७. आवट्टहारविभङ्गवण्णना

२९. अकुसलानं धम्मानं विद्धंसनसभावत्ता, अकुसलानं वा पजहने कुसलानं सम्पादने पट्ठपनसभावत्ता आरम्भधातु. तथाभूताति सीलादीहि समङ्गीभूता. कामधातुआदिका तिधातुयोव तेधातु. तस्स अभिभवनतो तेधातुइस्सरो मच्चुराजा. अनादिमतिसंसारे चिरकालं लद्धपतिट्ठापि अचिरकालं भावितेहि कुसलेहि धम्मेहि समुच्छिन्दनीयत्ता अबला किलेसाति वुत्तं ‘‘अबलं दुब्बल’’न्ति. तेनाह ‘‘अबला नं बलीयन्ती’’ति.

इदं वचनं अयं गाथापादो. समाधिस्स पदट्ठानन्ति एत्थ समाधिस्स कारणं समतानुयोगे नियोजनतोति योजेतब्बं. एस नयो सेसेसुपि. पपञ्चाति रागादयोव. तथा चेव संवण्णितन्ति देसनाय पदट्ठानभावेनेव अत्थसंवण्णना कताति अत्थो.

न्ति तं देसनं. तस्साति सभागादिवसेन आवट्टनस्स. परिपक्कञाणानं विसेसाधिगमाय. लाभविनिच्छयपरिग्गहमच्छरियानीतिआदीसु लाभोति रूपादिआरम्मणप्पटिलाभो. सो परियेसनाय सति होतीति परियेसनाग्गहणेन गहितो. विनिच्छयोति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दादिआरम्मणत्थाय, एत्तकं मय्हं, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’’ति एवं पवत्तो वितक्को विनिच्छयो. सो लापितहेतुकत्ता परियेसनमूलकताय परियेसनाग्गहणेनेव गहितो, तथा परिग्गहमच्छरियानि. तत्थ परिग्गहो ‘‘मम इद’’न्ति परिग्गण्हनं. मच्छरियं ‘‘मय्हेव होतू’’ति परेहि साधारणभावासहनं. तेनेवस्स पोराणा एवं वचनत्थं वदन्ति ‘‘मय्हेविदमच्छरियं होतु, मा अञ्ञेसं अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति (दी. नि. अट्ठ. २.१०३; अ. नि. अट्ठ. ३.९.२३). परिभोगत्थानं पन विनिच्छयादीनं परिभोगन्तोगधता वेदितब्बा. छन्दरागो दुब्बलरागो. अज्झोसानं ‘‘मम इद’’न्ति तण्हावसेन बलवसन्निट्ठानन्ति आह ‘‘छन्दरागअज्झोसाना तण्हा एवा’’ति. आरक्खनिमित्तं द्वारपिदहनमञ्जूसागोपनादिना सुट्ठु रक्खणनिमित्तं. पापानि करोन्तो परिभोगनिमित्तं रत्तो गिद्धो गधितो मुच्छितो हुत्वा मिगोव परिभुञ्जननिमित्तं पमादं आपज्जतीति एवं परियेनारक्खा परिभोगनिमित्तं. पमादो तिविधो तण्हाय वसेन कथितोति दस्सेन्तो ‘‘तिविधो तण्हायाति वुत्त’’न्ति आह.

अविसेसेन वुत्तन्ति ‘‘कतमेन उपादानेन सउपादाना’’ति विभागेन पुच्छित्वापि ‘‘अविज्जाय च तण्हाय चा’’ति अविनिब्भुजित्वा वुत्तं. तण्हञ्च अविज्जञ्च चतुरुपादानं वसेनाति कामुपादानादीनं चतुन्नं उपादानानं वसेन विभजित्वा खन्धानं दुक्खभावेन दुक्खसच्चभावेन सह परिञ्ञेय्यभावं, उपादानानं समुदयभावेन समुदयसच्चभावेन सह पहातब्बभावं दस्सेतीति योजना.

३०. ‘‘यो’’तिआदिना वुत्तो तिविधो पमादो परियेसति, आरक्खणञ्च करोति, परिभोगनिमित्तञ्चाति सम्बन्धो. पमादो हि पमज्जन्तस्स पुग्गलस्स भोगानं परियेसनाय, आरक्खणाय च हेतुभूतो कत्तुभावेन उपचरितो, परिभोगस्स पन निमित्तं. ‘‘तप्पटिपक्खेना’’ति पदस्स अत्थं विवरति ‘‘अप्पमादानुयोगेना’’ति, तेन समथभावं दस्सेति. खेपनाति खयपापना. वोदानपक्खविसभागधम्मवसेनाति वोदानपक्खो च सो पमादस्स विसभागधम्मो चाति वोदान…पे… धम्मो, समथो, तस्स वसेन.

समथे सतीति अधिट्ठानभूते झाने सति, तं पादकं कत्वाति अत्थो. या पञ्ञाति नामरूपपरिच्छेदादिवसेन पवत्तपञ्ञा. तेनाह ‘‘अयं विपस्सना’’ति. पहीनेसूति पहीयमानेसु.

वोदानपक्खन्ति आरम्भधातुआदिवोदानपक्खं निक्खिपित्वा. विसभागधम्मवसेनाति पमादवसेनेव. सभागधम्मवसेनाति पुब्बे निक्खित्तस्स आरम्भधातुआदिवोदानधम्मस्स समथादिसभागधम्मवसेन.

पुन अपरियोदापनियं सिखाप्पत्तपरियोदापनं इधाधिप्पेतन्ति आह ‘‘तं पन अरहत्तेन होती’’ति.

मोहसमुट्ठानता वुत्ता ‘‘मोहो एव समुट्ठान’’न्ति कत्वा. अञ्ञथा पिसुणावाचाय दोससमुट्ठानता मुसावादस्स विय मोहसमुट्ठानभावा वत्तब्बा सिया.

कम्मपथभावं पत्तानं, अप्पत्तानञ्च अकुसलधम्मानं ‘‘सब्बपाप’’न्ति पदेन परिग्गहितत्ता वुत्तं ‘‘कम्मपथकम्मविभागेना’’ति.

३१. सेसपदानन्ति ‘‘कुसलस्स उपसम्पदा’’तिआदीनं (दी. नि. २.९०; ध. प. १८३; नेत्ति. ३०, ५०, ११६, १२४; पेटको. २९) गाथाय अवसिट्ठपदानं. यथाधिगतन्ति अत्तना अधिगतप्पकारं, पच्छा भूमिदिसा.

उपरि यापेन्तीति मनुस्सलोकतो उपरिट्ठिमं देवलोकं गमेन्ति.

३२. यथावुत्तस्स धम्मस्साति सीलस्स च मग्गस्स च. तण्हाविज्जादीनन्ति आदिसद्देन तदेकट्ठकिलेसा गय्हन्ति, तेसं पदट्ठानधम्मा च. समथविपस्सनादीनन्ति आदिसद्देन सामञ्ञफलानं सङ्गहो. यदग्गेन चेत्थ ‘‘निरोधो रक्खती’’ति वुत्तो, तदग्गेन मग्गो रक्खणकिरियाय करणं वुत्तं ‘‘येन रक्खती’’ति. विसभागधम्मवसेन पुरिमानि सभागधम्मावट्टनवसेन पच्छिमानि सच्चानि निद्धारितानीति योजेतब्बं.

आवट्टहारविभङ्गवण्णना निट्ठिता.