चत्थरणं अत्थत’’न्ति इमिना ‘‘धोतपादक’’न्ति एत्थ णिकपच्चयस्स अत्थरितत्थे पवत्तभावं दस्सेति.
२६९. पदुमकण्णिकाकारन्ति पदुमकण्णिकसण्ठानं. कतं पादघंसनं कतकं नामाति योजना. तन्ति कतकं, पटिक्खित्तमेवाति सम्बन्धो. पोत्थकेसु तंसद्दो गलितोति दट्ठब्बो. बाहुल्लिकानुयोगत्ताति पच्चयबहुलभावाय अनुयोगत्ता. पासाणफेणकोपीति पासाणअब्बुदम्पि. बीजनीति चतुरस्सबीजनी. तन्ति विधूपनं, कतं होतूति सम्बन्धो. इधापि तंसद्दो गलितो. वेळुदन्तविलीवेहि वा मोरपिञ्छेहि वा चम्मविकतीहि वा कतं होतूति योजना. सब्बं विधूपनन्ति सम्बन्धो. पाळियं तालवण्टन्ति सह वण्टेन कतं तालं तालवण्टं, तालसद्देन तंमया मण्डलबीजनी गहेतब्बा विकारीविकारभावेन सम्बन्धत्ता. मकसबीजनीति मकसानं पलायनकबीजनी, दन्तमयविसाणमयदण्डकापि मकसबीजनी वट्टतीति योजना. ‘‘वाकमयबीजनिया’’ति पदं ‘‘सङ्गहिता’’ति पदे आधारो, करणं वा.
२७०. यस्साति भिक्खुस्स चक्खुं वा दुब्बलं होतीति योजना. अञ्ञोति कायडाहादीहि आबाधेहि अञ्ञो, कोचि आबाधो वा उप्पज्जतीति योजना. ‘‘वस्से पना’’ति पदं ‘‘चीवरगुत्तत्थ’’न्ति पदे एव सम्बन्धितब्बं. चीवरगुत्तत्थन्ति चीवरस्स वस्सतेमनतो गुत्तत्थं, वाळमिगचोरभयेसु सन्तेसूति सम्बन्धो. तालपण्णादिना एकेन पण्णेन कतं छत्तं एकपण्णच्छत्तं. सब्बत्थेवाति सब्बेसु एव गामारञ्ञेसु.
‘‘असि अस्सा’’ति इमिना असिस्साति पदस्स अनवकासविधिं दस्सेति. असीति खग्गो. अस्साति चोरस्स, असीति सम्बन्धो. विज्जोतलतीति एत्थ अलपच्चयो रूपसिद्धिमत्तोवाति आह ‘‘विज्जोतती’’ति. ‘‘चतुहत्थोयेवा’’ति इमिना पमाणयुत्तोति पदस्स अत्थं दस्सेति. ततोति चतुहत्थतो. सब्बेसन्ति गिलानागिलानानं. ‘‘सक्का पना’’ति पदं ‘‘न वट्टती’’ति पदे कत्ता, ‘‘दातब्बा’’ति पदे कम्मं. सम्मन्नित्वाव दातब्बा, न विना सम्मुतियाति अधिप्पायो.
२७३. आगतन्ति उदरियतो निक्खमित्वा आगतं. उग्गारन्ति गलतो उग्गारं भोजनन्ति सम्बन्धो. सन्धारेत्वाति पतिट्ठापेत्वा. असन्धारितमेव हुत्वाति सम्बन्धो.
यन्ति खादनीयभोजनीयं, पतितन्ति सम्बन्धो. तन्ति खादनीयभोजनीयं, गहेत्वा परिभुञ्जितुन्ति सम्बन्धो. इदन्ति वचनं.
२७४. कुब्बं करिस्सामीति एत्थ करियति उच्चारियतीति कुब्बन्ति वुत्ते सद्दोति आह ‘‘सद्दं करिस्सामी’’ति. सद्दन्ति ‘‘अयं मं भिक्खु विप्पकरोती’’ति उच्चासद्दं. नखादीहीतिआदिसद्देन मुखकुट्टे सङ्गण्हाति. अनुरक्खनत्थन्ति अनुदयेन पालनत्थं. नखच्छेदनन्ति नखं छिन्दति अनेनाति नखच्छेदनं, सत्थकादि. वीसतिमट्ठन्ति एत्थ वीसतिया नखानं मट्ठं वीसतिमट्ठन्ति दस्सेन्तो आह ‘‘वीसतिपि नखे’’तिआदि. लिखितमट्ठेति लिखिते हुत्वा मट्ठे. कारापेन्तीति नहापिते कारापेन्ति. नखतोति नखतो वा नखन्तरतो वा. अपकड्ढितुन्ति कड्ढित्वा अपनेतुं.
२७५. खुरकोसकन्ति खुरस्स ठपनकं. कत्तरियाति कन्तियति छिन्दियति इमायाति कत्तरि, अयोमयो एको उपकरणविसेसो, ताय. ‘‘छेदापेन्ती’’ति इमिना कप्पापेन्तीति एत्थ कप्पसद्दस्स विध्यत्थं अधिप्पायेन दस्सेति. मस्सुं वड्ढापेन्तीति एत्थ मस्सुं वड्ढेत्वा रुहापेन्तीति अत्थं पटिक्खिपन्तो आह ‘‘मस्सुं दीघं कारापेन्ती’’ति. एळकमस्सूति एळकस्स विय मस्सूति एळकमस्सु. ‘‘गोलोमिक’’न्ति वुच्चतीति सम्बन्धो. ‘‘चतुकोण’’न्ति इमिना चतुरस्सन्ति एत्थ अंससद्दो कोणत्थोति दस्सेति. चतुरस्सन्ति एत्थ हि ‘‘चतुरंस’’न्ति वत्तब्बे निग्गहितस्स लोपं कत्वा परस्स सकारस्स द्वेभावं कत्वा ‘‘चतुरस्स’’न्ति वुत्तं. लोमसंहरणन्ति लोमानं अपनयनं. लोमराजिट्ठपनन्ति लोमलेखाठपनं. सब्बत्थाति सब्बेसु, मस्सुकप्पनादीसूति सम्बन्धो. गण्डवणरुधिआबाधपच्चयाति गण्डो च वणो च रुधि च गण्डवणरुधयो, तेयेव आबाधा गण्डवणरुधिआबाधा, तेसं पच्चया. वणोति महन्तो वणो. रुधीति खुद्दको वणो. सक्खरादीहीति सक्खरमधुसित्थकेहि. सण्डासोति सुट्ठु लोमं डंसतीति सण्डासो. यन्ति लोमं, ठितन्ति सम्बन्धो. कत्थ ठितन्ति आह ‘‘भमुकाय वा’’तिआदि. किं हुत्वा ठितन्ति आह – ‘‘उग्गन्त्वा विभच्छं ठित’’न्ति, विभच्छं हुत्वा ठितन्ति योजना. विसेसेन सोभणं भक्खतीति विभच्छो, असोभणो. ‘‘विगच्छ’’न्तिपि पाठो, विरूपं गच्छति, गमयतीति वा विगच्छो. तत्थ पुरिमपाठोयेव मूलपाठोति दट्ठब्बोति. पलितं वा अपलितं वा तादिसं लोमन्ति योजना.
२७७. कंसपत्थरिकाति एत्थ कंसआपणे पत्थरन्ति पसारेन्तीति कंसपत्थरिकाति वुत्ते कंसभण्डवाणिजा गहेतब्बाति आह ‘‘कंसभण्डवाणिजा’’ति. वासिदण्डादीनं अपातनत्थं बन्धति अनेन लोहेनाति बन्धनं, तमेव मत्तं अप्पन्ति बन्धनमत्तं.
२७८. निक्खमन्तेनाति आरामतो निक्खमन्तेन. यत्थाति यस्मिं ठाने. ‘‘सरित्वा’’ति इमिना असरित्वा पिण्डाय चरितब्बन्ति दस्सेति. बहुरज्जुकन्ति बहू रज्जुयो एतस्साति बहुरज्जुकं. इमिना कलापेन बहुरज्जूनं समूहेन कत्तब्बन्ति कलापुकन्ति वचनत्थं दस्सेति, इकारस्सुकारो. देड्डुभकन्ति एत्थ देड्डुभसद्देन तस्स सीसं गहेतब्बं एकदेसूपचारेन, देड्डुभं वियाति देड्डुभकं, सदिसत्थे कपच्चयो होति. तेन वुत्तं ‘‘उदकसप्पसीससदिस’’न्ति. ‘‘मुरजवट्टिसण्ठान’’न्ति इमिना मुरजसद्देन मुरजवट्टि गहेतब्बा तस्स विकारत्ता, तेन सदिसं मुरजन्ति वचनत्थं दस्सेति. वेठेत्वाति बहुरज्जुके एकतो वेठेत्वा. मद्दवीणसद्दो पामङ्गपरियायो. मद्दवीणं वियाति मद्दवीणं. तेन वुत्तं ‘‘पामङ्गसण्ठान’’न्ति. ‘‘पगेव बहूनी’’ति इमिना ‘‘एकम्पी’’ति एत्थ पिसद्दस्स सम्भावनत्थं दस्सेति. मच्छकण्टकवायिमाति मच्छकण्टकं विय दस्सेत्वा वायिमा. कुञ्जरच्छिकादिभेदाति वारणअच्छिकादिभेदा. वारणो हि कुं भूमिं जरापेतीति कुञ्जरोति (वि. व. अट्ठ. ३१; अ. नि. टी. १.१.२) च कुञ्जे निकुञ्जे रमतीति कुञ्जरोति च वुच्चति. तस्स अच्छि वियाति कुञ्जरच्छिकं, तं आदि येसं तानीति कुञ्जरच्छिकादीनि, तेसं भेदाति कुञ्जरच्छिकादिभेदा. आदिसद्देन गोणच्छिकादयो सङ्गण्हाति. ‘‘कुञ्चिकाकोसकसण्ठान’’न्ति इमिना सूकरस्स अन्तं विय सूकरन्तकन्ति अत्थं दस्सेति. सूकरस्स हि अन्तं कुञ्चिकाकोसकं विय मज्झे सुसिरो होति. सूकरन्तकं अनुलोमेतीति सूकरन्तकेन अनुलोमेति. दसासुयेवाति कायबन्धनस्स अन्तेसुयेव. एत्थाति दसासु. ‘‘चतुन्नं उपरि न वट्टती’’ति इमिना मुरजदसा ततो उपरि वट्टतीति दस्सेति. वेठेत्वाति रज्जुं वत्थेन वेठेत्वा. मुद्दिकसण्ठानेनाति वरकसीससण्ठानेन. एवं सिब्बिताति एवं सिब्बियमाना. हीति फलजोतको. पासन्तोति पासकोटि.
२८०. ओलम्बकं कत्वा निवत्थं हत्थिसोण्डकं नामाति योजना. चोळिकइत्थीनन्ति चोळरट्ठे निवासीनं इत्थीनं. हत्थिया सोण्डो विय हत्थिसोण्डकं निवत्थं. मच्छवालं वियाति मच्छवालकं. चत्तारो कण्णा एतस्स निवत्थस्साति चतुकण्णकं. तालवण्टं वियाति तालवण्टकं. सतं वलिनो एतस्स निवत्थस्साति सतवलिकं. ‘‘अनेकक्खत्तु’’न्ति इमिना ‘‘सतवलिक’’न्ति एत्थ सतसद्दस्स अनेकत्थवाचकतं दस्सेति. ‘‘वामदक्खिणपस्सेसु वा’’ति इमिना पुरिमनिवत्थं कटितो पट्ठाय हेट्ठा निवत्थं नामाति दस्सेति.
संवल्लित्वा निवत्थं संवल्लियं. मल्लो च कम्मकारो च मल्लकम्मकारा, ते आदयो येसं तेति मल्लकम्मकारादयो. आदिसद्देन धुत्तादयो सङ्गण्हाति. यम्पि निवत्थं निवासेन्ति, सब्बं तं निवत्थं न वट्टतीति योजना. एकं वा कोणन्ति सम्बन्धो. कोणेति अन्तरवासकस्स कोणे. ‘‘तथा’’ति इमिना ‘‘एकं वा द्वे वा कोणे उक्खिपित्वा अन्तरवासकस्स उपरि लग्गेन्ती’’ति अत्थं अतिदिसति. अन्तोकासावस्स दस्सेत्वाति सम्बन्धो. द्वे निवासेन्तेन अगिलानेनाति योजना. सगुणन्ति अन्तोकासावेन बहिकासावं समानगुणं कत्वा. इतीतिआदि निगमनं. यञ्चाति यं निवत्थञ्च. इधाति खुद्दकवत्थुक्खन्धके. यञ्च सेखियवण्णनायं (पाचि. अट्ठ. ५७६ आदयो) पटिक्खित्तन्ति सम्बन्धो. सब्बं तं निवत्थन्ति योजना. निब्बिकारं कत्वाति सम्बन्धो. उभो कण्णेति हेट्ठा ठिते उभो कण्णे उपरि च ठिते उभो कण्णे. तन्ति परिमण्डलपारुपनं.
तत्थाति ‘‘गिहिपारुत’’न्ति वचने यंकिञ्चि अञ्ञथापारुतं अत्थीति सम्बन्धो. तस्माति यस्मा गिहिपारुतं नाम, तस्मा, परिमण्डलं पारुपितब्बन्ति सम्बन्धो. ‘‘यथा पारुपन्ति, यथा च ठपेन्ती’’तिआदिना योजना कातब्बा. तस्सेवाति दीघसाटकस्सेव. तस्सेवाति साटकस्सेव. पाळिकारकोति पाळिं गण्हन्तं वा वाचेन्तं वा कारको. तथाति यथा पारुपन्ति, तथा.
२८१. कुहिञ्चि ठानं गच्छतो रञ्ञोति योजना. ‘‘परिक्खारभण्डवहनमनुस्सा’’ति इमिना ते मनुस्सा मुण्डं सीसं चोळकेन वेठेन्तीति मुण्डवेठिनो नामाति दस्सेति. अधिप्पायोति उज्झायन्तानं मनुस्सानमधिप्पायो. अन्तराकाजन्ति एत्थ अन्तरासद्दो मज्झत्थवाचकोति आह ‘‘मज्झे’’ति. ‘‘लग्गेत्वा’’तिआदिना काजस्स अन्तरे लग्गेत्वा वहितब्बं अन्तराकाजन्ति वचनत्थं दस्सेति.
२८२. ‘‘चक्खूनं हित’’न्ति इमिना अचक्खुस्सन्ति एत्थ स्सपच्चयो चक्खुसद्दतो हितत्थे होतीति दस्सेति. पमाणङ्गुलेनाति वड्ढकीनं पमाणयुत्तेन अङ्गुलेन.
२८३. ‘‘तिणवनादीसू’’ति इमिना दायं आलिम्पेन्तीति एत्थ दायसद्दो वनवाचकोति दस्सेति. ‘‘अग्गिं देन्ती’’ति इमिना आपुब्बो लिपिधातु उपसग्गवसेन अग्गिदानत्थोति दस्सेति. परित्तन्ति एत्थ समन्ततो तायति अनेनाति परित्तन्ति दस्सेन्तो आह ‘‘अप्पहरितकरणेन वा परिखाखणेन वा परित्ताण’’न्ति. एत्थाति परित्तकरणे. दातुं लब्भतीति सयं दातुं लब्भति. हरितुन्ति अपनेतुं. पत्तं वा अपत्तं वा अग्गिन्ति सम्बन्धो. तथाति अग्गिदानादिना आकारेन. उदकेन निब्बापेन्तेन भिक्खुनाति सम्बन्धो.
२८४. सति करणीयेति एत्थ करणीयसद्दो किच्चपरियायोति आह ‘‘सुक्खकट्ठादिग्गहणकिच्चे’’ति. ‘‘सुक्खकट्ठादिग्गहण’’ इति पदेन किच्चसरूपं दस्सेति. ‘‘पुरिसप्पमाण’’न्ति इमिना पोरिसियन्ति एत्थ णियपच्चयो पमाणत्थे होतीति दस्सेति. पुरिसप्पमाणं नाम उपरि बाहुद्वयततस्स पुरिसस्स पमाणं. दिस्वा वा हुत्वा वा दिस्वाति योजना. अतिउच्चम्पीति पिसद्दो सम्भावनत्थो. नीचं पन रुक्खं पगेवाति हि अत्थो.
२८५. कल्याणवाक्करणाति एत्थ करियति उच्चारियतीति करणो, सद्दो, वाचायेव करणो वाक्करणो, कल्याणो वाक्करणो एतेसन्ति कल्याणवाक्करणाति दस्सेन्तो आह ‘‘मधुरसद्दा’’ति. वेदं वियाति सुतिं विय. वाचनामग्गन्ति वाचनाय उपायं. सकाति सम्मासम्बुद्धसङ्खातस्स सस्स अत्तनो एसा सका. तेन वुत्तं ‘‘सम्मासम्बुद्धेना’’ति. सम्मासम्बुद्धेन हि मागधनिरुत्तिया एव धम्मो भासितो, तस्मा सा मागधनिरुत्ति सका नामाति वुच्चति. निरुत्तीति अत्थं नीहरित्वा वुच्चते इमाय सद्दपञ्ञत्तियाति निरुत्ति, वचधातुस्स वकारस्स उकारो, सब्बवोहारो लब्भति. इध पन ‘‘सकाया’’ति वुत्तत्ता मागधवोहारो एव. तेन वुत्तं ‘‘मागधवोहारो’’ति. ‘‘सभावनिरुत्ती’’तिपि पाठो. एवञ्हि सति सब्बसत्तानं सभावेन पवत्ता मूलभासाभूता मागधनिरुत्तियेव.
२८६. लोकायतं नाम तित्थियसत्थन्ति सम्बन्धो. इमिनाव कारणेनाति ‘‘सेतो काको, कस्मा? अट्ठीनं सेतत्ता. रत्तो बको, कस्मा? लोहितस्स रत्तत्ता’’ इति (म. नि. अट्ठ. २.२२३; सं. नि. अट्ठ. ३.५.१०८०; अ. नि. १०.६९-७०) इमिना एव कारणेन.
२८८. अन्तरा अहोसीति एत्थ अन्तरसद्दो ब्यवधानत्थोति आह ‘‘अन्तरिता अहोसि पटिच्छन्ना’’ति. तेन सद्देन धम्मकथा ब्यवधाना अहोसीति अत्थो.
२८९. आबाधप्पच्चयाति एत्थ आबाधस्स भेसज्जसङ्खातो पच्चयो आबाधपच्चयोति दस्सेन्तो आह ‘‘यस्सा’’तिआदि. इमिना आबाधोयेव पच्चयो आबाधपच्चयोति अत्थं पटिक्खिपति.
२९३. दुक्कटवत्थु नाम अकप्पियवोहारादिना मालावच्छरोपनादि, पाचित्तियवत्थु नाम मालावच्छरोपनादिअत्थाय पथवीखणनादि. पहरणीति पहरति इमायाति पहरणी. एतन्ति ‘‘पहरणी’’ति एतं नामं. यस्स कस्सचि आवुधसङ्खातस्स लोहभण्डस्साति सम्बन्धो. तन्ति आवुधसङ्खातं लोहभण्डं. वुत्तमेवाति ‘‘कतकं नाम पदुमकण्णिकाकार’’न्तिआदिना (चूळव. अट्ठ. २६९) वुत्तमेव. धनियस्सेवाति धनियस्स एव. अञ्ञेसञ्हि कताय सब्बमत्तिकामयकुटिया अपाकटत्ता वुत्तं ‘‘धनियस्सेवा’’ति. अथ वा धनियस्स सब्बमत्तिकामयकुटि इवाति योजना. सब्बत्थाति सब्बस्मिं खुद्दकवत्थुक्खन्धके.
इति खुद्दकवत्थुक्खन्धकवण्णनाय योजना समत्ता.