५. अचेलकवग्गो
१. अचेलकसिक्खापद-अत्थयोजना
२६९. अचेलकवग्गस्स पठमे परिविसति एत्थाति परिवेसनन्ति दस्सेन्तो आह ‘‘परिवेसनट्ठान’’न्ति. परिब्बाजकपब्बजसद्दा समानाति आह ‘‘परिब्बाजकसमापन्नोति पब्बज्जं समापन्नो’’ति. तित्थेन समं पूरतीति समतित्थीकं, नदीआदीसु उदकं, समतित्थिकं वियाति समतित्थिकं, पत्तभाजनेसु यागुभत्तं. तेसन्ति मातापितूनं देन्तस्साति सम्बन्धो. ‘‘दापेती’’ति एत्थ दाधातुया सम्पदानस्स सुविजानितत्ता तं अदस्सेत्वा कारितकम्ममेव दस्सेन्तो आह ‘‘अनुपसम्पन्नेना’’ति.
२७३. ‘‘सन्तिके’’तिइमिना ‘‘उपनिक्खिपित्वा’’ति एत्थ उपसद्दस्स समीपत्थं दस्सेति. तेसन्ति तित्थियानं. तत्थाति भाजने. इतोति पत्ततो. इधाति मय्हं भाजने. नन्ति खादनीयभोजनीयं. तस्साति तित्थियस्साति. पठमं.
२. उय्योजनसिक्खापदं
२७४. दुतिये पटिक्कमनअसनसालसद्दानं परियायत्ता वुत्तं ‘‘असनसालायपी’’ति. भत्तस्स विस्सज्जनं भत्तविस्सग्गोति कते भत्तकिच्चन्ति आह ‘‘भत्तकिच्च’’न्ति. सम्भूधातुस्स पपुब्बअपधात्वत्थत्ता वुत्तं ‘‘न पापुणी’’ति.
२७६. वुत्तावसेसन्ति वुत्तेहि मातुगामेन सद्धिं हसितुकामतादीहि अवसेसं. तस्मिन्ति उय्योजितभिक्खुम्हि. अत्थतोति विजहन्तविजहितभिक्खूनं अविनाभावसङ्खातअत्थतो. इतरेनाति उय्योजकभिक्खुना. तत्थाति ‘‘दस्सनूपचारं वा सवनूपचारं वा’’तिवचने. एत्थाति निद्धारणसमुदायो, दस्सनूपचारसवनूपचारेसूति अत्थो. ‘‘तथातिइमिना द्वादसहत्थपमाणं अतिदिसति. तेहीति कुट्टादीहि. तस्साति दस्सनूपचारातिक्कमस्स. ‘‘वुत्तपकारमनाचार’’न्ति इमिना ‘‘न अञ्ञो कोचि पच्चयो’’ति एत्थ अञ्ञसद्दस्स अपादानं दस्सेति, ‘‘कारण’’न्तिइमिना पच्चयसद्दस्सत्थं.
२७७. कलिसद्दस्स पापपराजयसङ्खातेसु द्वीसु अत्थेसु पापसङ्खातो कोधोति आह ‘‘कलीति कोधो’’ति. ‘‘आण’’न्तिइमिना सासनसद्दस्सत्थं दस्सेति. वुत्तञ्हि ‘‘आणा च सासनं ञेय्य’’न्ति. कोधवसेन वदतीति सम्बन्धो. दस्सेत्वा वदतीति योजना. इमस्स ठानं निसज्जं आलोकितं विलोकितं पस्सथ भोति योजना. इमिनापीति अमनापवचनं वचनेनापीति. दुतियं.
३. सभोजनसिक्खापदं
२७९. ततिये ‘‘सयनियघरे’’ति वत्तब्बे यकारलोपं कत्वा ‘‘सयनिघरे’’ति वुत्तन्ति आह ‘‘सयनिघरे’’ति. यतोति एत्थ तोसद्दो पठमादीसु अत्थेसु दिस्सति. ‘‘यतोनिदान’’न्तिआदीसु (सु. नि. २७५) पठमत्थे. ‘‘अन्तराये असेसतो’’तिआदीसु (ध. स. अट्ठ. गन्थारम्भकथा ७) दुतियत्थे. ‘‘अनिच्चतो’’तिआदीसु (पट्ठा. १.१.४०९) ततियत्थे. ‘‘मातितो पितितो’’तिआदीसु (दी. नि. १.३११) पञ्चम्यत्थे. ‘‘यं परतो दानपच्चया’’तिआदीसु (जा. २.२२.५८५) छट्ठ्यत्थे. ‘‘पुरतो पच्छतो’’तिआदीसु (पाचि. ५७६) सत्तम्यत्थे. ‘‘पदमतो’’तिआदीसु कारणत्थे दिस्सति. इधापि कारणत्थेयेवाति आह ‘‘यस्मा’’ति. यस्मा कारणा अय्यस्स भिक्खा दिन्ना, तस्मा गच्छथ भन्ते तुम्हेति अत्थो. यन्ति भिक्खं. वोति तुम्हेहि. अधिप्पायोति पुरिसस्स अज्झासयो. ‘‘परियुट्ठितो’’ति सामञ्ञतो वुत्तेपि अत्थपकरणादितो रागपरियुट्ठितोवाधिप्पेतोति आह ‘‘रागपरियुट्ठितो’’ति, रागेन परिभवित्वा उट्ठितोति अत्थो.
२८०. सभोजनन्ति एत्थ सकारो सहसद्दकारियो च अकारुकारानं असरूपत्ता अकारतो उकारस्स लोपो च तीसु पदेसु पच्छिमानं द्विन्नं पदानं तुल्यत्थनिस्सितसमासो च पुब्बपदेन सह भेदनिस्सितबाहिरत्थसमासो च होति, इति इममत्थं दस्सेन्तो आह ‘‘सह उभोहि जनेही’’ति. अथ वा भुञ्जितब्बन्ति भोजनं, सं विज्जति भोजनं अस्मिं कुलेति सभोजनन्ति दस्सेन्तो आह ‘‘अथ वा’’तिआदि. हीति सच्चं. तेनेवाति तेनेव अञ्ञमञ्ञं भुञ्जितब्बत्ता. अस्साति ‘‘सभोजने’’तिपदस्स. घरेति एत्थ पुब्बो सयनिसद्दो लोपोति आह ‘‘सयनिघरे’’ति. इमिना ‘‘दत्तो’’तिआदीसु विय पुब्बपदलोपसमासं दस्सेति. पिट्ठसङ्घाटस्साति एत्थ पिट्ठसङ्घाटो नाम न अञ्ञस्स यस्स कस्सचि, अथ खो सयनिघरगब्भस्सेवाति आह ‘‘तस्स सयनिघरगब्भस्सा’’ति. यथा वा तथा वाति येन वा ते न वा आकारेन. कतस्साति पिट्ठिवंसं आरोपेत्वा वा अनारोपेत्वा वा कतस्साति. ततियं.
२८४. चतुत्थपञ्चमेसु यथा च सभोजनसिक्खापदं पठमपाराजिकसमुट्ठानं, एवमेव तानिपीति योजनाति. चतुत्थपञ्चमानि.
६. चारित्तसिक्खापदं
२९४. छट्ठे कस्मा तेहि ‘‘देथावुसो भत्त’’न्ति वुत्तं, ननु भिक्खूनं एवं वत्तुं न वट्टतीति आह ‘‘एत्थ तं किरा’’तिआदि. तस्माति यस्मा अभिहटं अहोसि, तस्मा.
२९५. इदं पन वचनं आहाति सम्बन्धो. पसादञ्ञथत्तन्ति पसादस्स अञ्ञेनाकारेन भावो. नन्ति खादनीयं. ‘‘गहेत्वा आगमंसू’’तिइमिना ‘‘उस्सारियित्था’’ति एत्थ उकारस्स उग्गहत्थतञ्च सरधातुस्स गत्यत्थतञ्च अज्जतनिञुंविभत्तिया त्थत्तञ्च दस्सेति, उग्गहेत्वा सारिंसु अगमंसूति अत्थो.
२९८. यत्थाति यस्मिं ठाने. ठितस्स भिक्खुनो चित्तं उप्पन्नन्ति योजना. ततोति चित्तुप्पन्नतो. यन्ति भिक्खुं. पकतिवचनेनाति उच्चासद्दमकत्वा पवत्तेन सभाववचनेन. अन्तोविहारेति वचनस्स अतिसम्बाधत्ता अयुत्तभावं मञ्ञमानो आह ‘‘अपि च अन्तोउपचारसीमाया’’ति.
३०२. गामस्स अन्तरे आरामो तिट्ठतीति अन्तरारामो विहारो, तं गच्छतीति दस्सेन्तो आह ‘‘अन्तोगामे’’तिआदीति. छट्ठं.
७. महानामसिक्खापदं
३०३. सत्तमे ‘‘भगवतो’’तिपदं ‘‘चूळपितुपुत्तो’’तिपदे सम्बन्धो, ‘‘महल्लकतरो’’तिपदे अपादानं. चूळपितुपुत्तोति सुद्धोदनो, सक्कोदनो, सुक्कोदनो, धोतोदनो, अमितोदनोति पञ्च जना भातरो, अमिता, पालिताति द्वे भगिनियो. तेसु भगवा च नन्दो च जेट्ठभातुभूतस्स सुद्धोदनस्स पुत्ता, आनन्दो कनिट्ठभातुभूतस्स अमितोदनस्स पुत्तो, महानामो च अनुरुद्धो च ततियस्स सुक्कोदनस्स पुत्ता. सक्कोदनधोतोदनानं पुत्ता अपाकटा. तिस्सत्थेरो अमिताय नाम भगिनिया पुत्तो, पालिताय पुत्तधीतरा अपाकटा. तस्मा चूळपितुनो सुक्कोदनस्स पुत्तो चूळपितुपुत्तोति अत्थो दट्ठब्बो. द्वीसु फलेसूति हेट्ठिमेसु द्वीसु फलेसु. उस्सन्नसद्दो बहुपरियायोति आह ‘‘बहू’’ति. वजतोति गोट्ठतो. तञ्हि गावो गोचरट्ठानतो पटिक्कमित्वा निवासत्थाय वजन्ति गच्छन्ति अस्मिन्ति वजोति वुच्चति.
३०६. तस्मिं समयेति तस्मिं पवारणसमये. ‘‘एत्तकेही’’तिपदस्स नामवसेन वा परिमाणवसेन वा दुविधस्स अत्थस्स अधिप्पेतत्ता वुत्तं ‘‘नामवसेन परिमाणवसेना’’ति. तेसु नामं सन्धाय एतं नामं एतेसं भेसज्जानन्ति एत्तकानीति वचनत्थो कातब्बो, परिमाणं सन्धाय एतं परिमाणं एतेसन्ति एत्तकानीति वचनत्थो कातब्बो. ‘‘अञ्ञं भेसज्ज’’न्ति एत्थ अञ्ञसद्दस्स अपादानं नामं वा परिमाणं वा भवेय्याति आह ‘‘सब्बिना पवारितो’’तिआदि.
३१०. येति दायका, पवारिता होन्तीति सम्बन्धोति. सत्तमं.
८. उय्युत्तसेनासिक्खापदं
३११. अट्ठमे ‘‘अभिमुख’’न्तिइमिना अभिसद्दस्सत्थं दस्सेति. ‘‘उय्यातो’’तिपदस्स उट्ठहित्वा यातोति दस्सेन्तो आह ‘‘नगरतो निग्गतो’’ति. ‘‘कतउय्योग’’न्ति इमिना उट्ठहित्वा युञ्जति गच्छतीति उय्युत्ताति दस्सेति. धातून, मनेकत्थत्ता वुत्तं ‘‘गामतो निक्खन्त’’न्ति.
३१४. द्वादस पुरिसा इमस्स हत्थिनोति द्वादसपुरिसो, आवुधो हत्थेसु एतेसन्ति आवुधहत्था. निन्नन्ति निन्नट्ठानं, पस्सतो भिक्खुनोति सम्बन्धोति. अट्ठमं.
९. सेनावाससिक्खापदं
३१९. नवमे ‘‘तिट्ठतु वा’’तिआदिना वसनाकारं दस्सेति. वासद्दो ‘‘चङ्कमतु वा’’तिअत्थं सम्पिण्डेति. किञ्चि इरियापथन्ति चतूसु इरियापथेसु किञ्चि इरियापथं. यथा रुद्धमाने सञ्चारो छिज्जति, एवं रुद्धा संवुता होतीति योजना. ‘‘रुद्धो’’ति इमिना ‘‘पलिबुद्धो’’ति एत्थ परिपुब्बस्स बुधिधातुस्स अधिप्पायत्थं दस्सेतीति. नवमं.
१०. उय्योधिकसिक्खापदं
३२२. दसमे युज्झन्तीति संपहरन्ति. ‘‘बलस्स अग्गं एत्था’’तिइमिना भिन्नाधिकरणबाहिरत्थसमासं दस्सेति. ‘‘जानन्ती’’तिपदं अत्थसम्पुण्णत्थाय पक्खित्तं. अग्गन्ति कोट्ठासं. बलं गणीयति एत्थाति बलग्गन्ति वचनत्थोपि युज्जति. तेनाह ‘‘बलगणनट्ठान’’न्ति. इदञ्हि वचनं अम्बसेचनगरुसिननयेन वुत्तं. कथं? ‘‘बलगणनट्ठान’’न्ति वदन्तेन अट्ठकथाचरियेन ‘‘बलस्स अग्गं जानन्ति एत्थाति बलग्ग’’न्ति वचनत्थस्स पिण्डत्थो च ञापीयति, ‘‘बलं गणीयति एत्थाति बलग्ग’’न्ति वचनत्थो च दस्सीयति. वियूहीयते सम्पिण्डीयते ब्यूहो, सेनाय ब्यूहो सेनाब्यूहोति अत्थं दस्सेति ‘‘सेनाय वियूह’’न्तिआदिना. अणति भेरवसद्दं करोतीति अणीकं, मुद्धजणकारो, हत्थीयेव अणीकं हत्थाणीकं. एसेव नयो सेसेसुपि. यो हत्थी पुब्बे वुत्तो, तेन हत्थिनाति योजनाति. दसमं.
अचेलकवग्गो पञ्चमो.