४१. राहुलवत्थुकथा
१०५. कपिलवत्थूति एत्थ कपिलोति कळारवण्णो इसि वुच्चति, सो वसति एत्थाति कपिलवत्थु, अस्समो. तस्मिं ठाने मापितत्ता नगरम्पि कपिलवत्थूति (दी. नि. अट्ठ. १.२६७; सु. नि. अट्ठ. २.३६२) वुच्चति. अयन्ति वक्खमानकथा. सुद्धोदनमहाराजाति एत्थ सुद्धोदनोति तस्स रञ्ञो नामं. अथ वा सुद्धं ओदनं इमस्साति सुद्धोदनो, सोयेव महाराजा सुद्धोदनमहाराजा. विहरति किराति सम्बन्धो. सोति सुद्धोदनमहाराजा. राजगहन्ति राजगहनगरं. साधूति आयाचनत्थे निपातो. आयाचामीति हि अत्थो. मेति मम, पुत्तन्ति सम्बन्धो, अनादरे वा सामिवचनं. सोति अमच्चो. साधूति सम्पटिच्छनत्थे निपातो. एवन्ति हि अत्थो. अथाति तस्मिं निसीदनकाले. अस्साति पुरिससहस्सपरिवारस्स अमच्चस्स. ततोति याचनकारणा. नन्ति पुरिससहस्सपरिवारं अमच्चं. तत्थेवाति राजगहेयेव. तेपीति अट्ठ दूतापि. तेति नव दूता.
अथाति ततो पच्छा. एकदिवसजातकन्ति एकस्मिं दिवसे जातकं. सोति काळुदायीअमच्चो. पब्बजित्वापीति पिसद्देन ‘‘अपब्बजित्वापी’’ति अत्थं सम्पिण्डेति. तथेवाति यथा नव दूता सपरिवारा अरहत्तं पापुणिंसु, तथेवाति अत्थो. सोति काळुदायी. सम्भतेसूति सम्भरितेसु गहेत्वा निट्ठापितेसूति अत्थो. विस्सट्ठकम्मेसूति विस्सट्ठा कम्मन्ता एतेसन्ति विस्सट्ठकम्मन्ता, तेसु. सुपुप्फितेसूति सुन्दरपुप्फसञ्जातेसु. पटिपज्जनक्खमेति पटिपज्जनत्थाय खमे योग्ये. गमनवण्णं संवण्णेसीति सम्बन्धो. सट्ठिमत्ताहीति (बु. वं. अट्ठ. निदानकथा २) सट्ठिपमाणाहि. एतन्ति एतं संवण्णस्स कारणं किन्ति पुच्छि. चारिकं पक्कमितुं कालोति योजना. तेन हीति उय्योजनत्थे निपातो. भगवा पक्कामीति सम्बन्धो. परिवुतोति परिसमन्ततो वुतो आवुतो निवुतो हुत्वाति सम्बन्धो. अतुरितचारिकन्ति अजवनचारिकं.
एवन्ति इमिना नयेन. भगवति पक्कन्ते च सतीति योजना. निक्खन्तदिवसतोति फग्गुणपुण्णमिया पाटिपददिवसतो. उत्तमभोजनरसस्साति उत्तमभोजनरसेन. दस्सथाति ददेय्याथ. तेनेवाति सद्धाय उप्पादनकारणेनेव. नन्ति काळुदायिं. भगवा ठपेसीति सम्बन्धो. एतदग्गन्ति एसो अग्गो. यदिदन्ति यो अयं. एतदग्गेति एतदग्गट्ठाने.
साकियापि खो पहिणिंसूति सम्बन्धो. ञातिसेट्ठन्ति ञातीनं सेट्ठं, ञातियेव वा सेट्ठं, भगवन्तन्ति योजना. निग्रोधसक्कस्साति निग्रोधनामकस्स सक्कस्स. तत्थाति निग्रोधसक्कस्स आरामे. पच्चुग्गमनन्ति पटिमुखं उट्ठहित्वा गमनं. ततोति पहिणतो, परन्ति सम्बन्धो. राजकुमारे च राजकुमारिकायो च पहिणिंसूति योजना. तेसन्ति राजकुमारराजकुमारिकानं. तत्राति निग्रोधारामे. मानो जाति सभावो एतेसन्ति मानजातिका, मानेन, मानो वा थद्धो एतेसन्ति मानथद्धा. तेति साकिया, आहंसूति सम्बन्धो.
तेसूति साकियेसु. नेति ञातयो. वुट्ठायाति चतुत्थज्झानतो वुट्ठहित्वा. तेसन्ति ञातीनं. कण्डम्बरुक्खमूलेति कण्डनामकेन उय्यानपालेन रोपिमस्स अम्बरुक्खस्स आसन्ने. राजाति सुद्धोदनमहाराजा. वोति तुम्हाकं, पादेति सम्बन्धो. अयन्ति वन्दना. जम्बुच्छायायाति जम्बुरुक्खस्स छायाय. इति आहाति योजना.
सिखाप्पत्तोति अग्गप्पत्तो, कोटिप्पत्तोति अत्थो. ततोति निसीदनतो, परन्ति सम्बन्धो. पोक्खरवस्सन्ति पदुमवने वुट्ठवस्ससदिसं. तम्बवण्णन्ति लोहितवण्णं. तन्ति अपतनं भगवा कथेसीति सम्बन्धो.
दुतियदिवसेति कपिलवत्थुं पत्तदिवसतो दुतिये दिवसे. इन्दखीलेति नगरस्स उम्मारे. कथन्ति केनाकारेन चरिंसु नु खोति योजना. अगमंसु किं चरिंसु किन्ति योजना. सपदानचारन्ति घरपटिपाटिखण्डनविरहितेन सह पवत्तं चारं. ततोति आवज्जनतो, परन्ति सम्बन्धो. अयमेव वंसोति पुब्बबुद्धानं अयमेव वंसो. अयं पवेणीति तस्सेव वेवचनं. अनुसिक्खन्ताति अनु पटिभागं सिक्खन्ता. निविट्ठगेहतोति निवासनत्थाय विसितगेहतो. अय्योति अधिपो सामीति अत्थो. सिद्धत्थकुमारोति सब्बलोकस्स सिद्धो अत्थो अस्मिं अत्थीति सिद्धत्थो, सोयेव कुमारो सिद्धत्थकुमारो. सीहपञ्जरन्ति वातपानं. तञ्हि सीहरूपं दस्सेत्वा कतपञ्जरत्ता सीहपञ्जरन्ति वुच्चति. दस्सनब्यावटोति दस्सने, दस्सनत्थाय वा ब्यावटो. राहुलमातापि देवी आरोचेसीति सम्बन्धो. कपालहत्थोति कपालो हत्थेसु अस्स भगवतोति कपालहत्थो, हुत्वाति सम्बन्धो. नानाविरागसमुज्जलायाति नानाठानेसु विरागाय समुज्जलाय. विरोचमानं भगवन्तन्ति सम्बन्धो.
उण्हीसतोति सिरोवेठनतो. तञ्हि उपरिसीसे नहति बन्धति, नहीयति बन्धीयतीति वा उण्हीसोति वुच्चति. नरसीहगाथाहि नामाति नरसीहगाथानामकाहि. ता हि यस्मा नरोयेव सब्बसत्तानं सीहो सेट्ठो, नरानं, नरेसु वा सीहो सेट्ठोति नरसीहो, तस्स पकासका गाथा होन्ति, तस्मा नरसीहगाथाति वुच्चन्ति. रञ्ञोति सस्सुररञ्ञो, मातुलरञ्ञो वा. संविग्गहदयोति चलनचित्तो. सण्ठापयमानोति सुट्ठु ठापयमानो. तुरिततुरितन्ति तुरिततो तुरितं, अतिसीघन्ति अत्थो. किं भन्तेति किं कारणा भन्ते. अहुवत्थाति हिय्यत्तनीमज्झिमपुरिससङ्खाताय त्थविभत्तिया हूधातुस्स ऊकारस्स उवादेसो होति, तस्मा तुम्हे एवंसञ्ञिनो अहुवत्थाति योजना. वंसचारित्तमेतन्ति एतं पिण्डाय चरणं वंसतो पवेणितो चारित्तं. तत्थ चाति महासम्मतखत्तियवंसे च. अयन्ति महासम्मतखत्तियवंसो. अन्तरवीथियन्ति वीथिया मज्झे. ठितोव आहाति सम्बन्धो.
उत्तिट्ठेति उद्दिस्स, उट्ठहित्वा वा पिण्डाय तिट्ठने. धम्मं सुचरितन्ति सुट्ठु चरितब्बं भिक्खाचरियसङ्खातं धम्मं. चरेति चरेय्य. धम्मचारीति भिक्खाचरियसङ्खातं धम्मं चरणसीलो समणो. सुखं सेतीति उपलक्खणवसेन वुत्तं. सेसइरियापथापि लक्खणहारवसेन गहेतब्बा समानकिच्चत्ता. अस्मिञ्च लोके परम्हि च लोकेति योजना.
न तं दुच्चरितं चरेति वेसियादिगोचरसङ्खातं दुट्ठु चरितब्बं तं धम्मं न चरेय्य.
एत्थ च पठमगाथं अन्तरवीथियं कथेत्वा राजानं सोतापत्तिफले पतिट्ठापेसि, दुतियगाथं पितुनिवेसने कथेत्वा महापजापतिं सोतापत्तिफले, राजानं सकदागामिफले पतिट्ठापेसीति दट्ठब्बं. धम्मपालजातकं सुत्वाति पुन अपरस्मिं दिवसे (जा. अट्ठ. ४.९८ आदयो; ध. प. अट्ठ. १.नन्दत्थेरवत्थु) धम्मपालजातकं (जा. अट्ठ. ४.महाधम्मपालजातकवण्णना) सुत्वा. मरणसमयेति मरणासन्नकाले, मरणसमयसमीपे वा, समीपत्थे चेतं भुम्मवचनं.
सोतापत्तिफलं सच्छिकत्वा परिविसीति सम्बन्धो. सब्बं इत्थागारन्ति सब्बो ओरोधो. सो हि इत्थीनं अगारन्ति इत्थागारन्ति वुच्चति. इमिना वचनत्थेन अगारमेव मुख्यतो लब्भति, राजित्थियो पन उपचारेनाति दट्ठब्बं. सा पनाति राहुलमाता पन. परिजनेनाति परिवारेन. नन्ति अय्यपुत्तं. ‘‘राजान’’न्तिपदं ‘‘गाहापेत्वा’’तिपदे कारितकम्मं, ‘‘पत्त’’न्तिपदं तत्थेव धातुकम्मं. राजधीतायाति सुप्पबुद्धरञ्ञो धीताय. साति राजधीता. गोप्फकेसूति चरणगण्ठीसु भगवन्तं गहेत्वाति योजना. अथ वा भगवतो गोप्फके गहेत्वाति योजना. एवञ्हि सति उपयोगत्थे भुम्मवचनन्ति दट्ठब्बं.
राजा कथेसीति सम्बन्धो. अनच्छरियन्ति न अच्छरियं, अच्छरं पहरितुं न योग्यन्ति अत्थो. राजधीता यं अत्तानं रक्खि, इदं अनच्छरियन्ति योजना.
तंदिवसमेवाति तस्मिं दुतियदिवसेयेव. केसविसज्जनन्ति राजचूळामणिबन्धनत्थं कुमारकाले बन्धितसिखावेणिसङ्खातस्स केसस्स विसज्जनं, मोचनन्ति अत्थो. पट्टबन्धोति असुको नाम राजाति नलाटे सुवण्णमयस्स पट्टस्स बन्धनं. घरमङ्गलन्ति अभिनवघरं पवेसनमङ्गलं. आवाहमङ्गलन्ति आवाहे पवत्तं मङ्गलं. छत्तमङ्गलन्ति राजछत्तुस्सापनकाले पवत्तं मङ्गलं. मङ्गलं वत्वाति मङ्गलसंयुत्तं धम्मकथं कथेत्वा. जनपदकल्याणीति जनपदम्हि कल्याणसमन्नागता. तुवट्टं खोति खिप्पमेव. सोपीति नन्दराजकुमारोपि. इतीतिआदि निगमनं. दुतियदिवसेति कपिलवत्थुपत्तदिवसतो दुतिये दिवसे. धम्मपदअट्ठकथायं (ध. प. अट्ठ. १.नन्दत्थेरवत्थु; थेरगा. अट्ठ. १.नन्दत्थेरगाथावण्णना) पन ‘‘ततियदिवसे नन्दं पब्बाजेसी’’ति वुत्तं.
सत्तमे दिवसेति कपिलवत्थुपत्तदिवसतोयेव सत्तमे दिवसे. एतं समणं पस्साति योजना. ब्रह्मरूपवण्णन्ति ब्रह्मुनो रूपसङ्खातो वण्णो विय वण्णो इमस्साति ब्रह्मरूपवण्णो, तं. अयन्ति अयं समणो. त्यस्साति ते अस्स. तेति निधयो. अस्साति समणस्स. नन्ति समणं. याचाति याचाहि. अयं द्विकम्मिकधातु. हीति सच्चं, यस्मा वा. पुत्तो पितुसन्तकस्स सामिको, इति तस्मा मे देहीति योजना. अनुरूपं वचनन्ति सम्बन्धो. भगवन्तं अनुबन्धीति भगवतो पिट्ठितो पिट्ठितो अनुबन्धि.
न विसहतीति न समत्थेति. अयं कुमारो पितुसन्तकं यं धनं इच्छति, तन्ति योजना. वट्टानुगतन्ति वट्टदुक्खं अनुगतं. सविघातकन्ति विघातकेहि पञ्चहि वेरेहि सहितं. अस्साति कुमारस्स. नन्ति कुमारं. अयन्ति कुमारो. दायज्जन्ति दायसङ्खातं मातापितूनं धनं आददातीति दायादो, पुत्तो, तस्स इदन्ति दायज्जं, मातापितूनं धनं.
‘‘कथाहं भन्ते राहुलकुमारं पब्बाजेमी’’ति कस्मा आह, ननु आयस्मा सारिपुत्तो बाराणसियं तीहि सरणगमनेहि अनुञ्ञातं पब्बज्जं न जानातीति आह ‘‘इदानी’’तिआदि. या सा पब्बज्जा च उपसम्पदा च अनुञ्ञाताति योजना. ततोति पब्बज्जाउपसम्पदतो. उपसम्पदं पटिक्खिपित्वाति सम्बन्धो. विमतीति विविधा इच्छा. इमञ्च पनत्थन्ति इममेव विमतिसङ्खातमत्थं. धम्मसेनापति आहाति सम्बन्धो. भगवतो तं अज्झासयन्ति योजना.
‘‘अथ खो…पे… पब्बाजेसी’’ति एत्थ किं कुमारस्स केसच्छेदनादीनि सब्बकिच्चानि आयस्मा सारिपुत्तोयेव करोतीति आह ‘‘महामोग्गल्लानत्थेरो’’तिआदि. ओवादाचरियोति निवासनपारुपनादीसु सेखियवत्तेसु, आभिसमाचारिकेसु च ओवादको आचरियो. अथ कस्मा ‘‘आयस्मा सारिपुत्तो राहुलकुमारं पब्बाजेसी’’ति वुत्तन्ति आह ‘‘यस्मा पना’’तिआदि. तत्थाति तस्सं पब्बज्जाउपसम्पदायं. न आचरियोति पब्बज्जाचरियो च ओवादाचरियो च न इस्सरो.
उप्पन्नसंवेगेन हदयेनाति एत्थ इत्थम्भूतलक्खणे करणवचनं. उप्पन्नसंवेगो हदयो हुत्वाति हि योजना. सब्बन्ति सब्बं वचनं.
तत्थाति पुरिमवचनापेक्खं. अविसेसेनाति ‘‘धन’’न्ति वा ‘‘अञ्ञ’’न्ति वा ‘‘सावज्ज’’न्ति वा ‘‘अनवज्ज’’न्ति वा विसेसमकत्वा सामञ्ञेन. न च बुद्धानन्ति एत्थ चसद्देन न केवलं अपटिरूपमेव, अथ खो बुद्धानञ्च न आचिण्णन्ति अत्थं दस्सेति. यन्ति यं वरं. तथा नन्देति एत्थ तथासद्दस्स उपमेय्यत्थजोतकभावं दस्सेन्तो आह ‘‘यथेव किरा’’तिआदि. यथेव बोधिसत्तं ब्याकरिंसु, एवं नन्दम्पि राहुलम्पि ब्याकरिंसु किराति योजना. पाळियं पन यथा भगवति मे भन्ते पब्बजिते अनप्पकं दुक्खं अहोसि, तथा नन्दे पब्बजिते अनप्पकं दुक्खं अहोसि, तथा राहुले पब्बजिते अधिमत्तं दुक्खं अहोसीति योजना. नेमित्तकाति सुभासुभनिमित्तं कथेन्तीति नेमित्तका. पुत्तस्साति जेट्ठपुत्तस्स सिद्धत्थकुमारस्स. पब्बज्जायाति पब्बज्जाहेतु पब्बज्जाकारणा, पब्बज्जानिमित्तं वा. ततोति भगवतो पब्बज्जतो. तम्पीति नन्दम्पि. इतीति ईदिसं. भगवतो पब्बज्जाय महन्तं इच्छाविघातसदिसन्ति अत्थो. तम्पीति राहुलम्पि. तेनाति पब्बज्जाहेतुना. अस्साति रञ्ञो. उप्पज्जीति सम्बन्धो. इतोति सोकुप्पत्तितो वरयाचनतो वा.
सोति राजा. यत्र हि नामाति यो नाम. अहम्पि नाम यो यादिसो बुद्धमामको धम्ममामको सङ्घमामको समानो, सो तादिसो अहम्पि न सक्कोमीति योजना. अञ्ञेति मया अपरे. दुक्खन्ति ञातिवियोगदुक्खं. निय्यानिककारणन्ति मनुस्सानं गरहउपवादअक्कोसतो निय्यानिकं कारणं.
तत्थाति ‘‘अननुञ्ञातो’’तिआदिवचने. जनेतीति जननी, माता. जनेतीति जनको, पिता. इमिना पोसावनिकमातापितरो निवत्तेति. माता वा मता होतीति योजना. सो एव वाति पुत्तो एव वा. अनुञ्ञातोम्हीति वदतीति सच्चेन वा अलिकेन वा ‘‘अनुञ्ञातोम्ही’’ति वदति. माता वा सयं पब्बजिताति योजना. पितस्साति पिता अस्स. अस्साति पुत्तस्स. विप्पवुत्थोति मातुया केनचि कारणेन पवासो.
चूळमातादीनन्तिआदिसद्देन महामातादीनि सङ्गण्हाति. पोसनकाति वड्ढनका. तेसुपीति पोसनकमातापितरेसुपि.
यं पन पुत्तं नानुजानन्तीति सम्बन्धो. जीवस्सेवाति तस्स जीवस्स एव, पब्बाजेन्तस्स वा भिक्खुस्स, न देसन्तरगमनादीनमत्थायाति अत्थो. तेसन्ति मातापितूनं.
महाकन्तारोति केन उदकेन तरितब्बोति कन्तारो, निरुदककन्तारोव मुख्यतो लब्भति, वाळकन्तारो चोरकन्तारो अमनुस्सकन्तारो दुब्भिक्खकन्तारो मरुकन्तारोति इमे पञ्च कन्तारा रूळ्हीवसेन. महन्तो कन्तारो महाकन्तारो.
यावतकेति एत्थ यावसद्दो पमाणत्थोति आह ‘‘यत्तके’’ति.