(१) विभङ्गवारो
५३. या कुसलत्तिके लभन्ति, न तायेव वेदनात्तिकादीसूति तिकपदनानत्तमत्तेन विना मूलावसानवसेन सदिसतं सन्धाय ‘‘न तायेवा’’ति वुत्तं, न च केवलं तिकन्तरेयेव, कुसलत्तिकेपि पन या पटिच्चवारे लभन्ति, न तायेव पच्चयवारादीसूति सब्बपुच्छासमाहरणं इध कत्तब्बमेव. धम्मानुलोमपच्चनीये च तिकपट्ठाने वितक्कत्तिकपीतित्तिकानं विस्सज्जने सब्बापेता विस्सज्जनं लभन्तीति एत्थ पीतित्तिकग्गहणं न कातब्बं. न हि तत्थ एकूनपञ्ञास पुच्छा विस्सज्जनं लभन्तीति.
तेन सद्धिन्ति तेन सहजातपच्चयभूतेन सद्धिन्ति अत्थो दट्ठब्बो. ‘‘याव निरोधगमना उद्धं पज्जती’’ति च ‘‘उप्पादादयो वा पापुणाती’’ति च वचनेहि खणत्तयसमङ्गी उप्पज्जतीति वुच्चतीति अनुञ्ञातं विय होति, उप्पादक्खणसमङ्गीयेव पन एवं वुत्तोति दट्ठब्बो.
यस्मा पन एको खन्धो एकस्सातिआदि इध कुसलवचनेन गहिते खन्धे सन्धाय वुत्तं. वेदनात्तिकादीसु पन एकं खन्धं पटिच्च द्विन्नं, द्वे पटिच्च एकस्सपि, हेतुदुकादीसु च सङ्खारक्खन्धेकदेसं पटिच्च सङ्खारक्खन्धेकदेसस्सपि उप्पत्ति वुत्ताति सह उप्पज्जमानानं सब्बेसं धम्मानं पच्चयो होन्तो एकेकस्सपि दुकतिकादिभेदानञ्च पच्चयो नाम होतियेव, तथा दुकादिभेदानञ्चाति.
‘‘रूपेन सद्धिं अनुप्पत्तितो आरुप्पविपाकञ्च न गहेतब्ब’’न्ति वुत्तं, तं पन न सब्बस्मिं एतस्मिं वचने गहेतब्बं, अथ खो ‘‘चित्तसमुट्ठानञ्च रूप’’न्ति एत्थेव. न केवलञ्च आरुप्पविपाकोव, अथ खो लोकुत्तरविपाककिरियाब्याकतम्पि आरुप्पे उप्पज्जमानं एत्थ न गहेतब्बं. ‘‘विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा’’ति एत्थ पन न किञ्चि रूपेन विना सह वा उप्पज्जमानं सहेतुकं विपाककिरियाब्याकतं अग्गहितं नाम अत्थि. तत्थ पन यं रूपेन सह उप्पज्जति, तस्स पच्चयुप्पन्नविसेसं दस्सेतुं ‘‘चित्तसमुट्ठानञ्च रूप’’न्ति वुत्तं.
‘‘वत्थुं पटिच्च खन्धा’’ति एत्तके वत्तब्बे पच्चयभूतस्स वत्थुस्स ‘‘कटत्ता च रूप’’न्ति एतस्मिं सामञ्ञवचने पच्चयुप्पन्नभावेन अग्गहिततापत्तिं निवारेतुं ‘‘खन्धे पटिच्च वत्थू’’ति वुत्तं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति वा वत्थुखन्धानं अञ्ञमञ्ञपच्चयभूतानं पच्चयभावविसेसदस्सनत्थं अञ्ञमञ्ञापेक्खं वचनद्वयं वुत्तं सामञ्ञेन गहितम्पि विसुं उद्धटं.
महाभूतेपि पटिच्च उप्पत्तिदस्सनत्तन्ति यं चित्तसमुट्ठानरूपं कटत्तारूपञ्च उपादारूपं उपादारूपग्गहणेन विना ‘‘खन्धे पटिच्च उप्पज्जती’’ति वुत्तं, तस्स महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थन्ति अत्थो. एतस्मिं पन दस्सने खन्धपच्चयसहितासहितञ्च सब्बं उपादारूपं इतो परेसु सहजातपच्चयादीसु सङ्गहितन्ति इममत्थं सन्धाय ‘‘कटत्तारूपं पटिसन्धियम्पी’’ति पि-सद्दो वुत्तोति दट्ठब्बो.
महाभूते पटिच्च उपादारूपन्ति वुत्तनयेनाति ‘‘महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति एत्थ अत्थतो अयं नयो वुत्तोति सन्धायाह.
५४. रूपमिस्सका पहायाति यासु पुच्छासु रूपेन विना पच्चयुप्पन्नं न लब्भति, अथ खो रूपमिस्सकमेव लब्भति, ता पहायाति अधिप्पायो.
५७. ‘‘तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’’ति वचनतोति गब्भसेय्यकपटिसन्धिया पञ्चक्खन्धसब्भावेन ताय समानलक्खणा सब्बापि पञ्चवोकारपटिसन्धि ओक्कन्तिनामकाति साधेति. परिपुण्णधम्मानं विस्सज्जनं एत्थ अत्थीति परिपुण्णविस्सज्जना.
एत्थ च ‘‘एकं महाभूतं पटिच्च तयो…पे… महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति (पट्ठा. १.१.५३) एत्तावता पञ्चवोकारे सब्बं चित्तकम्मसमुट्ठानरूपं दस्सितं. अवसेसं पन दस्सेतुं ‘‘बाहिर’’न्तिआदि वुत्तं. तत्थ बाहिरन्ति एतेन अनिन्द्रियबद्धरूपं दस्सेति, पुन आहारसमुट्ठानं उतुसमुट्ठानन्ति एतेहि सब्बं इन्द्रियबद्धं आहारउतुसमुट्ठानरूपं. तत्थ ‘‘उतुसमुट्ठानं एक’’न्तिआदिना असञ्ञसत्तानम्पि उतुसमुट्ठानं वुत्तमेवाति दट्ठब्बं. न हि तत्थ तस्स वज्जने कारणं अत्थीति. आदिम्हि पन ‘‘एकं महाभूतं पटिच्चा’’तिआदि अविसेसवचनं सहजातं अरूपम्पि पच्चयं हेतादिके च पच्चये बहुतरे लभन्तं चित्तसमुट्ठानकटत्तारूपद्वयं सह सङ्गण्हित्वा वुत्तं, एवञ्च कत्वा तस्स परियोसाने ‘‘महाभूते पटिच्च चित्तसमुट्ठानरूपं कटत्तारूपं उपादारूप’’न्ति वुत्तं, तस्मा तत्थ कटत्तारूपं चित्तसमुट्ठानसम्बन्धं तंसमानगतिकं पञ्चवोकारे वत्तमानमेव गहितन्ति अग्गहितं कटत्तारूपं दस्सेतुं ‘‘असञ्ञसत्तानं एकं महाभूतं पटिच्चा’’तिआदि वुत्तं, तस्मा उपादारूपं इधपि कम्मपच्चयविभङ्गे विय ‘‘महाभूते पटिच्च कटत्तारूपं उपादारूप’’न्ति (पट्ठा. १.१.६३) कटत्तारूपभावविसिट्ठं उपादारूपं गहितन्ति दट्ठब्बं. न हि वुत्तस्स उतुसमुट्ठानस्स पुनवचने पयोजनं अत्थीति.
कस्मा पन यथा बाहिरादीसु ‘‘महाभूते पटिच्च उपादारूप’’न्ति अविसेसेत्वा उपादारूपं वुत्तं, एवं अवत्वा चित्तकम्मजउपादारूपानि ‘‘चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूप’’न्ति हेतुपच्चयादीसु सह ‘‘चित्तसमुट्ठानं रूपं उपादारूपं असञ्ञसत्तानं…पे… कटत्तारूपं उपादारूप’’न्ति अधिपतिपच्चयादीसु विसुं चित्तसमुट्ठानरूपभावकटत्तारूपभावेहि विसेसेत्वाव वुत्तानीति? तत्थ बाहिरग्गहणादीहि विय एत्थ महाभूतानं केनचि अविसेसितत्ता. अपिच इद्धिचित्तनिब्बत्तानं कम्मपच्चयानञ्च इट्ठानिट्ठानं बाहिररूपायतनादीनं चित्तं कम्मञ्च हेतादीसु न कोचि पच्चयो, आहारउतुसमुट्ठानानं पन चित्तं पच्छाजातभावेन उपत्थम्भकमेव, न जनकं, महाभूतानेव पन तेसं सहजातादिभावेन जनकानि, तस्मा सतिपि चित्तेन कम्मेन च विना अभावे हेतादिपच्चयभूतेहि अरूपेहि उप्पज्जमानानि चित्तसमुट्ठानरूपकटत्तारूपभूतानेव उपादारूपानि होन्ति, न अञ्ञानीति इमं विसेसं दस्सेतुं चित्तकम्मजेस्वेव उपादारूपेसु विसेसनं कतं. अञ्ञानि वा समानजातिकेन रूपेन समुट्ठानानि पाकटविसेसनानेवाति न विसेसनं अरहन्ति, एतानि पन असमानजातिकेहि अरूपेहि समुट्ठितानि विसेसनं अरहन्तीति विसेसितानीति वेदितब्बानि. यथा वा चित्तकम्मानि चित्तकम्मसमुट्ठानानं सविसेसेन पच्चयभावेन पच्चया होन्ति सहजातादिपच्चयभावतो मूलकरणभावतो च, न एवं उतुआहारा तंसमुट्ठानानन्ति चित्तकम्मजानेव विसुं विसेसनं अरहन्ति. इतरानि पन महाभूतविसेसेनेव विसेसितानि, इध उपादारूपविसेसनेन महाभूतानि विय. न हि अञ्ञतरविसेसनं उभयविसेसनं न होतीति.
५८. अञ्ञमञ्ञपच्चये खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति खन्धवत्थूनं अञ्ञमञ्ञपच्चयतादस्सनेन पुब्बे विसुं पच्चयभावेन दस्सितानं खन्धानं एकतो पच्चयभावो दस्सितो होतीति इमिना अधिप्पायेनाह ‘‘चतुन्नम्पि खन्धानं एकतो वत्थुना अञ्ञमञ्ञपच्चयतं दस्सेतुं वुत्त’’न्ति. ‘‘खन्धे पटिच्च वत्थू’’ति इदं पन चतुन्नम्पि खन्धानं एकतो पटिच्चत्थफरणतादस्सनत्थं, ‘‘वत्थुं पटिच्च खन्धा’’ति वत्थुस्स. न केवलञ्च खन्धानं इधेव, हेतुपच्चयादीसुपि अयमेव नयो. तत्थ सब्बेसं खन्धानं विसुं पटिच्चत्थफरणतं दस्सेत्वा पुन ‘‘वत्थुं पटिच्च खन्धा’’ति वत्थुस्सपि दस्सिताय ‘‘एकं खन्धञ्च वत्थुञ्च पटिच्च तयो खन्धा’’तिआदिना खन्धवत्थूनञ्च दस्सितायेव होतीति दट्ठब्बा.
कस्मा पनेत्थ ‘‘कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया, कुसले खन्धे पटिच्च चित्तसमुट्ठाना महाभूता’’ति एवमादि न वुत्तं, ननु यदेव पटिच्चत्थं फरति, न तेनेव अञ्ञमञ्ञपच्चयेन भवितब्बं हेतुपच्चयादीहि विय. न हि यं ‘‘एकं तयो द्वे च खन्धे पटिच्चा’’ति वुत्तं, ते हेतुपच्चयभूता एव होन्ति. एस नयो आरम्मणपच्चयादीसुपि. पच्चयवारे च ‘‘अब्याकतं धम्मं पच्चया कुसलो धम्मो उप्पज्जति अञ्ञमञ्ञपच्चया’’ति (पट्ठा. १.१.२५६) वुत्तं, न वत्थु कुसलानं अञ्ञमञ्ञपच्चयो होति, अथ च पन तंपच्चया खन्धानं अञ्ञमञ्ञपच्चया उप्पत्ति वुत्ता एव. यदिपि कुसला खन्धा महाभूतानं अञ्ञमञ्ञपच्चया न होन्ति, तथापि ते पटिच्च तेसं उप्पत्ति वत्तब्बा सियाति? न वत्तब्बा खन्धसहजातानं महाभूतानं खन्धानं पच्चयभावाभावतो. अञ्ञमञ्ञसद्दो हि न हेतादिसद्दो विय निरपेक्खो, सहजातादिसद्दो विय वा अञ्ञतरापेक्खो, अथ खो यथावुत्तेतरेतरापेक्खो. पच्चयपच्चयुप्पन्ना च खन्धा महाभूता इध यथावुत्ता भवेय्युं, तेसु च महाभूता खन्धानं न कोचि पच्चयो. यस्स च सयं पच्चयो, ततो तेन तन्निस्सितेन वा अञ्ञमञ्ञपच्चयेन उप्पज्जमानं अञ्ञमञ्ञपच्चया उप्पज्जतीति वत्तब्बतं अरहति, यथा खन्धे पटिच्च खन्धा, वत्थुं पच्चया खन्धा. तस्मा अत्तनो पच्चयस्स पच्चयत्ताभावतो तदपेक्खत्ता च अञ्ञमञ्ञसद्दस्स खन्धे पटिच्च पच्चया च महाभूतानं अञ्ञमञ्ञपच्चया उप्पत्ति न वुत्ता, न अञ्ञमञ्ञपच्चया च वुत्ता. खन्धा पन वत्थुं पच्चया उप्पज्जमाना वत्थुस्स पच्छाजातपच्चया होन्ति, तन्निस्सितेन च अञ्ञमञ्ञपच्चयेन उप्पज्जन्ति. तस्मा वत्थुं पच्चया खन्धानं कुसलादीनं अञ्ञमञ्ञपच्चया उप्पत्ति वुत्ताति.
५९. न सा गहिताति चक्खायतनादीनि निस्सयभूतानि पटिच्चाति न वुत्तन्ति अधिप्पायो. निस्सयपच्चयभावेन पन न चक्खायतनादीनि आरम्मणपच्चयभावेन रूपायतनादीनि विय न गहितानीति.
६०. द्वीसु उपनिस्सयेसु वत्तब्बमेव नत्थि, आरम्मणूपनिस्सयम्पि पन ये लभन्ति, तेसं वसेन आरम्मणपच्चयसदिसन्ति एवं वुत्तन्ति दस्सेतुं ‘‘तत्थ किञ्चापी’’ति आह. तत्थ ‘‘न सब्बे अकुसला अब्याकता आरम्मणूपनिस्सयं लभन्ती’’ति पुरिमपाठो. कुसलापि पन महग्गता एकन्तेन, कामावचरा च कदाचि न लभन्तीति ‘‘न सब्बे कुसलाकुसलाब्याकता’’ति पठन्ति.
६१. पुरेजातपच्चये यथा अञ्ञत्थ पच्चयं अनिद्दिसित्वाव देसना कता, एवं अकत्वा कस्मा ‘‘वत्थुं पुरेजातपच्चया’’ति वुत्तन्ति? नियमसब्भावा. हेतुआदीसु हि नियमो नत्थि. न हि तेहि उप्पज्जमानानं अलोभादीसु कुसलादीसु रूपादीसु च अयमेव पच्चयोति नियमो अत्थि, इध पन वत्थु न वत्थुधम्मेसु पुरेजातपच्चया उप्पज्जमानानं धम्मानं नियमतो छब्बिधं वत्थु पुरेजातपच्चयो होतीति इममत्थं दस्सेतुं इदं वुत्तं. आरम्मणपुरेजातम्पि हि वत्थुपुरेजाते अविज्जमाने न लब्भति, एवञ्च कत्वा पटिसन्धिविपाकस्स नपुरेजातपच्चया एव उप्पत्ति वुत्ता, पच्चुप्पन्नारम्मणस्सपि तस्स पुरेजातपच्चयो न उद्धटो. ‘‘नेवविपाकनविपाकधम्मधम्मं पटिच्च विपाको धम्मो उप्पज्जति पुरेजातपच्चया’’ति एतस्सपि अलाभतो तत्थ ‘‘पुरेजाते तीणी’’ति (पट्ठा. १.३.१२४) वुत्तन्ति.
६३. तथा पटिसन्धिक्खणे महाभूतानन्ति महाभूतानं एकक्खणिकनानाक्खणिककम्मपच्चयवसेनेव तदुपादारूपानम्पि वदतीति च दट्ठब्बं. कटत्तारूपानन्ति पवत्तियं कटत्तारूपानन्ति अधिप्पायो.
६४. यथालाभवसेनाति इन्द्रियरूपेसु यं यं पटिसन्धियं लब्भति, तस्स तस्स वसेन.
६९. विप्पयुत्तपच्चया उप्पज्जमानानम्पि केसञ्चि नियमतो वत्थु विप्पयुत्तपच्चयो, केसञ्चि खन्धा, न च समानविप्पयुत्तपच्चया एव कुसलादिके पटिच्च उप्पज्जमाना उप्पज्जन्ति, अथ खो नानाविप्पयुत्तपच्चयापि, तस्मा तं विसेसं दस्सेतुं ‘‘वत्थुं विप्पयुत्तपच्चया, खन्धे विप्पयुत्तपच्चया’’ति तत्थ तत्थ वुत्तं. तत्थ तदायत्तवुत्तिताय पच्चयुप्पन्नो पच्चयं पच्चयं करोतीति इमस्सत्थस्स वसेन उपयोगवचनं दट्ठब्बं. वत्थुं खन्धे विप्पयुत्तपच्चयकरणतोति अयञ्हेत्थ अत्थो. अट्ठकथायं पन ‘‘वत्थुं पटिच्च विप्पयुत्तपच्चया, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेना’’ति अत्थो वुत्तो, तत्थ कुसलानं खन्धानं वत्थुं पटिच्च उप्पत्ति नत्थीति ‘‘वत्थुं पटिच्चा’’ति न सक्का वत्तुन्ति, इदं पन पटिच्चसद्देन अयोजेत्वा ‘‘पटिच्च उप्पज्जन्ति वत्थुं विप्पयुत्तपच्चया’’ति योजेत्वा तस्सत्थो ‘‘वत्थुना विप्पयुत्तपच्चयतं साधेन्तेना’’ति वुत्तोति दट्ठब्बो. किं पन पटिच्चाति? यं ‘‘एकं खन्ध’’न्तिआदिकं पाळियं पटिच्चाति वुत्तं. तमेव अत्थं पाकटं कत्वा ‘‘वत्थुं विप्पयुत्तपच्चयाति खन्धे पटिच्च खन्धा, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेना’’ति पठन्ति. अनन्तरत्ता पाकटस्स अब्याकतचित्तसमुट्ठानस्सेव गहणं मा होतूति ‘‘अब्याकतचित्तसमुट्ठानम्पि कुसलाकुसलचित्तसमुट्ठानम्पी’’ति आह. आसन्नम्पि दूरम्पि सब्बन्ति वुत्तं होतीति.
७१-७२. ‘‘इमे वीसति पच्चयाति संखिपित्वा दस्सितानं वसेनेतं वुत्त’’न्ति वुत्तं. तत्थ यदि एकेनपि देसनं संखित्तं संखित्तमेव, आदिम्हि पन तयो पच्चया विप्पयुत्तपच्चयो एकम्पि पदं अपरिहापेत्वा वित्थारिताति ते चत्तारो पच्छाजातञ्च वज्जेत्वा ‘‘इमे एकूनवीसति पच्चया’’ति वत्तब्बं सिया. एत्तका हि संखिपित्वा दस्सिताति. ये पन पाळियं वित्थारितं अवित्थारितञ्च सब्बं सङ्गहेत्वा वुत्तन्ति वदन्ति, तेसं ‘‘इमे तेवीसति पच्चया’’ति पाठेन भवितब्बं. आदिम्हि पन तयो पच्चये वित्थारिते वज्जेत्वा यतो पभुति सङ्खेपो आरद्धो, ततो चतुत्थतो पभुति संखित्तं वित्थारितञ्च सह गहेत्वा ‘‘इमे तेवीसति पच्चया’’ति वुत्तन्ति दट्ठब्बं.
विभङ्गवारवण्णना निट्ठिता.