४. पदट्ठानहारसम्पातादिवण्णना

६६. यस्मा वा संकिलेसतो रक्खितचित्तस्स तीणि सुचरितानि पारिपूरिं गच्छन्ति, तस्मा रक्खितचित्तस्साति एत्थ यायं रक्खितचित्तता, सा कायसुचरितादीनं तिण्णं सुचरितानं पदट्ठानन्ति एवमेत्थ अत्थो वेदितब्बो. अत्ताधीनन्ति अत्तपराधीनं.

ततो एवाति कारणग्गहणेन फलस्स गहितत्ता एव.

६८. तत्थ इतिसद्दोति ‘‘परिपालीयती’’ति इतिसद्दो.

७३-४. पाळियं पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानीति एत्थ सद्धावीरियसतिन्द्रियेहि पातिमोक्खादि तिविधं सीलं गहितं सोधेतब्बत्ता. तेसन्ति तेहि सीलक्खन्धो सङ्गहितो. समाधिपञ्ञिन्द्रियेहि समाधिपञ्ञाक्खन्धा गहिताति पाकटोयमत्थो, तथा सेसम्पीति आह ‘‘इतो परेसु…पे… वुत्तनयमेवा’’ति.

७६. हेतुहेतुसमुप्पन्नपच्चयपच्चयुप्पन्नसङ्खातस्साति एत्थ हेतुपच्चयविभागो हेट्ठा वुत्तोयेव.

पदट्ठानहारसम्पातादिवण्णना निट्ठिता.

मिस्सकहारसम्पातवण्णना

इदानि यस्मा सुत्तेसु हारानं योजनानयदस्सनत्ता हारसम्पातदेसना हारविभङ्गदेसना विय न हारसरूपमत्तदस्सनत्ता, तस्मा पेटकोपदेसे आगतनयानुसारेन अपरेहि विपरियायेहि हारसम्पातयोजनाविधिं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ विज्जाविज्जाय कुसलाकुसलचित्तप्पवत्तिया अलोभादोसलोभदोसापि परम्परभावेन पवत्तन्ति निदानभावतोति दस्सेन्तो ‘‘छ धम्मा…पे… मूलानी’’ति आह. यथा च निदानभावेन पुब्बङ्गमता, एवं अत्तनो वसेवत्तनेनापि पुब्बङ्गमता लब्भतेवाति वुत्तं ‘‘साधिपतिकानं अधिपति, सब्बचित्तुप्पादानं इन्द्रियानी’’ति. अलोभस्साति अलोभयुत्तस्स चित्तुप्पादस्स. नेक्खम्मच्छन्देनाति कुसलच्छन्देन. नेक्खम्मसद्दो पब्बज्जादीसु निरुळ्हो. वुत्तञ्हि –

‘‘पब्बज्जा पठमं झानं, निब्बानञ्च विपस्सना;

सब्बेपि कुसला धम्मा, ‘नेक्खम्म’न्ति पवुच्चरे’’ति. (इतिवु. अट्ठ. १०९; दी. नि. टी. २.३५९; अ. नि. टी. २.२.६६) –

तेसु इध कुसला धम्मा अधिप्पेता. तेन वुत्तं ‘‘कुसलच्छन्देना’’ति. नेक्खम्मच्छन्देन उपनिस्सयभूतेन, न अधिपतिभूतेन. इदं वुत्तं होति – अलोभप्पधानो चे चित्तुप्पादो होति, नेक्खम्मच्छन्देन उपनिस्सयभूतेन मनो तस्स पुब्बङ्गमो होति. सेसपदद्वयेपि एसेव नयो.

यदग्गेन तेसं धम्मानं मनो पुब्बङ्गमं, तदग्गेन तेसं जेट्ठं, पधानञ्चाति वुत्तं ‘‘मनोसेट्ठाति मनो तेसं धम्मान’’न्तिआदि. मनोमयता मनेन कतादिभावो, सो च मनस्स तेसं सहजातादिना पच्चयभावो एवाति वुत्तं ‘‘मनोमयाति…पे… पच्चयो’’ति. ते पनाति एत्थ पन-सद्दो विसेसत्थदीपको, तेनेतं दस्सेति – यदिपि तेसं धम्मानं छन्दादयोपि पच्चया एव, इन्द्रियादिपच्चयेन पन सविसेसं पच्चयभूतस्स मनस्सेव वसेनेव वुत्तं ‘‘मनोमया’’ति. तत्थ छन्दसमुदानीताति यथावुत्तनेक्खम्मादिछन्देन सम्मा उद्धमुद्धं नीता, ततो समुदागताति अत्थो. ततो एव नेक्खम्मवितक्कादितो समुप्पन्नत्ता अनाविलसङ्कप्पसमुट्ठाना. तज्जामनोविञ्ञाणधातुसम्फस्सेन सहाधिट्ठानतो फस्ससमोधाना. ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) हि वुत्तं. इदं मनोकम्मन्ति कायङ्गवाचङ्गचोपनं अकत्वा सद्धासमन्नागतेन पसन्नेन मनसा पवत्तं इदं कुसलं मनोकम्मं. तं पन अनभिज्झासहगतं, अब्यापादसहगतं, सम्मादिट्ठिसहगतन्ति तिविधं होति.

भासतीति अविसंवादनादिना वाचङ्गचोपनावसेन पवत्तेन्तिया वचीविञ्ञत्तिया साधेतब्बं साधेतीति अत्थो, तेन कायद्वारतो पवत्तकुसलवचीकम्मम्पि सङ्गहितं होति. तथा हि वक्खति ‘‘वचीविञ्ञत्तिविप्फारतो, तथा सादियनतो च भासती’’ति. सब्बम्पि वचीकम्मं सच्चादिवसेन चतुब्बिधं. करोतीति अत्तनो, परेसञ्च हिताहितानि कारणाकारणेहि कायङ्गचोपनावसेन पवत्तेन्तिया कायविञ्ञत्तिया साधेतब्बं साधेतीति अत्थो, तेन वचीद्वारतो पवत्तकुसलकायकम्मम्पि सङ्गहितं होति. तथा च वक्खति ‘‘कायविञ्ञत्तिविप्फारतो, तथा सादियनतो च करोती’’ति (नेत्ति. अट्ठ. ७६ मिस्सकहारसम्पातवण्णना). कम्मपथवसेन गय्हमाने पाणातिपातादिवसेन तं तिविधं होति. तेनाह ‘‘इति दसकुसलकम्मपथादस्सिता’’ति. दसपुञ्ञकिरियवत्थुवसेनापि गाथाय अत्थो युज्जति. तथा हि वक्खति ‘‘सो पसन्नचित्तो’’तिआदि. भासति वा करोति वा केवलं मनसा पवत्ततीति अनियमत्थो वा-सद्दो. तथा चेव संवण्णितं.

दसविधस्स कुसलकम्मस्साति दसविधस्स कुसलकम्मपथकम्मस्स, वक्खमाननयेन वा दसपुञ्ञकिरियवत्थुसङ्खातस्स कुसलकम्मस्स. ननु तत्थ दानादिमयं तिविधमेव पुञ्ञकिरियवत्थु वुत्तन्ति? सच्चं, तं पन इतरेसं तदन्तोगधत्ता.

‘‘सुखमन्वेती’’ति सङ्खेपेन वुत्तं सुखानुगमं वित्थारेन दस्सेन्तो ‘‘इधस्सु पुरिसो’’तिआदिमाह. तत्थ एवं सन्तन्ति एवं भूतं, अप्पहीनानुसयो हुत्वा सुखवेदनीयफस्ससम्भूतन्ति अत्थो.

तत्थ ‘‘यं मनो’’तिआदिना गाथात्थवसेन चतुसच्चं निद्धारेति. आदितो ववत्थापितेसु खन्धादीसु खन्धमुखेन सच्चानं कथितत्ता सत्तानं भिन्नरुचिभावतो नानानयेहि विपस्सनाभूमिकोसल्लत्थं, पुब्बापरसम्बन्धदस्सनत्थञ्च एवं वुत्तं ‘‘एवं…पे… निद्धारेतब्बानी’’ति. सच्चमुखेन अस्सादादिके निद्धारेत्वा देसनाहारसम्पातं योजेतुं ‘‘तत्थ समुदयेना’’तिआदिमाह, तं वुत्तनयमेव. यञ्हेत्थ अञ्ञम्पि अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता, उत्तानत्थत्ता चाति वेदितब्बं.

मननलक्खणेति मननलक्खणहेतु. ‘‘मननलक्खणेना’’ति वा पाठो. ईहाभावतो ब्यापाराभावतो. येन पसादेन समन्नागतत्ता मनो ‘‘पसन्नो’’ति वुत्तो, तस्स पसादस्स किच्चं मने आरोपेत्वा आह ‘‘अकालुसियतो, आरम्मणस्स ओकप्पनतो च पसन्नेना’’ति. तथा सादियनतोति वाचाय वत्तब्बं अवत्वाव फस्ससादियनतो अनुजानतो. दुतिये तथा सादियनतोति कायेन कातब्बं यथा कतं होति, तथा वाचाय संविधानतो. तथा पसुतत्ताति यथा सुखमन्वेति, तथा उपचितत्ता एवाति अत्थो. ततोति ततो कारणा, मनसा पसन्नेन, भासनेन, करणेन च हेतुनाति वुत्तं होति. अनञ्ञत्थाति एतस्मिं पन अत्थे. ततोति ततो एव. यो हि पसन्नमनो तेन यं भासनं, करणञ्च, ततो एव नं सुखमन्वेतीति वुत्तं होति. सातभावतोति सातवेदनाभावतो. इट्ठभावतोति मनापभावतो. कम्मतो विपाकुप्पत्तिफलदानसमत्थभावेन कम्मस्स निब्बत्तत्ता विपाकस्सेव अनिब्बत्तत्ताति आह ‘‘कतू…पे… अन्वेतीति वुत्त’’न्ति कारणायत्त वुत्तितोति कतभावहेतुकत्ता कम्मस्साति अधिप्पायो. असङ्कन्तितोति यस्मिं सन्ताने कम्मं निब्बत्तं, तदञ्ञसन्ताना सङ्कमनतो.

आधिपच्चयोगतोति सहजाताधिपतिवसेन आधिपच्चयुत्तत्ता. सहजातधम्मानञ्हि तंसम्पयुत्तस्स मनस्स वसेन पुब्बङ्गमता इधाधिप्पेता. ततो एवाति आधिपच्चयोगतो एव. मनस्साति उपयोगत्थे सामिवचनं. तेसं धम्मानन्ति सम्बन्धो. कुसलभावो युज्जति पसादस्स योनिसोमनसिकारहेतुकत्ता. ननु विभज्जब्याकरणेसु तेसं सावकानं सद्धा उप्पज्जतीति? नायं सद्धा, तदाकारा पन अकुसला धम्मा तथा वुच्चन्तीति वेदितब्बं. तथा हि वक्खति ‘‘नायं पसादो’’तिआदि (नेत्ति. अट्ठ. ७६ मिस्सकहारसम्पातवण्णना). सुखं अन्वेतीति युज्जति कम्मस्स फलदाने समत्थभावतो. यथा हि कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितन्ति वुच्चतीति.

मनोपविचारा इध नेक्खम्मसिता सोमनस्सूपविचारा, उपेक्खूपविचारा च वेदितब्बा कुसलाधिकारत्ता. ते पन यस्मा चित्तं निस्सायेव पवत्तन्ति, नानिस्साय, तस्मा वुत्तं ‘‘मनो मनोपविचारानं पदट्ठान’’न्ति. कुसलपक्खस्स पदट्ठानन्ति एत्थ कुसलो ताव फस्सो कुसलस्स वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स सहजातादिना पच्चयो होति. ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वुत्तं. एवं वेदनादीनम्पि वेदितब्बं. सद्धादीनम्पि पच्चयभावे वत्तब्बमेव नत्थि. सब्बस्साति चतुभूमकस्स. कामावचरा हि कुसला धम्मा यथारहं चतुभूमकस्सापि कुसलस्स पच्चया होन्ति, एवं इतरभूमकापि.

‘‘पसन्नेन मनसा भासती’’ति वुत्तत्ता विसेसतो सम्मावाचापच्चयं भासनं इधाधिप्पेतन्ति वुत्तं ‘‘भासतीति सम्मावाचा’’ति. तत्थायमधिप्पायो ‘‘भासतीति यमिदं पदं, इमिना सम्मावाचा गहिता होती’’ति. करोतीति सम्माकम्मन्तोति एत्थापि एसेव नयो. सुपरिसुद्धे कायवचीकम्मे ठितस्स आजीवपारिसुद्धि, न इतरस्साति वुत्तं ‘‘ते सम्माआजीवस्स पदट्ठान’’न्ति. तत्थ तेति सम्मावाचाकम्मन्ता. यस्मा पन आजीवट्ठमके सीले पतिट्ठितस्स उप्पन्नानुप्पन्नानं अकुसलधम्मानं पहानानुप्पादनानि, अनुप्पन्नुप्पन्नानं कुसलधम्मानं उप्पादनपारिपूरिया च सम्भवन्ति, तथा सम्मावायामे ठितस्सेव कायादीसु सुभसञ्ञादिविद्धंसिनी सम्मासति सम्भवति, तस्मा वुत्तं ‘‘सम्माआजीवो…पे…पदट्ठान’’न्ति. जेट्ठकसीलं पातिमोक्खसंवरो, सद्धासाधनो च सोति आह ‘‘तं सीलस्स पदट्ठान’’न्ति.

तेसन्ति कायवचीकम्मानं. कम्मपच्चयतायाति कुसलकम्महेतुकताय.

पदत्थो च वुत्तनयेनाति ‘‘मननतो आरम्मणविजाननतो’’तिआदिना.

अयं आवट्टोति अयं सभागविसभागधम्मावट्टनवसेन आवट्टो. एत्थ हि कुसलमूलसम्मत्तमग्गादिनिद्धारणा सभागधम्मावट्टना. अविज्जाभवतण्हानं निद्धारणा विसभागधम्मावट्टना.

विभत्तिहारे पदट्ठानभूमिविभागा वुत्तनया, सुविञ्ञेय्या चाति धम्मविभागमेव दस्सेन्तो ‘‘नयिद’’न्तिआदिमाह. तत्थ ‘‘नयिदं यथारुतवसेन गहेतब्ब’’न्ति सुत्तस्स नेय्यत्थतं वत्वा ‘‘योही’’तिआदिना तं विवरति. ‘‘दुक्खमेव अन्वेती’’ति कस्मा वुत्तं, ननु यत्थ कत्थचि हितेसिता कुसलमेवाति? नयिदमीदिसं सन्धाय वुत्तं, अधम्मं पन धम्मोति, धम्मञ्च पन अधम्मोति दीपनेन लोकस्स सब्बानत्थबीजभूतेसु सकलहितसुखुपायपटिक्खेपकेसु तित्थकरेसु असन्तगुणसम्भावनवसेन पवत्तमिच्छाधिमोक्खं सन्धाय वुत्तं. यो हि लोके अप्पमत्तकम्पि पुञ्ञं कातुकामं पापिकं दिट्ठिं निस्साय पटिबाहति, सोपि गारय्हो, किमङ्गं पन अरियविनये सम्मापटिपत्तिं पटिबाहन्तेसूति दुक्खफलाव तत्थ सम्भावनापसंसा पयिरुपासना. तथा हि वुत्तं – ‘‘न खो अहं, मोघपुरिस, अरहत्तस्स मच्छरायामि, अपिच तुय्हेवेतं पापकं दिट्ठिगतं…पे… दीघरत्तं अहिताय दुक्खाय संवत्तती’’ति (दी. नि. ३.७), ‘‘यो निन्दियं पसंसति (सु. नि. ६६३; सं. नि. १.१८०, १८१; अ. नि. ४.३; नेत्ति. ९२), सब्बस्सापि अनत्थस्स मूलं बालूपसेवना’’ति च.

इदञ्हि सुत्तन्ति ‘‘मनोपुब्बङ्गमा…पे…पद’’न्ति (ध. प. १, २) पठमं गाथं सन्धाय वदति. एतस्साति संवण्णियमानसुत्तस्स.

किच्चपञ्ञत्तीति अधिपतिपच्चयसङ्खातस्स किच्चस्स पञ्ञापनं. पधानपञ्ञत्तीति पधानभावस्स पञ्ञापना. सहजातपञ्ञत्तीति तेसं धम्मानं मनसा सहभावपञ्ञापना.

महाभूतातीति इतिसद्दो आदिअत्थो, तेन महाभूताविनाभावी सब्बो रूपधम्मो सङ्गय्हति.

‘‘मनोपुब्बङ्गमा’’ति समासपदे ‘‘मनो’’ति पदं तदवयवमत्तन्ति आह ‘‘नेव पदसुद्धी’’ति. तेनेवाह ‘‘मनोपुब्बङ्गमाति पदसुद्धी’’ति. ‘‘छायाव अनपायिनी’’ति इदं सुखानुगमस्स उदाहरणमत्तं, न यथाधिप्पेतत्थपरिसमापनं. ‘‘सुखमन्वेती’’ति पन यथाधिप्पेतत्थपरिसमापनन्ति वुत्तं ‘‘पदसुद्धि चेव आरम्भसुद्धि चा’’ति.

एकत्तताति मनोपुब्बङ्गमादिसामञ्ञं सन्धाय वदति. एवं सेसेसुपि. वेमत्तता ‘‘मनोपुब्बङ्गमा’’तिआदिना सामञ्ञतो वुत्तधम्मे पसादो धारणाय निवत्तेत्वा पसन्नसङ्खाते विसेसे अवट्ठापनतो. सेसेसुपि एसेव नयो. पसादो सिनेहसभावो, अस्सद्धियं विय लूखसभावं दोसं विनोदेतीति आह ‘‘ब्यापादविक्खम्भनतो’’ति. बहिद्धाति सद्धेय्यवत्थुं सन्धायाह. ओकप्पनतोति आरम्मणं अनुपविसित्वा अनुपक्खन्दित्वा सद्दहनतो.

देय्यधम्मादयोति एत्थ आदिसद्देन संवेगहिरोत्तप्पकसिणमण्डलादयो सङ्गय्हन्ति. इट्ठारम्मणादयोति आदिसद्देन इट्ठमज्झत्तारम्मणा, द्वारधम्मा, मनसिकारोति एवमादीनं सङ्गहो दट्ठब्बो. तथा फस्सोति यथा वेदनादीनं इट्ठारम्मणादयो पच्चयो, एवं फस्सोपीति पच्चयतासामञ्ञमेव उपसंहरति तथा-सद्दो. वेदनादीनन्ति हि वेदनादयो तयो खन्धा गहिता. विञ्ञाणस्स वेदनादयोति नामरूपं सन्धाय वदति.

‘‘सीलमयस्स अदोसो पदट्ठान’’न्ति वुत्तं खन्तिपधानत्ता सीलस्स. अधिट्ठातीति अनुयुञ्जति उप्पादेति. सोति एवं कुसलचित्तं भावेन्तो. ‘‘अनुप्पन्नान’’न्तिआदिना भावनापहानसमारोपनानि दस्सेन्तो निब्बेधभागियवसेन गाथाय अत्थं विचिनित्वा समारोपेति, एवम्पि सक्का योजेतुन्ति वासनाभागियवसेन पदट्ठाननिद्देसे उदाहरीयति.

एवं ‘‘मनोपुब्बङ्गमा धम्मा’’ति गाथाय वसेन हारसम्पातयोजनाविधिं दस्सेत्वा इदानि गाथान्तरेन दस्सेतुं ‘‘तथा ददतो पुञ्ञ’’न्तिआदिमाह. तत्थ भावनामयन्ति पञ्ञाभावनामयं.

‘‘अलोभो कुसलमूल’’न्तिआदि दानादीनं अलोभादिपधानत्ता वुत्तं, सब्बत्थ च ‘‘वुत्त’’न्ति पदं आनेत्वा योजेतब्बं. तेसन्ति रागादीनं. निस्सरणन्ति च परिनिब्बानमेव सन्धाय वदति.

परिच्चागसीलो अलोभज्झासयो कामेसु आदीनवदस्सावी सम्मदेव सीलं परिपूरेतीति आह ‘‘ददतो…पे… पदट्ठान’’न्ति. इध ओळारिका नाम किलेसा वीतिक्कमावत्थानं, तप्पहानं तदङ्गप्पहानेन वेदितब्बं. मज्झिमानन्ति परियुट्ठानावत्थानं. सुखुमानन्ति अनुसयावत्थानं. कतावीभूमि न्ति खीणासवभूमिं.

ददतोति मग्गसहगतेन अलोभेन सदेवकस्स लोकस्स अभयदानं ददतो. पुञ्ञन्ति लोकुत्तरकुसलं. संयमतोति मग्गपरियापन्नेहि सम्मावाचाकम्मन्ताजीवेहि दिट्ठेकट्ठादिसंकिलेसतो मग्गसंयमेन संयमन्तस्स. वेरन्ति पाणातिपातादिपापं. कुसलोति मग्गसम्मादिट्ठिया कुसलो विचक्खणो. जहाति पापकन्ति तेहि तेहि मग्गेहि तं तं पहातब्बं पापधम्मं ओधिसो जहाति समुच्छिन्दति. तेनाह ‘‘मग्गो वुत्तो’’ति.

‘‘ददतो’’तिआदिना पुब्बे अविभागेन कुसलमूलानि उद्धटानीति इदानि विभागेन तानि उद्धरन्तो ‘‘लोकियकुसलमूल’’न्तिआदिमाह.

पुथुज्जनभूमि सेक्खभूमि दस्सिता पहानस्स विप्पकतभावदीपनतो. असेक्खभूमि दस्सिता अनुपादापरिनिब्बानदीपनतो.

सग्गगामिनी पटिपदा पुब्बभागप्पटिपत्ति.

पुञ्ञे कथिते पुञ्ञफलम्पि कथितमेव होतीति वुत्तं ‘‘ददतो…पे… देसनमाहा’’ति. सच्चकम्मट्ठानेन विना संकिलेसप्पहानं नत्थीति दस्सेन्तो आह ‘‘कुसलो…पे… देसनमाहा’’ति.

वेरसद्दो अदिन्नादानादिपापधम्मेसुपि निरुळ्होति वुत्तं ‘‘एवं सब्बानिपि सिक्खापदानि वित्थारेतब्बानी’’ति. द्वेपि विमुत्तियो सेक्खासेक्खविमुत्तियो, सउपादिसेसअनुपादिसेसविमुत्तियो च. तथा हि वक्खति ‘‘निब्बुतोति द्वे निब्बानधातुयो’’तिआदि (नेत्ति. अट्ठ. ७६).

कारणूपचारेन, कारणग्गहणेन वा फलं गहितन्ति आह ‘‘द्वे सुगतियो’’तिआदि. वट्टविवट्टसम्पत्तियो इमिस्सा देसनाय फलं, तस्स दानं सीलं भावना उपायो, ‘‘सम्पत्तिद्वयं इच्छन्तेन दानादीसु अप्पमत्तेन भवितब्ब’’न्ति अयमेत्थ भगवतो आणत्तीति इममत्थं सन्धायाह ‘‘फलादीनि यथारहं वेदितब्बानी’’ति.

विचयोति विचयहारसम्पातो, सो वुच्चतीति अत्थो. एस नयो इतो परेसुपि. ‘‘तिविधम्पि दानमय’’न्तिआदिना पदत्थविचयं दस्सेति, तेन अस्सादादयो, इतरे च विचयहारपदत्था अत्थतो विचिता एव होन्तीति. रूपादिआरम्मणस्स परिच्चागो वुत्तोति सम्बन्धो. सब्बोति सकलो अनवसेसतो किच्चस्स वुत्तत्ता.

दानाभिरतस्स चागाधिट्ठानं पारिपूरिं गच्छतीति वुत्तं ‘‘ददतो…पे… पदट्ठान’’न्ति. विरतिसच्चे, वचीसच्चे च तिट्ठतो सच्चाधिट्ठानं पारिपूरिं गच्छतीति वुत्तं ‘‘संयम…पे… पदट्ठान’’न्ति. कोसल्लयोगतो च पापप्पहानतो च पञ्ञापारिपूरिं गच्छतीति वुत्तं ‘‘कुसलो…पे… पदट्ठान’’न्ति. अनवसेसरागादीसु पहीनेसु उपसमो उपट्ठितो नाम होतीति वुत्तं ‘‘राग…पे… पदट्ठान’’न्ति.

कुसलोति पुग्गलाधिट्ठानेन कोसल्लसम्मादिट्ठि वुत्ताति आह ‘‘कुसलो…पे… मग्गङ्गादिभावेन एकलक्खणत्ता’’ति. आदिसद्देन बोधिपक्खियभावादिं सङ्गण्हाति. खेपेतब्बभावेनाति पहातब्बभावेन.

अवेरतन्ति असपत्ततं. कुसलधम्मेहीति अनवज्जधम्मेहि, फलनिब्बानेहीति अधिप्पायो. दानस्स महप्फलता, सीलादिगुणेहि सत्थु अनुत्तरदक्खिणेय्यभावो, अनुपादापरिनिब्बानन्ति इमेसं पच्चवेक्खणा इमस्स दानस्स निदानन्ति अयमत्थो पाळियं निरुळ्होव. निब्बचननिदानसन्धयो सुविञ्ञेय्यावाति आह ‘‘निब्बचननिदानसन्धयो वत्तब्बा’’ति.

पटिपक्खनिद्देसेन समुदयोति देसनत्थं पटिपक्खनिद्देसनेन निद्धारितो अयं मच्छरियादिसंकिलेसपक्खिको समुदयो. अलोभेन…पे… दानादीहीति येहि अलोभादीहि दानादयो धम्मा सम्भवन्ति, तानि दानादिग्गहणेनेव गहितानीति कुसलमूलानि निद्धारेति ‘‘इमानि तीणि कुसलानी’’ति. तेसन्ति कुसलमूलानं.

भयहेतु देति पण्णाकारादिवसेन. रागहेतु देति सभागवत्थुस्स. आमिसकिञ्चिक्खहेतु देति लञ्जादिवसेन. अनुकम्पन्तो वा करुणाखेत्ते. अपचयमानो गुणखेत्ते, उपकारखेत्ते वा. भयूपरतोति भयेन ओरतो. तेन तथारूपेन संयमेन वेरं न चियतेव. एवं सब्बस्स अकुसलस्स पापको विपाकोति योजना.

‘‘ददतो’’तिआदिना यथा दानपटिक्खेपेन परिवत्तनं दस्सितं, एवं पहानपटिक्खेपेनपि परिवत्तनं दस्सेतब्बन्ति वुत्तं ‘‘अकुसलो पन न जहाती’’ति.

कम्मफलं सद्दहन्तो दानकिरियायं पदहन्तो येन विधिना दानं दातब्बं, तत्थ सतिं उपट्ठपेन्तो चित्तं समादहन्तो सम्मादिट्ठिं पुरक्खरोन्तो दाने सम्मापटिपन्नो होतीति आह ‘‘दानं नाम…पे… होती’’ति.

भावनापहानसमारोपनानि पाळियं सरूपतो विञ्ञायन्तीति पदट्ठानवेवचनसमारोपनानि दस्सेतुं ‘‘तं सीलस्स पदट्ठान’’न्तिआदि वुत्तं, तं सुविञ्ञेय्यं. अञ्ञञ्च यदेत्थ अत्थतो न विभत्तं, तं वुत्तनयत्ता, उत्तानत्थत्ता चाति वेदितब्बं.

हारसम्पातवारवण्णना निट्ठिता.